।।आषाढी एकादशी।।
महाराष्ट्रस्य एका प्रमुखा देवता। वजन्ती सम्प्रदायस्य उपास्य देवता। विठ्ठलं विष्णु अवतारं कृष्णावतारं वा कथ्यते। महाराष्ट्रे कर्नाटकेदेशे च प्राचीनकालात् विठ्ठलस्य पूजा क्रियते। विष्णुसम्बद्धः एकादशीव्रतोऽपि विठ्ठलस्य तीर्थयात्रिणः भक्त्या आचर्यते। विष्णुप्रिया तुलसी विठ्ठलस्यापि अतीवः प्रियः। तुलसीकाष्ठमणिमाला विठ्ठलस्य अपि परिचयचिह्नम् अस्ति। विष्णुह्रदये श्रीवत्सलांछनस्य चिह्नं विठ्ठलस्य ह्रदये अपि दृश्यते। गोपालकाला भगवान् श्रीकृष्णस्य प्रमुखं नैवेद्यम् अस्ति। विठ्ठलयात्रा अपि गोपालकालाया सेवनेन समाप्तं भवति। कृष्णविठ्ठलयोः संयोगः सुप्रसिद्धः। संत ज्ञानेश्वरस्य मतानुसार भगवान् श्रीहरिः स्वयं विठ्ठलरूपेण आगत्य स्वसुदर्शनचक्रेण पंढरपूरनगरस्य स्थापनां कृतवान्। पंढरपुरक्षेत्रे स्थितः विठ्ठलः अष्टाविंशति युगेभ्यः इष्टिका उपरि स्थितः अस्ति। इति अनेकेषां साधवः मतम्/ प्रत्ययः अस्ति। परन्तु कालगणनां कर्तुं न कोऽपि समर्थः। साधूनां वचनं केवलम् अज्ञातप्राचीनतां सूचयति। विठ्ठल शब्दस्य व्युत्पत्ति-
विठ्ठलशब्दरूपः विष्ठलशब्दात् निर्मितः। विष्ठल इत्यर्थः दूरस्थे वने निवसन्। अस्य अर्थः विठ्ठलदेव इत्यर्थः वने निवसतः देवः। एकस्य सिद्धान्तस्य अनुसारं वि इत्यस्य अर्थः ज्ञानं वा प्रज्ञा वा, ठोबा इत्यस्य अर्थः मूर्तिः इति।
विठोबा ज्ञानमूर्तिरित्यर्थः। विठ्ठलं पाण्डुरङ्गं अपि कथ्यते। प्रत्येकं साधुभिः विठ्ठलस्य वर्णनं भिन्नं- भिन्नं कृतम् अस्ति। यद्यपि ते विठ्ठलं चर्मचक्षुषा न दृष्टवन्तः तथापि ज्ञानचक्षुषा तं दृष्ट्वा वर्णितवन्तः। विठ्ठल भक्त्याः इतिहासः तीर्थयात्री सम्प्रदायस्य उदयः विकास्य इतिहासः च। आषाढमासे प्रतिवर्षं लक्षशःभक्ताः पादचरेण शिबिका वहन्ति। सर्वाणि क्लेशं, तृष्णां, क्षुधां च विस्मृत्य भक्ताः बहुवर्षेभ्यः शिबिकां वहन्ति। आषाढी एकादशी देवशयनी एकादशी इति नाम्ना अपि प्रसिद्धा अस्ति। एषा एकादशी सम्पूर्णे भारते भक्त्या आचर्यते। विठू नाम्नः गर्जना/ उद्घोषं तीर्थयात्रिणः कुर्वन्ति। जय-जय विठ्ठलऽऽ श्रीहरि विठ्ठलऽऽ एतादृशः शब्दः सर्वत्र श्रूयते।
श्रीविठ्ठलाय नमः🙏🙏
डाॅ. वर्षा प्रकाश टोणगांवकर
पुणे, महाराष्ट्रम् ®️©️
आषाढी एकादशी- वजन्ती सम्प्रदायस्य उपास्य देवता विठ्ठलः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
