वीवाटेक-2026 सम्मेलने प्रधानमन्त्रिणा मोदीवर्येण भारतं नवोन्मेषस्य प्रौद्योगिक्याः च वैश्विकं केन्द्रं घोषितम्
फ्रांसदेशस्य राजधान्यां पैरिसनगरे गतदिने आयोजिते ‘वीवाटेक-2026’ सम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदीवर्येण भारतं नवोन्मेषस्य (नवाचारस्य) प्रौद्योगिक्याः च वैश्विकं केन्द्रं इति प्रतिपादितम्। प्रधानमन्त्रिणा उक्तं यत् भारतं गते दशके प्रौद्योगिक्याः माध्यमेन तीव्रपरिवर्तनस्य दिशि अग्रे सरति। सः अवदत् यत् भारतं वित्तीय-समावेशने, शिक्षायाम्, कृषिक्षेत्रे अन्येषु च क्षेत्रेषु व्यापकतया प्रौद्योगिक्याः उपयोगं करोति। श्रीमोदीवर्येण स्पष्टीकृतं यत् भारताय विश्वस्य बृहत्तमा अंकीय-अभिज्ञान-प्रणाली (डिजिटल पहचान प्रणाली) तथा विश्वस्य विशालतमं अंकीय-भुगतान-मञ्चं (डिजिटल भुगतान प्लेटफॉर्म) विकसितं कृतम् अस्ति। प्रधानमन्त्रिणा कथितं यत् प्रौद्योगिक्या प्रगतिः तदैव सम्भवति यदा तस्याः लाभः सर्वान् प्राप्नुयात्। सः अवदत् यत् भारतस्य विश्वासः अस्ति यत् अस्मिन् संकटपूर्णे युगे प्रौद्योगिक्याः लाभः सर्वेभ्यः मिलितव्यः। सः वैश्विक-नवोन्मेषकान् भारतेन सह मिलित्वा कार्यं कर्तुं तथा च तादृशीं नूतनां प्रौद्योगिकीं विकसितुं आहूतवान् या सर्वेषां कृते कल्याणकारी भवेत्। आर्थिक-प्रौद्योगिक-सहयोगं सुदृढं कर्तुं श्रीमोदीवर्येण फ्रांसदेशस्य प्रमुख-व्यवसायिभिः सह अपि उपवेशनानि कृतानि।
