इण्डोनेशियादेशस्य आई.ए.एच.एन. जीड़े पुड्जा, मातरम् (इण्डोनेशिया) तथा च केन्द्रीयसंस्कृतविश्वविद्यालयस्य मध्ये सामञ्जस्यपत्रे (MoU) हस्ताक्षरम्
केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली तथा च इण्डोनेशियादेशस्य ‘केमेंतेरियन अगामा आर.आई.’ (Kementerian Agama RI) इत्यस्य अधीनस्य ‘इन्स्टिट्यूट अगामा हिन्दू नेगेरी’ (IAHN) जीड़े पुड्जा, मातरम् इत्यस्य मध्ये शैक्षणिक-सांस्कृतिक-सहयोगं सुदृढं कर्तुं एकस्मिन् सामञ्जस्यपत्रे (MoU) हस्ताक्षरम् अभवत्।
अस्मिन् अवसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रो. श्रीनिवासवरखेड़िमहोदयाः, आई.ए.एच.एन. जीड़े पुड्जा, मातरम् इत्यस्य माननीयाः कुलपतयः तथा च उभयोः संस्थानयोः वरिष्ठाधिकारिणः उपस्थिताः आसन्।

एतत् सामञ्जस्यपत्रं संस्कृत-हिन्दूअध्ययन-भारतीयज्ञानपरम्परा-योग-दर्शन-संस्कृति-अनुसन्धानक्षेत्रेषु सहयोगं प्रोत्साहयिष्यति। अस्य अन्तर्गतम् नवीनाः शैक्षणिकपाठ्यक्रमाः, छात्र-शिक्षक-आदानप्रदानम्, संयुक्त्ताः अनुसन्धानपरियोजनाः, संगोष्ठ्यः, कार्यशालाः तथा च प्रशिक्षणकार्यक्रम्याः आयोजयिष्यन्ते।
अस्मिन् अवसरे प्रो. श्रीनिवासवरखेड़िमहोदयैः उक्तं यत्— “संस्कृतम् भारत-इण्डोनेशियादेशयोः संयुक्त-धार्मिक-सांस्कृतिक-सभ्यतागत-विरासतं योजयितुं सुदृढः सेतुः अस्ति।”
एतत् सामञ्जस्यपत्रं संस्कृतस्य भारतीयज्ञानपरम्परायाश्च वैश्विकसंवर्धनाय तथा च भारत-इण्डोनेशियादेशयोः शैक्षणिक-सांस्कृतिक-सम्बन्धान् अधिकं सुदृढान् कर्तुं महत्त्वपूर्णः प्रयासः अस्ति।
इण्डोनेशियादेशस्य आई.ए.एच.एन. जीड़े पुड्जा, मातरम् तथा च केन्द्रीयसंस्कृतविश्वविद्यालयस्य मध्ये सामञ्जस्यपत्रे (MoU) हस्ताक्षरम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
