एच.आर.टी.सी.मध्ये शीघ्रमेव आरप्स्यते ‘हिम-बस-प्लस्-कार्ड’, इति अधुना यावत् निर्मिताणि सर्वाणि अपकर्षपत्राणि अस्मिन् भविष्यन्ति विलीनानि
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलप्रदेशे ‘हिम-बस-कार्ड’ इत्यस्य सफलतायाः परं अधुना सर्वेभ्यः यात्रिभ्यः एकः समानः सामान्यपरिपत्रं’ (Common Card) निर्मास्यते। एतं ‘परिपत्रम्’ आनेतुं सज्जीकरणानि अन्तिम-चरणे सन्ति। यात्रिणां सौविध्याय अङ्कीय-व्यवस्थां (Digital System) इतोऽपि सुदृढां विधातुं परिवहन-निगमः ‘हिम-बस-प्लस्-कार्ड’ (Him Bus Plus Card) इति प्रसारयितुं गच्छति। एषः नूतनः ‘उन्नतं पत्रं’ भविष्यति यस्मिन् अधुना यावत् निर्मिताणि सर्वाणि अपकर्षपत्राणि विलीनानि (Merge) करिष्यन्ते एतद् ‘परिपत्रं’ पूर्णतया अङ्कीयः (Digital) भविष्यति यस्मात् सुदीर्घ-दूरतायाः यात्रां कुर्वन्तः यात्रिणः अपि लाभान्विताः भविष्यन्ति। तत्रैव अनेन ‘कार्ड’ इति माध्यमेन यात्रिणः पृथक्-पृथक् ‘कार्ड’ स्थापनस्य समस्यात: पूर्णतया मुक्तिं प्राप्स्यन्ति। अस्य नूतनस्य प्रयासस्य न केवलं ‘यात्रापत्रं’-प्रणाली सरला भविष्यति, अपितु यात्रिभ्यः सुलभा, तीव्रा, पारदर्शिका च यात्रा-सुविधा अपि लप्स्यते।
नूतनस्य ‘हिम-बस-प्लस्-कार्ड’ इत्यस्य सर्वाधिका विशिष्टता एषा अस्ति यत् अस्य मूल्यं (शुल्कम्) केवलम् १ रूप्यकं प्रति-दिनं निर्धारितम् अस्ति। अर्थात् अतीव न्यून-व्यये यात्रिणः अस्य ‘स्मार्ट-कार्ड’ इत्यस्य सर्वासां सुविधानां लाभं ग्रहीतुं शक्ष्यन्ति। ‘कार्ड’-मध्ये सर्वासां श्रेणीनां यात्रिभ्यः ५ प्रतिशतं यावत् प्रत्यक्षापकर्ष: (Discount) लप्स्यते, यदा च वरिष्ठ-नागरिकेभ्यः (Senior Citizens) अस्मिन् १५ प्रतिशतं यावत् विशेषापकर्ष: दीयते। एषः निर्णयः विशेषरूपेण नियत-यात्रिभ्यः, कर्मचारिभ्यः, छात्रेभ्यः, वृद्धेभ्यश्च महतीं साहाय्यतां (राहत) आनेष्यति। एच.आर.टी.सी. इत्यस्य एतद् नूतनं ‘परिपत्रं’ पूर्णतया अङ्कीय-स्मार्ट-प्रविधौ आधारितः भविष्यति। अस्मिन् ‘कार्ड’-धारकस्य सम्पूर्णं प्रलेखं (Data) अन्तर्निहितं स्थास्यति, येन परिचय:, ‘टिकट’-आरक्षणं, यात्रा-विवरणं, भुक्ति-सम्बद्धाः च सर्वाः सूचनाः सुरक्षिताः व्यवस्थिताश्च अङ्किताः भविष्यन्ति। अनेन ‘टिकट’-परीक्षण-काले पारदर्शिता वर्धिष्यते छद्मव्यवहारस्य सम्भावनाः च प्रायः समाप्ताः भविष्यन्ति।
नूतन-व्यवस्थायाः प्रवर्त्तनेन ‘परिचालक’-कर्मचारिणां कार्येषु अपि सुगमता आगमिष्यति। अङ्कीय-यन्त्रस्य (Digital Machine) माध्यमेन ‘टिकट’ कर्तिष्यते, येन समयस्य रक्षणं भविष्यति यात्रिणः च दीर्घाभ्यः पङ्क्तिभ्यः मुक्तिं प्राप्स्यन्ति। साकमेव निगमस्य राजस्व-वर्धने हान्याः न्यूनीकरणे च साहाय्यं लप्स्यते। एच.आर.टी.सी. अधिकारिणाम् अनुसारं ‘हिम-बस-प्लस्-कार्ड’ शीघ्रमेव सम्पूर्णे प्रदेशे चरणबद्ध-रूपेण प्रवर्तिष्यते। अस्य कृते तान्त्रिक-सज्जीकरणानि अन्तिम-चरणे सन्ति शीघ्रमेव अस्य ‘पायलट-प्रोजेक्ट’ आरब्धुं शक्यते। ‘हिम-बस-प्लस्-कार्ड’ हिमाचले सार्वजनिक-परिवहन-व्यवस्थां आधुनिकीं, सुलभां, यात्र्यनुकूलां च विधातुं दिशि एकं क्रान्तिकारि-पदं सिद्धं भविष्यति। अनेन यत्र यात्रिभ्यः श्रेष्ठतराः सुविधाः प्रत्यक्षं रक्षणं (सञ्चयः) च लप्स्यते, तत्रैव एच.आर.टी.सी. संस्थायै अपि अङ्कीय-युगस्य अनुरूपं नूतनं परिचयं प्राप्स्यति।
यावती यात्रा, तावती रक्षिष्यते राशि:
‘हिम-बस-प्लस्-कार्ड’ इत्यस्य एका परा मुख्या विशिष्टता एषा अस्ति यत् अस्मिन् यात्रिण: यात्रा-अनुसारं ‘अपकर्ष:’ (छूटः) निर्धारित: भविष्यति। अर्थात् यावती अधिका यात्रा, तावती अधिका राशि: रक्षिष्यते। नियमित-रूपेण बस-यानेषु यात्रां कुर्वद्भ्यः अस्य प्रत्यक्षः लाभः लप्स्यते तेभ्यश्च समयेन सह अधिकापकर्ष: प्राप्स्यते। अनेन जनाः निजी-वाहनानां (Private Vehicles) स्थाने सार्वजनिक-परिवहनं प्राथमिकतां प्रदास्यन्ति, येन पर्यावरण-संरक्षणं ‘ट्रैफिक’-नियन्त्रणं च अपि प्रोत्साहनं लप्स्यते।
एकेनैव ‘कार्ड’-माध्यमेन लप्स्यन्ते यात्रा-सुविधाः
एच.आर.टी.सी. पक्षतः पूर्वं प्रसारिताणि विविधानि ‘यात्रापत्राणि’, ‘पास’ तथा च अपकर्ष-पत्राणि अधुना अस्मिन् एकेनैव ‘कार्ड’-मध्ये समाविष्टानि करिष्यन्ते। अनेन यात्रिभ्यः पृथक्-पृथक् ‘कार्ड’ निर्माणस्य संरक्षणस्य च आवश्यकता न भविष्यति। एकेनैव ‘कार्ड’-माध्यमेन सामान्या यात्रा, मासिक-पास, छात्र-पास, कर्मचारी-पास अन्याः च सर्वाः सुविधाः प्राप्तुं शक्ष्यन्ते।
