By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमंत्रिणा धामिना जनसमस्यानां त्वरिताय समयबद्धसमाधानाय दत्तः निर्देशः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तराखण्डवार्ताः > मुख्यमंत्रिणा धामिना जनसमस्यानां त्वरिताय समयबद्धसमाधानाय दत्तः निर्देशः
उत्तराखण्डवार्ताः

मुख्यमंत्रिणा धामिना जनसमस्यानां त्वरिताय समयबद्धसमाधानाय दत्तः निर्देशः

डॉ.अमनदीप शर्मा
Last updated: 2026/07/25 at 8:29 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

मुख्यमंत्रिणा धामिना जनसमस्यानां त्वरिताय समयबद्धसमाधानाय दत्तः निर्देशः
हिमसंस्कृतवार्ता, देहरादूनम्, धीरजः 24 जुलाईमासः ।मुख्यमन्त्री पुष्करसिंहधामी शुक्रवासरे मुख्यमन्त्रीशिविरकार्यालयस्थिते मुख्यसेवकसदने प्रदेशस्य विविधक्षेत्रेभ्यः समागतानां नागरिकाणां समस्याः अशृणोत्। तेन अधिकारिभ्यः निर्देशाः प्रदत्ताः यत् प्रत्येकजनपरिवादस्य समाधानं संवेदनशीलतया, पारदर्शितया, समयबद्धतया च सुनिश्चितं क्रियताम्, येन जनाः अनावश्यकरूपेण कार्यालयानां पुनःपुनः परिभ्रमणं न कुर्वन्तु।मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः जनहितस्य सुशासनस्य च सिद्धान्तान् अनुसृत्य कार्यं करोति तथा जनसामान्यस्य समस्याणां त्वरितनिराकरणं सर्वकारस्य सर्वोच्चप्राथमिकतासु अन्यतमम् अस्ति। तेन अधिकारिणः निर्देशिताः यत् प्रत्येकशिकायतायाः गम्भीरतया परीक्षणं कृत्वा नियमानुसारम् प्रभाविकार्यवाही क्रियताम् तथा परिवादसूचयित्रे समाधानस्य प्रगतिविषये नियमितरूपेण सूचना प्रदीयताम्।सः अवदत् यत् प्रदेशवासिनाम् अपेक्षाणां परिपालनं सर्वकारस्य दायित्वम् अस्ति। सर्वे अधिकारिणः जनसेवाभावेन कार्यं कुर्वन्तु तथा जनपरिवादानां निराकरणे कस्याप्यनावश्यकविलम्बस्य अवसरः न प्रदीयताम्।मुख्यमन्त्री अस्मिन् अवसरे गढवालमण्डलस्य आयुक्तम् आनन्दस्वरूपम् तथा गढवालपरिक्षेत्रस्य महानिरीक्षकं राजीवस्वरूपं प्राप्तानां जनसमस्यानां प्राथमिकताक्रमेण समाधानं सुनिश्चेतुं निर्देशितवान्। तेन उक्तं यत् येषां प्रकरणानां निराकरणं जनपदस्तरे विभागीयस्तरे वा सम्भवति, तानि तत्क्षणमेव समाधीयन्ताम्, उच्चस्तरीयप्रकरणानि तु शीघ्रं सम्बन्धितविभागेभ्यः प्रेष्यन्ताम्।मुख्यमन्त्री अधिकारिभ्यः जनश्रवणव्यवस्थां अधिकप्रभाविनीं परिणामोन्मुखिनीञ्च कर्तुम् अपि बलम् अददात्, येन प्रदेशस्य प्रत्येकं नागरिकः समये न्यायं रक्षणं च प्राप्नुयात्।

You Might Also Like

उत्तराखण्ड-विधानसभायाम् ‘देवभूमि-परिवार-विधेयक-2026’ प्रस्तुतम्

हेमवतीनन्दनबहुगुणागढ़वाले केन्द्रीयविश्वविद्यालये पौडीसंस्कृतविभागे “वैश्वीकरणस्य नैतिकता” विषयेस्मिन् व्याख्यानम्

रामनगरमहाविद्यालये भारतबौद्धिक-राष्ट्रीयपरीक्षायां विद्यार्थिनां उत्साहपूर्णसहभागिता

उत्तराखण्डसंस्कृत-अकादम्याः प्रदर्शनी राज्यस्तरे द्वितीयं स्थानं प्राप्तवती

मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article महामण्डलेश्वर-यति-मातुः प्रत्यङ्गिरा-गिरी इत्येतस्याः सम्मानार्थं साधूनां आशीर्वाद-समारोहः
Next Article आषाढी एकादशी- वजन्ती सम्प्रदायस्य उपास्य देवता विठ्ठलः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?