By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: २० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > २० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’
हिमाचलवार्ता

२० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’

डॉ मनोज शैल
Last updated: 2026/08/04 at 9:04 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

२० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’

​हिमसंस्कृतवार्ता: — चम्बा।
चम्बा-मण्डलस्य डलहौजी-वनक्षेत्रेषु प्रायः द्वयोः दशकयोः अनन्तरम् दुर्लभस्य अज-मृगस्य (‘हिमालयन-सीरो) उपस्थितिः पञ्जीकृता अस्ति। कालाटोप-खज्जियार-वन्यजीव-अभयारण्यात् सम्बद्धे डलहौजी-जलागम-क्षेत्रे (Catchment Area) एषः दुर्लभः वन्यजीवः प्रथमतया ‘कैमरा’-यन्त्रे अभिलेखित: अस्ति। अतः मन्यते यत् क्षेत्रस्य प्राकृतिक-आवासः अधुना अपि अस्याः दुर्लभ-प्रजात्याः कृते सुरक्षितः अनुकूलश्च अस्ति। यत्किञ्चित् ‘हिमालयी-सीरो’-प्राणी ‘कैमरा’-यन्त्रे आबद्धं जातम्, एतत् वन-विभागः एकां महतीम् उपलब्धिं मन्यते। सूचनानुसारं वन-विभागेन वन्यजीव-निरीक्षणाय ‘कैमरा’-यन्त्राणि स्थापितानि सन्ति। एतेषु यन्त्रेषु ‘हिमालयन-सीरो’-प्राणिनः चित्राणि गतिविधयश्च रिकॉर्ड-जातानि। गतेभ्यः प्रायः २० वर्षेभ्यः अस्मिन् क्षेत्रे अस्य दुर्लभ-जन्तोः कापि प्रामाणिकी उपस्थितिः पञ्जीकृता न अभवत्। तादृशे अस्य पुनः दर्शनं वन्यजीव-संरक्षणस्य दिशि महती सफलता मन्यते।
​’हिमालयन-सीरो’ एकः लज्जाशीलः न्यून-दृश्यमानः च वन्य-खुरयुक्त-स्तनपायी प्राणी अस्ति, यः सामान्यतया घनेषु वनेषु, शैल-प्रवणेषु दुर्गेषु पर्वतीय-क्षेत्रेषु च वसति। अस्य सङ्ख्या परिमिता अस्ति, अतः अस्य गणना दुर्लेभेेषु वन्यजीवेषु भवति। विशेषाणां मन्यते यत् अस्याः प्रजात्याः प्रत्यावर्तनेन क्षेत्रस्य जैव-विविधतायाः वन-पारिस्थितिक-तन्त्रस्य (Eco-system) च श्रेष्ठ-स्थितेः अपि सङ्केतः प्राप्यते। वन-विभागस्य कथनम् अस्ति यत् अस्याः दुर्लभ-प्रजात्याः उपस्थितिं दृष्ट्वा डलहौजी-जलागम-क्षेत्रे तत्समीपस्थेषु वन-क्षेत्रेषु च निरीक्षणं संरक्षण-गतिविधयश्च इतोऽपि सुदृढाः करिष्यन्ते। साकमेव स्थानीय-जनेभ्यः अपि प्रार्थना कृता अस्ति यत् वन्यजीवानां प्राकृतिक-आवासं सुरक्षितं स्थापयितुं सहयोगं कुर्वन्तु, येन तादृशाः दुर्लभाः प्रजातयः भविष्ये अपि सुरक्षिताः तिष्ठेयुः। ‘कैमरा’-यन्त्रे अस्य चित्रं गृहीतं जातम्, अनेन क्षेत्रस्य जैव-विविधतायै संरक्षण-प्रयासेभ्यः च नूतना शक्तिः प्राप्ता। ‘हिमालयन-सीरो’ भारतस्य हिमालयी-राज्येभ्यः अतिरिच्य नेपाल-भूटान-दक्षिण-पूर्व-एशिया-देशानां केषुचित् भागेषु प्राप्यते। कालाटोप-खज्जियार-वन्यजीव-अभयारण्यं पूर्वमेव कृष्ण-भल्लूकः, तरक्षुः (तेंदुआ), घोरलः, कस्तूरी-मृगः इति सहितानां बहुनां महत्त्वात्मकानां वन्यजीवानां निवासस्थानं मन्यते। अतः डलहौजी-जलागम-क्षेत्रे ‘सीरो’-प्राणिनः नवीना रिकॉर्डिंग-प्रक्रिया अस्य पारिस्थिति-महत्त्वम् इतोऽपि वर्धितवती। एष: दुर्लभ: अभिलेख: न केवलं वन्यजीव-प्रेमिभ्यः, अपितु सुरक्षा-संस्थाभ्यः (Agencies) अपि एकः सकारात्मकः सङ्केतः अस्ति।

​ २० वर्षेभ्यः परम् प्रत्यावर्तनम्
​वन-बल-प्रमुखः डॉ. सञ्जयसूदः अवदत् यत् चम्बा-मण्डलस्य डलहौजी-वनक्षेत्रेषु द्वयोः दशकयोः अनन्तरम् अस्य वन्यजीवस्य प्रत्यावर्तनं हिमाचलप्रदेशस्य समृद्ध-जैव-विविधतायाः सफलानां संरक्षण-प्रयासानां च एकः उत्साहवर्धकः परिणामः अस्ति। डी.एफ.ओ. डॉ. कुलदीपसिंहजमवालः ज्ञापितवान् यत् ‘हिमालयन-सेरो’-प्राणिनः प्रथमम् दृश्य-माध्यमम् (Video Record) उपलब्धम् अभवत्।

You Might Also Like

शिमलायाः विश्वेशनेगी ईरान-देशे भारतस्य राजदूतः संजातः, बी.सी.एस.-क्षेत्रे हर्षातिरेकस्य वातावरणम्

MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्

हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता

राजमार्ग-पार्श्वे निर्माणे कठोरतायाः सज्जीकरणम्, संवेदनशील-क्षेत्रेषु न निर्मास्यन्ते गृहाणि

मेधाविभ्यः प्रदास्यन्ते १६-१६ सहस्र-रूप्यकाणि, शिक्षकाणां रिक्तानि पदानि पूरयिष्यन्ते, युक्तीकरणम् अपि भविष्यति – शिक्षामंत्री

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता
Next Article MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?