हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्
हिमसंस्कृतवार्ता। हिन्दी दिवसोपरि सम्पूर्णे विश्वे विशेषोत्साहः साहित्यकारेषु दृष्टः। सर्वत्र हिन्दी भाषायाः संवर्धनाय कविसंगोष्ठ्यः साहित्यसभानाञ्चायोजनं सुष्ठुरूपेण सञ्जातम्। अस्मिन्नेव क्रमे हिमसंस्कृतम् न्यास द्वारा हिमसंस्कृतवार्ता इति आभासीये फेसबुकपटले हिन्दी भाषी कवि संगोष्ठी इत्यस्य कार्यक्रमस्य आयोजनं सञ्जातम्। कार्यक्रमेऽस्मिन् विशेषरूपेण हिमाचलस्य प्रबुद्धकवयः उपस्थिताः अभवन्, येषु कांगड़ा जनपदः पालमपुरनगरात् प्रसिद्धगीतगायकः काव्यकारश्च शक्तिचन्दराणा महोदयः उपस्थितः जातः। शक्तिचन्दराणा महोदयः शेषसाहित्यसदस्य निदेशकः अस्ति, यस्य सदनस्य प्रकल्पेन हिमाचले बह्व्यः काव्यसंगोष्ठ्याः कार्यक्रमाश्च भवन्ति। तेनैव क्रमे पालमपुरनगरात् सेवानिवृत्ता शिक्षिका सुरेशलता अवस्थी महोदया उपस्थिता, यया स्वीया काव्यमधुर्या काव्यसंगोष्ठ्याः मनः सम्मोहितः। युवाकाव्यकारेषु पालमपुरतः आकाशवाणी गायकः प्यारचन्दसिप्पी महोदयः स्वीयेन माधुर्येण कण्ठेन हिन्दीभाषायाः मार्मिकस्वरूपस्य चित्रणं स्वगीतेन कृतवान्। शिमलातः भाषा कला संस्कृति विभागस्य साहित्यसंवाद इति कार्यक्रमस्य प्रसिद्धः संयोजकः हितेन्द्र शर्मा हिन्दी भाषायाः कवितां पठितवान्। अस्मिन्नेव क्रमे हिमाचलस्य सिरमौरजनपदः प्रसिद्धः कविपुङ्गवः दलीपवसिष्ठः हिमाचलस्य लोकजीवनेन प्रभावितायाः काव्यमञ्जर्याः उपस्थापनं सर्वेषां समक्षं प्रस्तुतवान्, तस्य काव्ये अनुप्रासादीनाम् अलङ्काराणां प्रयोगेन सर्वेषां मनांसि आकर्षितानि। कार्यक्रमस्य सञ्चालकः रजनीश अवस्थी महोदयः उपमायाः सिद्धप्रयोगैः काव्यकाराणां मुक्तकण्ठेन प्रशंसां कृतवान्, तेषां काव्यचातुर्यस्य गुणगानं च कृतवान्। कार्यक्रमस्य अन्तः भगवत्याः शादरदायाः धन्यवादात्मकेन स्तवनेन अभवत्।
हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
