By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता
हिमाचलवार्ता

हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता

डॉ मनोज शैल
Last updated: 2026/08/04 at 7:57 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता

शिक्षा-मन्त्रिणः अध्यक्षतायाम् आयोजितायां विभागीय-समीक्षा-गोष्ठ्यां निर्णयः, सम्पूर्ण-हिमाचले ‘विद्या-समीक्षा-केन्द्र’-माध्यमेन पञ्जीकृता भविष्यति उपस्थितिः निरीक्षणञ्च

हिमसंस्कृतवार्ता: — शिमला।

हिमाचलप्रदेशस्य सर्वकारीय-विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् (१ सितम्बर २०२६) पूर्णतः अङ्कीया (Digital) उपस्थिति-व्यवस्था प्रवर्तिता भविष्यति। अस्य परं शिक्षकाणां छात्राणां च उपस्थितिः ‘पञ्जिकायां न, अपितु ‘विद्या-समीक्षा-केन्द्रस्य’ माध्यमेन ‘ऑनलाइन’-रूपेण पञ्जीकृता भविष्यति। न केवलमेतत्, विद्यालयानां निरीक्षणस्य प्रक्रिया अपि अधुना अङ्कीय-मञ्चात (Digital Platform) सञ्चालिता भविष्यति। एषः महत्त्वपूर्णः निर्णयः सोमवासरे शिक्षा-मन्त्रिणः रोहितठाकुरस्य अध्यक्षतायां शिक्षा-निदेशालये आयोजितायां विभागीय-समीक्षा-गोष्ठ्यां गृहीत:। शिक्षा-मन्त्रिणा अधिकारिणः निर्दिष्टाः यत् एकस्य सप्ताहस्य अभ्यन्तरे ‘विद्या-समीक्षा-केन्द्र’-दलम् ‘ऑनलाइन’-उपस्थिति-प्रणाल्याः पूर्णं प्रारूपं रचयतु अस्य च परं सर्वेभ्यः मण्डल-उपनिदेशकेभ्यः प्रशिक्षणं दीयेत, येन सितम्बर-मासस्य प्रथम-दिनाङ्कात् व्यवस्था सम्पूर्ण-प्रदेशे प्रभावकारि-रूपेण प्रवर्तिता भवितुं शक्येत्। तेन उक्तं यत् अङ्कीय-निरीक्षणेन (Digital Monitoring) विद्यालयेषु पारदर्शिता वर्धिष्यते शिक्षा-व्यवस्था च अधिका उत्तरदायित्व-युक्ता भविष्यति।
शिक्षा-मन्त्रिणा एतदपि घोषितं यत् सर्वकारीय-विद्यालयेभ्यः नीट् (NEET), जे.ई.ई.-मेन्स (JEE Mains) तथा च जे.ई.ई.-एडवांस (JEE Advanced) इति सदृशीषु राष्ट्रिय-प्रतिस्पर्धा-परीक्षासु सफलान् छात्रान् प्रदेशसर्वकारः सम्मानितं करिष्यति। गोष्ठ्यां ज्ञापितं यत् राष्ट्रिय-स्तरे आयोजिते ‘स्वच्छ एवं हरित विद्यालय’-अभियाने हिमाचलस्य ११ विद्यालयानां चयनं जातम्। चयनित-प्रत्येक-विद्यालयाय एक-लक्ष-रूप्यकाणाम् प्रोत्साहन-राशिः लप्स्यते सम्बद्धः प्रधानाचार्यश्च ‘एक्सपोजर-विजिट’-प्रवासे प्रेषयिष्यते। शिक्षा-मन्त्रिणा एतत् प्रदेशस्य शिक्षा-व्यवस्थायाः कृते राष्ट्रिय-स्तरे महती उपलब्धिः प्रोक्ता। शिक्षा-विभागेन ‘शिव-नाडर-फाउंडेशन’-संस्थया सह ‘एम.ओ.यू.’ (MoU) हस्ताक्षरेण आर्थिक-रूपेण दुर्बल-परिवाराणां प्रतिभाशालीभ्यः छात्रेभ्यः आवासीय-शिक्षायाः मार्गः उद्घाटितः। पञ्चम-कक्षायाः छात्राणां परीक्षायाः आधारेण चयनं भविष्यति षष्ठ्याः द्वादशी-कक्षां यावत् सम्पूर्ण-शिक्षणस्य व्ययं ‘फाउंडेशन’-संस्था वहिष्यति। आवेदनस्य अन्तिमा तिथिः ३१ अगस्त-दिनाङ्कः परीक्षा च २० सितम्बर-दिनाङ्के भविष्यति। विभागेन प्रत्येक-मण्डले संयुक्त-निदेशकस्य एकस्य नूतन-पदस्य सृजनस्य प्रस्तावः अपि रचितः अस्ति। अनेन उपनिदेशकेभ्यः पदोन्नतेः अवसराः लप्स्यन्ते मण्डल-स्तरे शिक्षा-प्रशासनं च इतोऽपि सुदृढं करिष्यते।

शिक्षक-पुरस्काराणां चयने परिवर्तनम्

राज्य-शिक्षक-पुरस्काराय अस्मिन् क्रमे चयन-प्रक्रियायां बहूनि परिवर्तनानि कृतानि सन्ति। अधुना विद्यालयः अपि स्वयं आवेदनं कर्तुं शक्ष्यति, यदा च डी.सी., एस्.डी.एम्., उपनिदेशकः विद्यालय-प्रबन्धन-समितयश्च नामाङ्कनं प्रेषयितुं शक्ष्यन्ति। अस्मिन् वारे जनजातीय-क्षेत्रेषु सेवायाः अतिरिक्ताः अङ्काः समापिताः सन्ति तथा च नवाचाराय, शिक्षण-परिणामेभ्यः छात्राणां जीवने च वास्तविक-परिवर्तनाय प्राथमिकता दास्यते। आवेदनं कुर्वतां शिक्षकाणां निरीक्षणं अधुना मण्डल-स्तरे न, अपितु शिक्षा-निदेशालय-स्तरस्य समितिः करिष्यति। छात्रेभ्यः शिक्षकाणां विषये ‘ऑनलाइन’-प्रतिक्रिया (Feedback) अपि गृहीष्यते।

अस्थायी-शिक्षकाणां नियुक्तये नीतिः

शिक्षा-विभागस्य समीक्षा-गोष्ठ्याम् जम्मू-कश्मीर-प्रारूपस्य (Model) आधारेण हिमाचलस्य दुर्घट-क्षेत्रेषु अस्थायी-शिक्षकाणां नियुक्तेः प्रस्तावस्य रचनस्य अपि निर्णयः गृहीत:। ‘समग्र-शिक्षा-अभियान’-इत्यस्य अन्तर्गतं एकस्य वर्षस्य कृते नियुक्तयः करिष्यन्ते प्रतिवर्षं च नूतन-योग्यता-सूच्याः (Merit List) आधारेण चयनं भविष्यति। चयन-प्रक्रियायां शैक्षणिक-योग्यतायै, अनुभवाय उच्च-शिक्षायै च भारः (Weightage) दास्यते। चयनित-शिक्षकैः २५ सहस्र-रूप्यकाणि प्रतिमासं मानदेयं दातुं प्रस्तावं रचयित्वा मन्त्रिमण्डलस्य (Cabinet) सम्मुखं स्थापयिष्यते। एतदपि सम्मुखम् आगतं यत् प्रदेशस्य १२४ ‘पीएमश्री’-विद्यालयेषु अङ्कीय-ग्रन्थागारस्य (Digital Library) उपयोगः निरन्तरं वर्धमानः अस्ति।

You Might Also Like

शिमलायाः विश्वेशनेगी ईरान-देशे भारतस्य राजदूतः संजातः, बी.सी.एस.-क्षेत्रे हर्षातिरेकस्य वातावरणम्

MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्

२० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’

राजमार्ग-पार्श्वे निर्माणे कठोरतायाः सज्जीकरणम्, संवेदनशील-क्षेत्रेषु न निर्मास्यन्ते गृहाणि

मेधाविभ्यः प्रदास्यन्ते १६-१६ सहस्र-रूप्यकाणि, शिक्षकाणां रिक्तानि पदानि पूरयिष्यन्ते, युक्तीकरणम् अपि भविष्यति – शिक्षामंत्री

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article अजयदेवगणस्य दूरदर्शने पुनः भविष्यति प्रवेशः, प्रथमवारं करिष्यति अपराधप्रदर्शिन्याः (क्राइम-शो इत्याख्यस्य) सञ्चालनम्
Next Article २० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?