By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: MONSOON UPDATE – हिमाचले २८ तः ३१ जुलाई यावत् अति-अतिवृष्टेः सतर्कता, ‘जलोप्लवस्य’ भूस्खलनस्य च सचेतना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > MONSOON UPDATE – हिमाचले २८ तः ३१ जुलाई यावत् अति-अतिवृष्टेः सतर्कता, ‘जलोप्लवस्य’ भूस्खलनस्य च सचेतना
हिमाचलवार्ता

MONSOON UPDATE – हिमाचले २८ तः ३१ जुलाई यावत् अति-अतिवृष्टेः सतर्कता, ‘जलोप्लवस्य’ भूस्खलनस्य च सचेतना

डॉ मनोज शैल
Last updated: 2026/07/27 at 4:12 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

MONSOON UPDATE – हिमाचले २८ तः ३१ जुलाई यावत् अति-अतिवृष्टेः सतर्कता, ‘जलोप्लवस्य’ भूस्खलनस्य च सचेतना

हिमसंस्कृतवार्ता: — शिमला।

हिमाचलप्रदेशे मानसून-ऋतुः पुनः एकवारं सक्रियः भवितुं गच्छति, येन प्रदेशस्य अधिकांशेषु भागेषु आगामि-कतिपय-दिनेषु लघ्वी मध्यम-वृष्टिः वा भवितुं सम्भावना अस्ति। भारत-्तु-विज्ञान-केन्द्र-शिमलायाः (IMD) पक्षतः प्रसारितेन नूतनेन प्रसारणेन २७ जुलाई तः १ अगस्त दिनाङ्कं यावत् प्रदेशे वर्षा निरन्तरं स्थास्यति। यद्यपि २८ तः ३१ जुलाई-मध्ये बहुषु स्थानेषु अतिवृष्टेः अति-अतिवृष्टेः वा आशङ्का प्रकटीकृता। ऋतुविज्ञानविभागेन नागरिकेभ्यः भूस्खलन-अकस्मात्-आप्लवन (फ्लैश फ्लड) जलपूरण-सदृशीभ्यः सम्भाव्याभ्यः घटनाभ्यः प्रति सतर्कता ग्रहीतुं परामर्शः दत्तः।

 

रविवासरस्य वर्षा महत्त्वपूर्णानि विवरणानि च

रविवासरे अपि प्रदेशस्य बहुषु भागेषु लघ्वी मध्यम-वर्षा वा अभिलिखिता, यदा च केषुचित् स्थानेषु अतिवृष्टिः अभवत्। सुन्दरनगर-क्षेत्रे सर्वाधिक-७० मिलीमीटरमिता वर्षा अभिलिखिता। एतदतिरिच्य, मालरांव-होमो-कसोल-क्षेत्रयोः ५०-५० मिलीमीटर तथा च शिमला-एयरपोर्ट-स्थाने अपि ५० मिलीमीटर वर्षा अभिलिखिता।

 

केषु मण्डलेषु वर्धिष्यते वर्षायाः सङ्कटः?

ऋतुविज्ञानविभागस्य भविष्यवाणी-अनुसारं २८ तः ३१ जुलाई-मध्ये शिमला, मण्डी, काङ्गड़ा, सिरमौर:, सोलनम्, ऊना, बिलासपुरम्, हमीरपुरम्, चम्बा मण्डलानां बहुषु क्षेत्रेषु अतिवृष्टेः अति-अतिवृष्टेः वा प्रबला सम्भावना अस्ति। कुल्लू-मण्डी मण्डलयोः अपि पृथक्-पृथक् स्थानेषु अतिवृष्टेः पूर्वानुमानम् अस्ति।

जलोप्लवस्य भूस्खलनस्य च चिन्ता

ऋतुविज्ञानविभागेन विशेष रूपेण सचेतना प्रसारिता यत् अतिवृष्टेः कारणेन प्रदेशस्य संवेदनशील-क्षेत्रेषु भूस्खलनस्य, पङ्क-स्खलनस्य (कीचड़ खिसकने), अकस्मात् आप्लवनस्य, नदी-उपनदीनां जलस्तरे वृद्धेः तथा च निम्न-क्षेत्रेषु जलपूरण-सदृशीनां गम्भीराणां स्थितिनाम् उत्पत्तिः भवितुं शक्नोति। एतदतिरिच्य, स्खलनयुक्त-मार्गेभ्यः न्यून-दृश्यतायाश्च (Visibility) कारणेन यातायात-व्यवस्था अपि प्रभाविता भवितुं शक्नोति।

 

सर्वसाधारणाय महत्त्वपूर्णा निर्देशाः

ऋतुविज्ञानविभागेन प्रदेशवासिभ्यः प्रार्थना कृता यत् ते वर्षाकाले नदी-उपनदीनां तटेभ्यः भूस्खलन-सम्भाव्य-क्षेत्रेभ्यश्च दूरीं रचयन्तु। निष्प्रयोजन-यात्राभ्यः रक्षितुं ऋतुविज्ञाशविभागेन प्रसार्यमाणानां नूतन-सूचनानां उपरि निरन्तरं दृष्टिं रचयितुं परामर्शः दत्तः। साकमेव प्रशासनेन प्रसारितानां दिशानिर्देशानां कठोरतया पालनं कर्तुम् आग्रहः कृतः।

भारत-ऋतु-विज्ञान-केन्द्रस्य (IMD) १ जून तः २६ जुलाई २०२६ दिनाङ्कं यावत् वर्षायाः विवरणानुसारं प्रदेशे प्रायः ७ प्रतिशतं न्यूना वर्षा अभिलिखिता। यद्यपि केषुचित् मण्डलेषु सामान्यात् अधिका वर्षा अभवत्, यदा च बहुषु मण्डलेषु वर्षायाः महती न्यूनता अस्ति।

You Might Also Like

एच.आर.टी.सी.मध्ये शीघ्रमेव आरप्स्यते ‘हिम-बस-प्लस्-कार्ड’, इति अधुना यावत् निर्मिताणि सर्वाणि अपकर्षपत्राणि अस्मिन् भविष्यन्ति विलीनानि

काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि – मुख्यमंत्री सुक्खुः

शिक्षक-दिवसात् पूर्वं नूतन-परिसर-प्रणाल्याम् भविष्यति निर्णयः, मुख्यमंत्रिण: सुक्खो: बृहती घोषणा

त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी

जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal Monsoon, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Meteorological Centre, Meteorological Department:, monsoon Update, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, मौसम विज्ञान केन्द्र, मौसम विभाग, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल मौसम, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि – मुख्यमंत्री सुक्खुः
Next Article एच.आर.टी.सी.मध्ये शीघ्रमेव आरप्स्यते ‘हिम-बस-प्लस्-कार्ड’, इति अधुना यावत् निर्मिताणि सर्वाणि अपकर्षपत्राणि अस्मिन् भविष्यन्ति विलीनानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?