By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: देशभक्तेः गीतैः एव सीमितं न स्वातन्त्र्यदिवसस्य उत्सवः, वेषभूषया अपि मातृभूमेः प्रेम्णः सन्देशः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > देशभक्तेः गीतैः एव सीमितं न स्वातन्त्र्यदिवसस्य उत्सवः, वेषभूषया अपि मातृभूमेः प्रेम्णः सन्देशः
दिवसविशेषःहिमाचलवार्ता

देशभक्तेः गीतैः एव सीमितं न स्वातन्त्र्यदिवसस्य उत्सवः, वेषभूषया अपि मातृभूमेः प्रेम्णः सन्देशः

डॉ मनोज शैल
Last updated: 2026/08/14 at 10:43 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

देशभक्तेः गीतैः एव सीमितं न स्वातन्त्र्यदिवसस्य उत्सवः, वेषभूषया अपि मातृभूमेः प्रेम्णः सन्देशः

हिमसंस्कृतवार्ता: – सोलनम्।

प्रदेशस्य सर्वेषु भागेषु स्वातन्त्र्यदिवसस्य विषये युवकेषु बालकेषु च विशेषः उत्साहः दृश्यते। स्वातन्त्र्यदिवसे अस्मिन् वर्षे केवलं तिरङ्गध्वजस्य आरोहणेन देशभक्तिगीतैश्च उत्सवः सीमितः नास्ति, अपितु जनाः स्ववेषभूषायाम् अपि देशभक्तेः वर्णं समावेशयन्ति। वर्षे २०२६ तमे स्वातन्त्र्यदिवसस्य अवसरे तिरङ्गध्वजेन प्रेरितानि परिधानानि, पारम्परिकवेषाः, तिरङ्ग-उत्तरीयम्, कङ्कणानि, हस्तबन्धाः (रिस्ट बैंड) मुखरङ्गलेपनं च जनानां प्रियाः भवन्ति। वेशभूषासम्बद्धे अधुनातने प्रवाहे अपि तिरङ्गस्य त्रयाणां वर्णानाम् एकत्र धारणस्य स्थाने एकं वर्णं प्रमुखं कृत्वा शेषवर्णान् अलङ्कारोपकरणैः समावेशयितुं प्रवृत्तिः दृश्यते। युवतीनां मध्ये श्वेतसाटिकायाः अथवा सूट-वस्त्रस्य सह केसरियवर्णस्य अथवा हरितवर्णस्य अङ्गवस्त्र-धारणस्य प्रवृत्तिः प्रिया भवति।

तिरङ्गवर्णयुक्ताः साटिकाः, लघुवस्त्रनिर्मिताः साटिकाः तथा चिकनकारी इत्यादयः पारम्परिकभारतीयवेषाः अपि स्वातन्त्र्यदिवसस्य कृते आकर्षकाः विकल्पाः मन्यन्ते। बहवः जनाः सम्पूर्णतिरङ्गवर्णस्य परिधानं न धृत्वा श्वेतकराङ्शुकस्य अथवा साटिकया सह तिरङ्गदुपट्टं, प्रतीकचिह्नं (ब्रोच) वा कङ्कणानि धृत्वा सरलतया देशभक्तेः सन्देशं दातुं सज्जाः सन्ति। करांशुक-पादांशुकाभ्यां सह नेहरू-उपरिवस्त्रस्य तिरङ्गप्रतीकस्य च संयोजनम् अपि आकर्षणस्य केन्द्रं जातम् अस्ति। बालकानां कृते तिरङ्गरिब्बन, केशबन्धः (हेयरबैंड), हस्तबन्धः तथा लघुप्रतीकयुक्तः वेषः प्रियः भवति। विद्यालयेषु आयोजितेषु स्वातन्त्र्यदिवस-कार्यक्रमेषु भगतसिंहस्य, नेताजी सुभाषचन्द्रबोसस्य, रानीलक्ष्मीबाय्याः तथा डॉ. ए.पी.जे. अब्दुलकलामस्य इत्यादीनां राष्ट्रनायकानां वेषधारणमपि अत्यन्तं लोकप्रियं भवति।

 

मुखरङ्गलेपनं नवम् आकर्षणम्

अस्मिन् वर्षे स्वातन्त्र्यदिवसस्य उत्सवे मुखरङ्गलेपनमपि विशेषम् आकर्षणं भवति। बालकाः युवकाश्च कपोलयोः केसरियवर्णेन, श्वेतवर्णेन हरितवर्णेन च तिरङ्गध्वजस्य चित्रं कारयन्ति। केचन जनाः त्रिवर्णेन सह अशोकचक्रस्य चित्रमपि कारयन्ति। सामाजिकमाध्यमानां युगे एषः वेषः छायाचित्राणां रील-चित्राणां च कृते अपि अत्यन्तं प्रियः भवति। स्वातन्त्र्यदिवसस्य अवसरे मुखे तिरङ्गवर्णानां लघुचित्रनिर्माणस्य प्रवृत्तिः नवीना नास्ति, किन्तु २०२६ तमे वर्षे ताम् परिधानैः अलङ्कारोपकरणैश्च सह संयोज्य सम्पूर्णदेशभक्तिपूर्णं रूपं निर्मातुं प्रवृत्तिः दृश्यते।

 

नखकलायां कङ्कणेषु च तिरङ्गः

महिलाः युवत्यश्च नखेषु तिरङ्ग-नखकला (नेल आर्ट) कारयित्वा केसरियवर्णस्य, श्वेतवर्णस्य हरितवर्णस्य च कङ्कणानि धृत्वा स्ववेषं पूर्णं कुर्वन्ति। केशेषु तिरङ्गरिब्बन, क्लिप तथा रबर-बैण्ड इत्यादीनि अपि प्रियाणि भवन्ति। विपण्यां उपलब्धानि लघु-तिरङ्गप्रतीकानि तथा प्रतीकचिह्नानि (ब्रोच) अपि साधारणवस्त्राणि स्वातन्त्र्यदिवसस्य वर्णैः रञ्जयितुं सरलः उपायः भवन्ति। एवं २०२६ तमस्य स्वातन्त्र्यदिवसस्य फैशन केवलं त्रिवर्णानां धारणपर्यन्तं सीमितं नास्ति, अपितु पारम्परिकभारतीयवेषैः, मुखरङ्गलेपनैः, नखकलया लघुभिः अलङ्कारोपकरणैश्च देशभक्तिं शैल्या सह संयोजयितुं अवसरः अभवत्।

 

सोलनस्य महिलाभिः कथितः अयं प्रवाहः

सोलनस्य महिलानां मतानुसारम् अस्मिन् वर्षे स्वातन्त्र्यदिवसे तिरङ्गसाटिका, तिरङ्गदुपट्टः, श्वेतकरांशुक-पादांशुकम्, तिरङ्गमुखरङ्गलेपनम्, तिरङ्ग-नखकला, त्रिवर्णकङ्कणानि, तिरङ्गकेशालङ्काराः, भगतसिंहस्य वेषः, सैनिकवेषः तथा भारतमातुः वेषः प्रवाहे सन्ति। महिलाः कथितवत्यः यत् १५ अगस्त-दिनाङ्के देशभक्त्या सह आकर्षकरूपेण दृश्यितुं युवानः एतान् वेषान् रुचिपूर्वकं स्वीकुर्वन्ति।

You Might Also Like

स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्

Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्

मुख्यमन्त्रिण: हमीरपुराय शिक्षायै स्वास्थ्याय च महान् उपहार:, उद्घाट्यते हिमाचलस्य प्रथम: विज्ञानमहाविद्यालय:

प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति, मुख्यमन्त्रिणा सुक्खुना बिलासपुरे कृता घोषणा

Independence Day 2026 – स्वातन्त्र्यदिवसे हिमाचले ४३३ काराबद्धानां दण्डे भविष्यति शिथिलता, त्रयः मोचयिष्यन्ते

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Independence day celebration, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, स्वतंत्रता दिवस, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति, मुख्यमन्त्रिणा सुक्खुना बिलासपुरे कृता घोषणा
Next Article मुख्यमन्त्रिण: हमीरपुराय शिक्षायै स्वास्थ्याय च महान् उपहार:, उद्घाट्यते हिमाचलस्य प्रथम: विज्ञानमहाविद्यालय:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?