By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ‘टॉक्सिक’ चलच्चित्रस्य विज्ञापन पुटकं जातम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > चलचित्रवार्ताः > ‘टॉक्सिक’ चलच्चित्रस्य विज्ञापन पुटकं जातम्
चलचित्रवार्ताः

‘टॉक्सिक’ चलच्चित्रस्य विज्ञापन पुटकं जातम्

जगदीश डाभी
Last updated: 2026/08/09 at 7:30 PM
जगदीश डाभी
Share
2 Min Read
SHARE

‘टॉक्सिक’ चलच्चित्रस्य विज्ञापन पुटकं जातम्

वार्ताहर: – जगदीश डाभी, मुम्बई

 

(हिमसंस्कृतवार्ता:) ‘टॉक्सिक’ इति चलच्चित्रस्य विज्ञापन पुटकं प्रसारितं  अभवत्। अस्मिन् विज्ञापनखण्डे अत्यधिकं क्रियादृश्यं (एक्शन सीन) वर्तते। एतानि क्रियादृश्यानि अतीव हिंसात्मकानि सन्ति। अस्य प्रारम्भः पितृ-पुत्राभ्यां भवति। पुत्रः स्वपितरं वदति— “क्रोधं मा करोतु, अहं भवतः सर्वं वचनं पालयिष्यामि।” एतौ पिता पुत्रश्च उभौ अपि यशस्य एव पात्रे स्तः। यशः पितुः पुत्रस्य च उभयोः भूमिकां निर्वहति। पितुः पात्रस्य नाम ‘राया’ अस्ति, यः एकः असाधुः (गैंगस्टर) अस्ति। वहीं, पुत्रस्य पात्रस्य नाम ‘रुमी’ इति अस्ति।
पितृ-पुत्रयोः प्रवेशानन्तरं विज्ञापनखण्डे कियारा आडवाणी दृश्यते, या सर्कस-मध्ये कार्यं करोति, रुम्याः माता च अस्ति। ततः परम् एकमेकं कृत्वा सर्वेषां मुख्यकलाकाराणां प्रवेशः भवति। कलाकाराणां प्रवेशेन सह उग्रं क्रियादृश्यम् अपि द्रष्टुं लभ्यते, यस्मिन् शोणितपातः भूरिशः हिंसादृश्यानि च सन्ति। एषः विज्ञापनखण्डः रणबीरकपूरस्य ‘एनिमल’ चलच्चित्रमिव प्रतीयते, यतो हि अस्मिन् अत्यधिकाहिंसा दर्शिता अस्ति।
‘टॉक्सिक’ चलच्चित्रस्य अस्य विज्ञापनखण्डस्य वैशिष्ट्यम् इदम् अस्ति यत् यशः अस्मिन् सुदीर्घकालानन्तरं श्मश्रुरहिते (बिना दाढ़ी) रूपे दृश्यते। ‘केजीएफ’ चलच्चित्रानन्तरं यशः प्रायः श्मश्रुसहिते रूपे एव दृष्टः। ‘रामायणम्’ इत्यस्मिन् अपि सः श्मश्रुसहिते रूपे एव दृश्यिष्यते। किन्तु इदानीं तेन ‘टॉक्सिक’ इति चलच्चित्राय श्मश्रुः निष्कासितः। तथापि ‘टॉक्सिक’ मध्ये तस्य एकं पात्रं श्मश्रुसहितं भविष्यति, अपरं च पात्रं श्मश्रुरहितं द्रक्ष्यते।
‘टॉक्सिक’ चलच्चित्रस्य एषः विज्ञापनखण्डः प्रभावशाली अस्ति। यद्यपि अस्मिन् कानिचित् पात्राणि दृष्ट्वा किञ्चित् संशयः अपि भवति, तथापि जनैः एषः विज्ञापनखण्डः रोच्यते। एतं दृष्ट्वा एतादृशं प्रतीयते यत् एतत् चलच्चित्रं चलच्चित्रगृहेषु (बॉक्स ऑफिस) नूतनान् कीर्तिमानान् स्थापयिष्यति।

You Might Also Like

‘मालामाल वीकली २’ इति चलच्चित्रस्य सज्जीकरणम् आरब्धम्, परिणीतिचोपडा रवीनाटण्डन् च अस्य अंशः सञ्जाते

‘आवारापन 2’ इत्यस्य विज्ञापन पुटकं प्रसारितं, खलनायिकायाः भूमिकायां शबाना आज़मी दृष्टा

‘गजनी’ चलच्चित्रस्य खलनायकः प्रदीप रावतः दिवङ्गतः, आमिरखानेन सह ‘लगान’ चलच्चित्रे अपि दृष्टः आसीत्, ‘महाभारते’ अपि अभिनयं कृतवान्

अजयदेवगणस्य दूरदर्शने पुनः भविष्यति प्रवेशः, प्रथमवारं करिष्यति अपराधप्रदर्शिन्याः (क्राइम-शो इत्याख्यस्य) सञ्चालनम्

बिग बॉस इति कार्यक्रमे भागं गृहीतवान् यूट्यूबर-मृदुलतिवारी अद्यापि बॉलिवुड-चलच्चित्रजगति अवसरं न प्राप्तवान्, यद्यपि एल्विशयादवः स्वकीयं प्रथमं चलच्चित्रं (डेब्यू) कर्तुं गच्छन् अस्ति

TAGGED: नई फिल्में, बॉलीबुड समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article विद्यालयेषु छात्राणां सङ्ख्या-आधारे नियुक्ष्यन्ते जे.बी.टी.-शिक्षकाः, शिक्षा-विभागेन आरब्धं युक्तीकरणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?