विद्यालयेषु छात्राणां सङ्ख्या-आधारे नियुक्ष्यन्ते जे.बी.टी.-शिक्षकाः, शिक्षा-विभागेन आरब्धं युक्तीकरणम्
हिमसंस्कृतवार्ता: — शिमला ।
हिमाचलप्रदेशस्य सर्वकारीय-प्राथमिक-विद्यालयेषु अधुना छात्राणां सङ्ख्यायाः आधारेण जे.बी.टी.-शिक्षकाणां नियुक्तिः करिष्यते। शिक्षा-विभागेन विद्यालयेषु शिक्षकाणां युक्तीकरणस्य (Rationalization) प्रक्रिया आरब्धा, यस्याः अन्तर्गतं न्यून-छात्र-सङ्ख्या-युतेषु विद्यालयेषु नियुक्ताः अतिरिक्ताः शिक्षकाः आवश्यकता-युतासु संस्थासु प्रेषयिष्यन्ते।
प्रदेशे ३२०९ विद्यालयाः एक-एक-शिक्षकस्य आश्रयेण चलन्तः सन्ति। विभागीय-स्रोतेभ्यः प्राप्त-सूचनानुसारं प्रदेशे तादृशाः बहवः प्राथमिक-विद्यालयाः सन्ति, यत्र केवलम् अष्टतः दश छात्राणां पाठनाय द्वितः त्रयः जे.बी.टी.-शिक्षकाः नियुक्ताः सन्ति। अपरतः बहवः विद्यालयाः शिक्षकाणां न्यूनतया संतप्ता: सन्ति। एतमेव असन्तुलनं दूरीकर्तुम् शिक्षा-विभागेन छात्र-सङ्ख्यायाः आधारेण शिक्षकाणां नियुक्तेः निर्णयः गृहीत:।
नूतन-व्यवस्थायाः अन्तर्गतं प्रत्येकस्मिन् विद्यालये छात्राणां शिक्षकाणां च अनुपातः द्रक्ष्यते। येषु विद्यालयेषु निर्धारित-मानदण्डेभ्यः अधिकाः शिक्षकाः प्राप्स्यन्ते, ततः अतिरिक्ताः शिक्षकाः तेषु विद्यालयेषु स्थानान्तरिताः करिष्यन्ते यत्र शिक्षकाणां न्यूनता अस्ति। अनेन पदेन उपलब्धानां शिक्षकाणां श्रेष्ठः उपयोगः भवितुं शक्ष्यति दूरस्थ-क्षेत्राणां छात्रेभ्यः अपि पर्याप्ताः शिक्षण-सुविधाः लप्स्यन्ते।
साकमेव दीर्घ-समयात् शिक्षक-न्यूनतां सहमानेभ्यः विद्यालयेभ्यः साहाय्यता (राहत) प्राप्तुम् आशा अस्ति। शिक्षा-मन्त्रिणा रोहितठाकुरेण ज्ञापितं यत् विभागीय-अधिकारिणः पूर्णं ‘रिकॉर्ड’-पत्रं सङ्ग्रहीतुम् निर्दिष्टाः। अस्याः सूचनायाः आधारेण युक्तीकरणस्य प्रक्रिया पूर्णताम् आनेष्यते।
