श्रीकृष्णजन्माष्टमीपर्व
अस्मिन् प्रवर्तमाने वर्षे, ख्रिष्टमतेन ४-सेप्तम्बर, २०२६’ तमे दिनाङ्के, शुक्रवासरे श्रीकृष्णभगवतः प्रादुर्भावतिथिः वर्तते । भाद्रपद-कृष्णपक्षस्य अष्टमीतिथौ रोहिणी नक्षत्रे, अर्धरात्रौ च कारागारे स भगवान्, देवकी-वसुदेवयोः पुत्ररूपेण जन्म लब्धवान् । स साक्षात् विष्णुरूपो भूमिभारहरणाय आविर्भूतः आसीत् । मथुराराज्ञः कंसस्य अत्याचारः उत्तुङ्गतां गतः आसीत् तदा । लीलापुरुषोत्तमस्य भगवतः श्रीकृष्णस्य अस्यां भारतपुण्यभूमौ यत् अवतरणं सञ्जातं तत् अधर्मस्य विनाशार्थम्, धर्मस्य पुनः प्रतिष्ठापनार्थम्, सत्कर्माणां संस्थापनार्थं तथा भक्तानाम्, साधुसज्जनपुरुषाणाञ्च साक्षात् अनुकम्पार्थमेव आसीत् ।
भगवतः जन्म कर्म च दिव्यं भवति, एवं तज्जन्म लोकसङ्ग्रहार्थं लोकशिक्षणार्थं च भवति । भगवतः दिव्यं चरितम् अत्यन्तं मङ्गलमयम् एवं परमं पवित्रं भवति । तस्य भगवतः जीवनचर्या तथा सदुपदेशः अखिललोकार्थं महान् कल्याणकारी वर्तते । श्रीमद्भागवतपुराणादिषु भगवतः श्रीकृष्णस्य महनीयं लोककल्याणकारि निदर्शनं प्राप्यते, तथा तद्भगवतः जन्मतः परमधामप्राप्तिपर्यन्तं कृतकर्माणां मार्मिक-प्रसङ्गानां वर्णनम् उपलभ्यते । स्वलीलामाध्यमेन, उपदेशमाध्यमेन च लोकनायकः श्रीकृष्णः लोकाय महतीं शिक्षां प्रदत्तवान् । श्रीमद्भगवद्गीता तु प्रभोः साक्षात् मुखनिस्सृता वाणी हि वर्तते, यत्र च कर्मयोगस्य, ज्ञानयोगस्य, भक्तियोगस्य च विषये सम्यग्रीत्या विशदीकृतं वर्तते ।
प्रायः सार्धपञ्चसहस्राधिकवर्षाणां पूर्वं वृष्णिवंशीय-वासुदेवस्य पत्नी-देवक्याः गर्भतः, दुराचारिणः मातुलस्य कंसस्य कारागृहे, भाद्रमासस्य कृष्णाष्टमीतिथौ, रोहिणीनक्षत्रे, मध्यरात्रौ च श्रीकृष्णस्य जन्म अभूत् । आभारतं प्रतिवर्षम् इदं जन्माष्टमीपर्व श्रद्धालुभिः हिन्दुजनैः अद्यापि सुष्ठुतया परिपाल्यते । तस्याम् एव रात्रौ कंसस्य हननभयात्, शिशुं तस्मात् संरक्षणाय च, तं शिशुम् एकस्मिन् कण्डोले संस्थाप्य, तं कण्डोलं शिरसि निधाय, वहन् च वासुदेवः कष्टेन यमुनानदीं तीर्त्वा गोकुले स्थितस्य गोपबन्धोः नन्दस्य गृहं प्राविशत्, नन्देन समालोच्य तं शिशुं तत्रैव संस्थाप्य कारां प्रत्यागतवान् । यथासमयं तत्र कुलपुरोहितेन गर्गऋषिणा तस्य शिशोः नामकरणं विहितम् , कृष्णः इति तस्य नाम च प्रसिद्धं जातम् । कालक्रमेण सः किशोरावस्थां प्राप्नोत् । तस्य असाधारणैः कर्मभिः वृन्दावनवासिनः, मथुरावासिनः एवञ्च द्वारकावासीनः सर्वेऽपि विमोहिताः उपकृताश्च सञ्जाताः आसन् । न केवलं भारतवासिनः एव, अपिच विश्ववासिनः हि तस्य अलौकिककार्यैः आश्चर्यचकिताः जाताः । सः विशाले भूखण्डे अप्रतिद्वन्द्वी इति स्वीकृतिं लब्धवान् आसीत् । विशेषतः पाण्डवानां राजसूययज्ञे भीष्मपितामहस्य परामर्शानुसारं युधिष्ठिरः तस्मै प्रथमं राजकीयसम्मानं प्रदत्तवान् आसीत् । महतः नायकस्य भगवतः श्रीकृष्णस्य जन्मानन्तरं भारतस्य स्थाने स्थाने जरासन्धः, शिशुपालः, शाल्बः, प्रवञ्चकः दुर्योधनः, देशस्य पूर्वाञ्चले अपि वाणासुरः, नरकासुरः इत्यादयः नैके अशुभशक्तिसम्पन्नाः दुराचारिणः राजानः सर्वसाधारणजनानाम् उपरि स्वैराचारिशासनम्, एवं शोषणं निर्बाधम् आचरितवन्तः आसन् । श्रीकृष्णः तान् सर्वान् एकैकशः निगृह्य हतवान् च । कारागारे स्थितौ अतीव दुःखिनौ, सन्तप्तौ च मातापितरौ ततः विमोच्य कंसस्य वृद्धपितरम् उग्रसेनम्, तथा नैकाञ्च सत्यपरायणान् न्यायनिष्ठान् कारावासिनः कंसस्य कारातः विमुक्तवान् । पुनः उग्रसेनं राजसिंहासने संस्थापितवान् । बाल्ये किशोरावस्थायां प्रौढवयसि च अर्थात् स्वकीये पूर्णजीवने तेन नानाविधाः अलौकिक्यः लीलाः रचिताः । कुवलयापीडोद्धारः, कंसवधः, पित्रोः बन्धनमुक्तिः, उग्रसेनस्य राज्याभिषेकः, जाम्बवत्याः परिणयः, रुक्मिणीहरणम्, स्यमन्तमण्युद्धारः, शिशुपालवधः, सुदाम्नः सत्कारः, मातुः देवक्याः अन्यपुत्रान् आनयनम् एवमेव कालीयदमनम्, गोवर्धनधारणम्, इन्द्रस्य ब्रह्मणश्च अहङ्कार-भञ्जनम्, गोपीभिः सह रासक्रीडा इत्यादयः नानाविचित्राः लीलाः तेन रचिताः । यदा कौरवाणां पाण्डवानाञ्च मध्ये यो महान् संग्रामो जातः, तत्र तु भगवतः श्रीकृष्णस्य हि भूमिका महत्त्वभूता, मुख्या च आसीत् । तस्मिन् महारणे श्रीकृष्णः सत्य-न्याय-धर्मपरायणं पाण्डवपक्षम् अङ्गीकृतवान् । अर्जुन-रथस्य सारथित्वेन तेन पूर्णं साहाय्यं कृतम् । प्रथमतः आत्मीयान् स्वजनान् परितः दृष्ट्वा तुच्छसिंहासनस्य लोभेन कथं वा स्वजनैः सह योद्धव्यम् इति विचिन्त्य करुणया अर्जुनः युद्धं कर्तुं निराकरोत् । परन्तु कौरवाणाम् अन्यायात्याचारादिकं ध्वस्तीकर्तुं श्रीकृष्णः नानाज्ञानवचनैः अर्जुनं समाश्वास्य वारं वारं युद्धार्थं प्रेरितवान् । भगवत्कृपया अर्जुनः अन्ते आत्मज्ञानं प्राप्य युद्धार्थं सन्नद्धः अभवत् । घोरः सङ्ग्रामः जातः, अस्मात् अत्याचारिणः कौरवाः ध्वंसीभूताः ; दुर्वृत्तानाम् अन्यायात्याचारादिकं सर्वमपि समाप्तं जातम् । भगवतः अवतरणं हि लोकहिताय, धर्मस्थापनाय, मार्गदर्शनाय च भवति । श्रीकृष्णः स्वयमेव परमेश्वरः, महान् नायकश्च आसीत् । परमपुरुषस्य भगवतो वर्णनं समान्यलेखेन पूर्णतो न शक्यते । यतोहि श्रीकृष्णस्य चरितं सीमारहितम्, अतुलनीयम्, अगम्यं चास्ति । तस्य भगवतः अस्मिन् जन्मपर्वणि, अनेन लेखेन स केवलं स्मरणाय प्रयत्नः कृतो वर्तते इति, शम् ।
— नारदः ।
