ई-टैक्सी-सेवा हेतु आयुसीमा संवर्ध्य ५० वर्षाणि कृता, आवेदनस्य अन्तिमतिथिः अपि १ मासम् यावत् वर्धिता
हिमसंस्कृतवार्ता: – शिमला।
राज्यसर्वकारेण ‘राजीव गांधी स्वरोजगार स्टार्टअप योजना-२०२३’ इत्यस्याः अन्तर्गतं ई-वाहन/ई-टैक्सी योजनायाः लाभं प्राप्तुम् इच्छद्भ्यः अभ्यर्थिभ्यः (आवेदकेभ्यः) महदाश्रय: प्रदत्त:। सर्वकारेण योजनायाः अन्तर्गतं आयुसीमायाः पात्रतायां शिथिलतां प्रदाय इयं २३ तः ४५ वर्षेभ्यः संवर्ध्य २३ तः ५० वर्षाणि कृता। एतेन सहैव योजनायाः अन्तर्गतं आवेदनपत्रस्वीकरणस्य अन्तिमतिथिः अपि एकमासं यावत् वर्धिता। श्रम-रोजगार-विदेशनियोजन-विभागस्य (ओवरसीज प्लेसमेंट) सचिवया प्रियंका-बासु-इंग्ती-वर्यायाः पक्षतः अस्मिन् विषये अधिसूचना प्रसारिता अस्ति।
जनहिताय कृतानि एतानि संशोधनानि सद्यः (तत्काल) प्रभावेन प्रवर्तिता: मंस्यन्ते। ई-टैक्सी-दिशा-निर्देशानाम् धारा ५(बी) मध्ये संशोधनं कृत्वा अधुना २३ तः ५० वर्षाणां जनाः अस्य पात्राः भविष्यन्ति। विज्ञापनस्य माध्यमेन आवेदनपत्रसमर्पणस्य अन्तिमतिथिः एकमासं यावत् पुनः वर्धिता। सर्वकारस्य अस्य निर्णयेन प्रदेशस्य तादृशानां बहूनां जनानां स्वरोजगारेण सह सम्बद्धतायाः अवसरः प्राप्स्यते, ये पूर्वम् आयुसीमायाः कारणेन आवेदनं कर्तुं न शक्नुवन्ति स्म।
