लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्
हिमसंस्कृतवार्ता — आचार्य: मनोजशैल:।
१९८४ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्कस्य प्रभाते यदा समग्रं जगत् इन्दिरागान्धिनः हत्यायाः वार्तया प्रकम्पितम् अभवत्, तदा विपक्षस्य शीर्षनेता अटलबिहारीवाजपेयी मास्को-नगरे आसीत्। वार्तां प्राप्यैव सः एकमपि क्षणं व्यर्थं न नीत्वा देहलीं प्रति प्रस्थितवान्।
१ नवम्बर् १९८४ दिनाङ्के यदा अटलमहोदयः सफ़दरजङ्ग-मार्गं प्राप्य इन्दिरायाः पार्थिवशरीरमपश्यत्, तदा तस्य नेत्राभ्याम् अश्रूणि प्रस्रुतानि। इदं कस्यचित् राजनैतिक-प्रतिद्वन्द्विनः रोदनं नासीत्, अपि तु भारतीयलोकतन्त्रस्य तस्याः मर्यादायाः विलापः आसीत्, यया कदापि सत्तापक्षं प्रतिपक्षं च शत्रुतां गन्तुं न प्रदत्तम्।
१९५७ तमे वर्षे यदा त्रयस्त्रिंशद्वर्षीयः (३३) युवा अटलमहोदयः बलरामपुरतः प्रथमवारं लोकसभां प्रविष्टवान्, तदारभ्य १९८४ तमवर्षपर्यन्तं २७ वर्षाणाम् इतिहासः अस्य साक्षी वर्तते यत् वैचारिकमतभेदानां पर्वतेषु सत्स्वपि उभौ नेतारावेकः अपरं प्रति यं सम्मानं प्रादर्शयताम्, तस्य अद्यतने युगे कल्पनापि कर्तुं न शक्यते।
१९७१ तमस्य वर्षस्य भारत-पाकिस्तान-युद्धे यदा १६ डिसेम्बर् १९७१ दिनाङ्के ९३,००० पाकिस्तानी-सैनिकाः आत्मसमर्पणमकुर्वन्, तदा १७ डिसेम्बर् १९७१ दिनाङ्के संसदः फलके स्थित्वा अटलबिहारीवाजपेयी इन्दिरागान्धीम् ‘अभिनवदुर्गा’ इति सम्बोध्य देशस्य विजयमहोत्सवम् आचरितवान्।
परन्तु तस्यैव कालस्य एकातीव-रोचका स्वल्पावगता वार्तेयमपि अस्ति यत् इन्दिरागान्धी संसदि प्रायशः अटलमहोदयस्य भाषणशैल्याः परिहासं कुर्वती वदति स्म यत्— “अटलमहोदयः हस्तौ बहु चालयन् वदति।”
अत्र अटलमहोदयः सद्यः प्रत्युवाच— “श्रीमति गान्धि, तत्तु सम्यक्, किन्तु भवत्या किं कदापि कश्चित् पादौ चालयित्वा सम्भाषणं कुर्वन् दृष्टः?” अस्मिन् तीक्ष्णे व्यङ्ग्ये इन्दिरागान्धी स्वयम् अपि हासं रोद्धुं न शशाक।
यदा मार्च १९७७ तमे जनता-पार्टी-पक्षस्य सर्वकारः निर्मितः, अटलबिहारीवाजपेयी च देशस्य विदेशमन्त्री भूत्वा साउथ-ब्लॉक-कार्यालयं प्राप्तवान्, तदा तेन दृष्टं यत् भित्तिभ्यः पण्डित-जवाहिरलाल-नेहरू-महोदयस्य चित्रम् अपनीतम् अस्ति।
अटलमहोदयः सद्यः अधिकारिणः आहूय अवदत्— “एते देशस्य पूर्वप्रधानमन्त्रिणः सन्ति, एतेषां सम्मानं राजनीतेः उपरि वर्तते। एतत् चित्रं सद्यः तत्रैव स्थाने पुनर्स्थापयन्तु।”
१९८८ तमस्य वर्षस्य सः ऐतिहासिकः क्षणस्तु लोकतान्त्रिकौदार्यस्य शिखरम् आसीत्, यदा १९८५ तमे वर्षे एकं वृक्कं (Kidney) विहाय १९८८ तमे अटलमहोदयस्य स्वास्थ्यं पुनर्विपरीतम् अभवत्। तदा प्रधानमन्त्री राजीवगान्धी अटलमहोदयं स्वकार्यालयम् आहूय १९८८ तमस्य संयुक्तराष्ट्रसङ्घस्य (UN) अधिवेशनार्थं प्रतिनिधिमण्डलस्य नेतारं विधाय न्यूयार्कं प्रेषितवान्, येन सर्वकारस्य व्ययेन तस्य विश्वस्तरीयश्चिकित्सा भवेत्।
२१ मे १९९१ दिनाङ्के राजीवगान्धिनः बलिदानस्य अनन्तरम् अटलमहोदयः भारेण मनसा स्वीकृतवान् यत्— “अद्य यदि अहम् अस्मि, तर्हि राजीवगान्धिनः एव कारणात् अस्मि।”
१९९४ तमे वर्षे यदा स्विट्ज़र्लैण्ड-देशस्य जिनेवा-नगरे संयुक्तराष्ट्र-मानवाधिकार-आयोगे (UNCHR) पाकिस्तानेन भारतस्य निरोधनार्थं प्रस्तावः उपस्थापितः, तदा १९९१ तः १९९६ पर्यन्तं प्रधानमन्त्री पी. वी. नरसिंहरावः तत्कालीनश्च वित्तमन्त्री डॉ. मनमोहनसिंहः कमपि काङ्ग्रेस-नेतारं न, अपि तु विपक्षस्य नेतारम् अटलबिहारीवाजपेयिनं भारतीयप्रतिनिधिमण्डलस्य प्रमुखं विधाय जिनेवा-नगरं प्रेषितवन्तौ। अटलमहोदयः तत्र तादृशं भाषणम् अददात् येन पाकिस्तानेन स्वकीयः प्रस्तावः प्रतिनिवर्तयितव्यः अभवत्।
वर्तामान-राजनीते: पतनम्
अस्य विपरीते, २०१४ तमस्य वर्षस्य अनन्तरं राजनीतौ यः भाषायी पतनं सञ्जातं, तेन लोकतन्त्रस्य मर्यादा छिन्नभिन्ना कृता।
२०१२ तमस्य गुजरात-निर्वाचनस्य समये सोनियागान्धिनः राहुलगान्धिनश्च विरुद्धं “जर्सी-धेनुः” तथा “सङ्कर-वत्सः” (हाइब्रिड-बछड़ा) इत्येतादृशानां शब्दानां प्रयोगः, २०१८ तमे राजस्थानस्य नोहर (हनुमानगढ़)-क्षेत्रस्य निर्वाचनसभायां प्रधानमन्त्रिणा “काङ्ग्रेस-पक्षस्य विधवा” सदृशं कठोरं कटाक्षम्, २०२१ तमस्य च बङ्गाल-निर्वाचने मुख्यमन्त्रिण्याः ममता-बैनर्जी-महोदयायाः कृते “दीदी ओ दीदी” इति कथनस्य रीतिः अस्य प्रमाणम् अस्ति यत् सत्तायाः अहङ्कारः कीदृक् प्रवृद्धः अस्ति।
जून २०२२ तमे यदा ‘नेशनल हेराल्ड’-प्रकरणस्य विरोधप्रदर्शनकाले राहुलगान्धी इतरे च विपक्षनेतारः देहल्याः मार्गेषु आरक्षिभिः बलेन निरुध्य प्रकर्षिताः निगृहीताश्च, तदा एतेन स्पष्टीकृतं यत् अद्य विपक्षः वैचारिकप्रतिद्वन्द्वी न, अपि तु शत्रुः मन्यते। अस्य विपरीते यदा आपत्कालस्य (इमर्जेन्सी) समये अटलमहोदयः कारागारे निक्षिप्तः, तदा प्रधानमन्त्री इन्दिरागान्धी तस्य कुशलवार्तां ज्ञातुं चतुर्वारं गता आसीत्।
२०१४ तः २०२६ वर्षयोर्मध्ये प्रचारस्य व्यक्तित्वनिर्माणस्य च नाम्नि सर्वकारीयकोषात् प्रायः ६,५०० कोटिरूप्यकेभ्यः अधिका धनराशिः व्ययीकृता, किन्तु यदा संसदि विपक्षः कञ्चित् प्रश्नं पृच्छति, तदा ध्वनिवर्धकस्य (माइक-यन्त्रस्य) पिधानस्य गम्भीराः आरोपाः भवन्ति, प्रधानमन्त्रिणः आवासस्य बहिः प्रदर्शनं कुर्वन्तः जनप्रतिनिधयश्च मार्गेषु प्रकृष्य कारागारेषु निक्षिप्यन्ते।
सत्तायाम् उपविष्टाः प्रधानमन्त्री, गृहमन्त्री, तेषां च सहयोगिनः यादृशीम् असंसदीयाममर्यादितां च भाषां प्रयुञ्जते, सा अस्य देशस्य महत्याः लोकतान्त्रिकसंस्कृतेः उपरि एकः कलङ्कः वर्तते। इतिहासः साक्षी अस्ति यत् नेहरू, इन्दिरा, राजीवः, अटलः, मनमोहनसिंहश्च कदापि विपक्षस्य अस्तित्वम् उन्मूलयितुं प्रयासं नाकुर्वन्।
यदि अद्यतनः सर्वकारः स्वयम् आत्मानं सर्वोपरि मत्वा विपक्षस्य दमनं करोति एव, तर्हि देशस्य जनानां कृते एतत् स्मारणीयं भविष्यति यत् लोकतन्त्रं प्रतिपक्षाणां सम्मानेन चलति, सत्तायाः अहङ्कारेण अपशब्दैश्च न।
