‘आवारापन 2’ इत्यस्य विज्ञापन पुटकं प्रसारितं, खलनायिकायाः भूमिकायां शबाना आज़मी दृष्टा
वार्ताहर: – जगदीश डाभी, मुम्बई
(हिमसंस्कृतवार्ता:) ‘आवारापन’ इति चलच्चित्रम् इमरान हाश्मी महोदयस्य जीविकायाः (करियर) उत्तमेषु चित्रेष्वेकम् अस्ति। अस्य बहूनि गीतानि अद्यापि अतीव लोकप्रियाणि सन्ति। अस्य चित्रस्य लोकप्रियतायां संगीतस्य महत् योगदानम् आसीत्। अधुना अस्यैव चित्रस्य उत्तरभागः (सीक्वल) ‘आवारापन २’ आगच्छन् अस्ति, यः आगस्तमासस्य १४-दिनाङ्के चलच्चित्रगृहेषु प्रदर्शितः भविष्यति। अस्मिन् वारे चित्रे इमरान हाश्मी महोदेन सह दिशा पाटनी, शबाना आज़मी च मुख्यभूमिकायां दृश्येते। चित्रस्य प्रदर्शने अधुना अधिकः समयः न अवशिष्टः। अतः निर्मातृभिः अस्य विज्ञापन-पुटकं (ट्रेलर) प्रसारितम्।
‘आवारापन २’ इत्यस्य विज्ञापन पुटकं १-निमेष:, २५ प्रतिलवात्मकं (सेकंड) दीर्घम् अस्ति। अस्य अवधिं दृष्ट्वा प्रतीयते यत् निर्मातारः टीज़र-इत्येव ट्रेलर-नाम्ना प्रसारितवन्तः। प्रचारचित्रस्य प्रारम्भात् अन्तपर्यन्तं तीव्रं गोलिकावर्षणम् (एक्शन) च दृश्यते। अस्यैव मध्ये इमरान हाश्मी महोदयस्य पात्रस्य ‘शिवम पण्डित’ इत्यस्य दुःखमपि उद्भवति। हृदयभङ्गानन्तरं तस्य अन्तः मरणभयमपि समाप्तम् अभवत्। प्रचारचित्रे दिशा पाटनी अपि कतिपयपलार्थं दृश्यते। अपरञ्च, प्रचारचित्रात् सङ्केतः लभ्यते यत् अस्य चलच्चित्रस्य मुख्या खलनायिका शबाना आज़मी अस्ति। अर्थात् अस्मिन् चित्रे इमरान हाश्मी-शबाना आज़मी महोदययोः मध्ये भीषणः सङ्घर्षः द्रष्टुं लप्स्यते।
