प्रदेशे भृशवृष्ट्या १०८ मार्गाः अवरुद्धाः, नदी-उपनद्य: उद्वेलिताः, एतावन्ति दिनानि वर्षिष्यन्ति मेघाः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे विगतेषु दिनेषु जातायाः भृशवृष्टेः प्रभावः यथावतः तिष्ठति। सम्पूर्णप्रदेशे १०८ मार्गाः अवरुद्धाः सन्ति, यदा तु नव विद्युत्-परिवर्तकाः (ट्रांसफार्मर) ३८ पेयजल-योजनाः च प्रभाविताः सन्ति। सोमवासरे अधिकांशजनपदेषु आदिनम् आतपः (धूप) प्रखरः आसीत्, किन्तु सायङ्काले धर्मशालायाम् झमाझम-वृष्टिः अभवत्। राजधान्यां शिमलायां रविवासररात्रौ जातायाः भृशवृष्टेः कारणात् पञ्च वृक्षाः अपतन्। कनलोग-क्षेत्रे एकः वृक्षः कार-वाहने पतनेन वाहनं क्षतिग्रस्तं जातम्, यदा तु मजयाठ-क्षेत्रे भूस्खलनस्य घटना सम्मुखीभूता। प्रदेशे नदी-उपनद्य: उद्वेलिताः (उफान पर) सन्ति। जलस्तरस्य वृद्ध्या जटौन-वैराज-सेतोः द्वारिकाः (गेट्स) अपि उद्धाटनीयाः अभवन्।
ऋतुविज्ञानविभागेन मङ्गलवासरे शिमला-सोलन-सिरमौर-जनपदानां कतिपयेषु क्षेत्रेषु अकस्मात् प्लावनस्य (अचानक बाढ़) आशङ्कां ज्ञापयित्वा जनाः नदी-उपनदीभ्यः दूरे स्थातुम् उपदिष्टाः। सोमवासरस्य सायङ्काले जातायाः तीव्रवृष्टेः मध्ये शाहपुरस्य बोह-क्षेत्रस्य गढ़गूंन-ग्रामे सेनायाः सहायेन मलिनावशेष-अपसारणस्य (मलबा हटाने का) कार्यं निरन्तरं प्रचलति। आश्रयकार्याणां वेलायां प्रभावितपरिवारेभ्यः गृहोपकरणानि अन्यवस्तूनि च अवकरात् निष्कास्यन्ते। अपरतः, सिरमौर-जनपदस्य हरिपुरधार-उपतहसीलस्य टिकरी-दशाकना-ग्रामे पर्वतात् पतनेन एका धेनुः (गाय) मृता।
कति दिनानि वर्षिष्यन्ति मेघाः
ऋतुविज्ञानविभागेन मङ्गलवासरे बिलासपुर-सिरमौर-जनपदयोः भृशवृष्टेः नारङ्गसतर्कता तथा च मण्डी-शिमला-सोलन-जनपदेषु ‘पीतसचेतशा’ प्रसारिता। अपरतः ३०, ३१ जुलाई-दिनाङ्कयोः बहुषु जनपदेषु अतिभृशवृष्टेः सचेतना दत्ता। कंडाघाट-क्षेत्रे १०६.४, काहू-क्षेत्रे ४०.२, कोठी-क्षेत्रे ३९.२, सराहन-क्षेत्रे ३४.५, जोगिन्द्रनगरे ३१.०, जटौन-वैराजे २४.४, शिमलायां १६.८ तथा च कुफ्री-क्षेत्रे ५.० मिलीमीटर परिमिता वृष्टिः अङ्किता। सिरमौर-जनपदे २८ दिनाङ्कतः ३० जुलाई-दिनाङ्कं यावत् अति-वृष्टेः ‘नारङ्गसचेतना’ घोषिता अस्ति।
