By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *असमराज्ये भीषणजलप्लवनम् – कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संस्कृतभारत्याः च संयुक्ता श्रमदानयात्रा प्रारब्धा* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *असमराज्ये भीषणजलप्लवनम् – कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संस्कृतभारत्याः च संयुक्ता श्रमदानयात्रा प्रारब्धा* 
संस्कृतगतिविधयः

*असमराज्ये भीषणजलप्लवनम् – कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संस्कृतभारत्याः च संयुक्ता श्रमदानयात्रा प्रारब्धा* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/08/08 at 1:32 AM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

*असमराज्ये भीषणजलप्लवनम् – कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संस्कृतभारत्याः च संयुक्ता श्रमदानयात्रा प्रारब्धा* 

 

 नलबारी असमः, दिनाङ्क: ०७/०८/२०२६

 

भारतस्य उत्तर-पूर्वसीमान्ते स्थितस्य असमराज्यस्य भूभागे साम्प्रतम् आपतितं जलप्लवनम् अतीव भयावहं भीषणं च रूपं धारितवत् अस्ति। अत्यन्तवृष्ट्या नदीनां वर्धितजलपरिमाणस्य कारणात् राज्यस्य अनेके जनपदाः पूर्णतया जलमग्नाः जाताः। अस्मिन् प्रकृतिकोपे बहवः जनाः स्वकीयान् गृहान्, जीवनोपयोगिवस्तूनि, पशुधनं च हृतवन्तः। सहस्रशः जनाः निराश्रिताः सन्तः सुरक्षिताश्रयस्थलानि अन्विष्यन्ति।

अतः अस्यामापदि जलप्लवपीडितानां जनानां साहाय्यार्थम्, सेवाभावं पुरस्कृत्य, नलबारीजनपदे स्थितस्य प्रतिष्ठितस्य ‘कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य’ तथा च ‘संस्कृतभारत्याः उत्तर-असम-प्रान्तस्य’ संयुक्ततत्वावधाने अद्य एकस्य महतः श्रमदान-कार्यक्रमस्य यात्रायाः आरम्भः अभवत्।

 

२०२६ तमवर्षस्य अगस्तमासस्य सप्तमे दिनाङ्के , अपराह्णे त्रिवादने अस्य ऐतिहासिकस्य श्रमदान-संघस्य प्रस्थानं जातम्। एतत् श्रमदानदलं मुख्यतया असमस्य अत्यधिकं प्रभावितं शिवसागरमण्डलं प्रति प्रस्थितम् अस्ति। शिवसागरमण्डले जलप्लवेन आपन्नानां जनानां तात्कालिक-साहाय्यं, स्वच्छता-कार्यं तथा च पुनर्वासकार्येभ्यः श्रमदानम् अस्याः यात्रायाः मुख्यमुद्देश्यमस्ति। एषः संघः श्वः प्रातः शिवसागरमण्डलं सम्प्राप्य स्वस्य सेवाकार्यं तीव्रगत्या प्रारप्स्यते।

विश्वविद्यालयस्य कुलपतिवर्याणां प्रो. प्रह्लाद-रा-जोशीमहोदयानां नेतृत्वम्

अस्य श्रमदानाभियानस्य सर्वथा प्रशंसनीयः पक्षः अस्ति । तेषां प्रेरणादायिना नेतृत्वेन विश्वविद्यालयस्य सर्वे अध्यापकाः, शोधच्छात्राः, सामान्यच्छात्राः, कर्मचारिणः च महता उत्साहेन अस्मिन् सेवायज्ञे सहभागिनः अभवन्।

सहैव, संस्कृतभारत्याः उत्तर-असम-प्रान्तस्य अनेके निष्ठावन्तः समर्पणशीलाः च कर्तारः अपि अस्मिन् कार्ये सहभागिनः सन्ति। संस्कृतभारत्याः कार्यकतारः सदैव राष्ट्रिय-आपत्कालेषु सेवाकार्येभ्यः तत्पराः भवन्ति, अत्रापि तेषाम् उपस्थितिः संघस्य उत्साहं वृद्धिं करोति।

 विश्वविद्यालयस्य लोकयानेन अस्याः सेवायात्रायाः शुभारम्भः अभवत्। जलप्लवेन पीडितानां भ्रातॄणां भगिनीनां च दुःखमुन्मूलयितुम् सर्वेषां वदनेषु, मनःसु च दृढसङ्कल्पः स्पष्टं दृश्यते स्म। 

अस्याः श्रमदानयात्रायाः सफलीभावाय तथा च शिवसागरस्य जलप्लवनपीडितानां शीघ्र-सामान्यजीवनाय सर्वे शुभकामनाः प्रकटयन्ति। अद्य श्रमदानकार्यक्रमस्य नेतृत्वं विश्वविद्यालयस्य कुलपतिना आचार्येण प्रह्लाद रा.जोशीमहोदयेन तथा च संस्कृतभारत्याः उत्तरासमप्रान्तस्य प्रान्तमन्त्रिणा श्रीपङ्कजशर्मणा च प्रदीयते। प्रतिभागीरूपेण विश्वविद्यालयपक्षतः प्रो. रणजीततिवारिमहोदयः, डॉ .छविलाल-उपाध्यायः महोदयः, डॉ.मिलनमाझि तथा च संस्कृतभारतीपक्षतः , संघटनमन्त्री श्रीभवेनसैकिया , सहसंघटनमन्त्री श्रीराजेनाचार्यः अनिर्वानादयः सन्ति । सेवाकार्येऽस्मिन् ५० जनाः भागं वहन्ति।

You Might Also Like

इण्डोनेशियादेशस्य आई.ए.एच.एन. जीड़े पुड्जा, मातरम् तथा च केन्द्रीयसंस्कृतविश्वविद्यालयस्य मध्ये सामञ्जस्यपत्रे (MoU) हस्ताक्षरम्

माननीयकुलपतिमहोदयस्य आचार्यप्रह्लादरा.जोशिवर्यस्य सफलचतुर्वर्षसम्पूर्त्याः पञ्चमवर्षारम्भस्य च शुभावसरे सादरमभिनन्दनम्

KKSU – अगस्त-मासस्य २ दिनाङ्के रत्नागिरि-संस्कृत-उपकेन्द्रस्य पञ्चमः स्थापना-दिवस-समारोहः

कविकुलगुरु-कालिदाससंस्कृतविश्वविद्यालये “शास्त्रदीपिका-व्याख्यानमाला” आयोजिता

त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article ‘आवारापन 2’ इत्यस्य विज्ञापन पुटकं प्रसारितं, खलनायिकायाः भूमिकायां शबाना आज़मी दृष्टा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?