MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता
हिमसंस्कृतवार्ता: — कार्यालयीय: प्रतिनिधि:।
उत्तरभारतस्य पर्वतीयाः प्रदेशा: अस्मिन् काले मानसून-प्राकृतिक-आपद्भ्यां दोलायमानाः सन्ति। हिमाचलप्रदेशे, उत्तराखण्डे, जम्मू-काश्मीरे (घाटी) च प्रचण्डवृष्टेः, भूस्खलनस्य, मेघविस्फोटस्य च घटनाभिः जनजीवनं पूर्णतया विपर्यस्तं संजातम्। नद्यः उद्वेगे वहन्ति, प्रमुखाः राष्ट्रियमार्गाः आरभ्य शतशः सम्पर्कमार्गाः पिहिताः सन्ति, जनाश्च निरन्तरं मलिनावशेष भूस्खलनस्य च भयच्छायायां जीवनं यापयितुं विवशाः सन्ति। बिन्दन्तीं स्थितिं दृष्ट्वा ऋतुविज्ञानविभागेन स्थानीयप्रशासनेन च उच्चसतर्कता (हाई अलर्ट) प्रसारिता।
काश्मीरम्: अनन्तनाग-पहलगामक्षेत्रयोः मेघविस्फोटेन विनाशः, प्रशासनं सर्तकमुद्रायाम्
दक्षिणकाश्मीरे प्रकृतेः रौद्ररूपं दृष्टं, यत्र द्वयोः भिन्नयोः प्रसिद्धक्षेत्रयोः अकस्मात् मेघविस्फोटात् नदी-उपनदेषु भयङ्करः जलप्रवाहः (सैलाब) आगतः।
अकस्मात् आगतः जलप्रवाहः
प्रथमा घटना अनन्तनागमण्डलस्य ‘चित्रगुल’ इत्यस्य उच्चपर्वतीयक्षेत्रेषु अभवत्, येन ‘नाला आरपत चित्रगुल शाङ्गस’ इत्यस्मिन् अकस्मात् जलोप्लव: (बाढ़) आगतः। तस्य सद्यः परमेव पर्यटनस्थले पहलगामस्य ‘नाला आवूरा’ इत्यस्मिन् अपि मेघविस्फोटः जातः, येन जलस्तरः भयानकवेगेन प्रवृद्धः।
भोजनशालासु (होटल) पर्यटकेषु च कोलाहलः
मलिनातिशयेन जलस्य तीव्रप्रवाहं दृष्ट्वा निम्नक्षेत्रेषु तटेषु च कश्चित् कालार्थं भयपूर्णं वातावरणं निर्मितम्। सौभाग्थेन पहलगामतटे स्थितासु प्रमुखासु भोजनशालासु तिष्ठन्तः देश-विदेशस्य सर्वे पर्यटकाः सुरक्षितरूपेण सन्ति।
प्रशासनिकसज्जता:
आपदाप्रबन्धन-आरक्षि-राजस्वविभागाः पूर्णतया सतर्कमुद्रायां स्थापिताः सन्ति। सङ्कटपूर्णेषु निम्नक्षेत्रेषु च रक्षण-निरीक्षणदलानि नियुक्तानि ।
उत्तराखण्ड: – ९१ मार्गाः रुद्धाः, ११ सेतवः जलाशयाश्च सङ्कटबिन्दोः अन्तिके
उत्तराखण्डे भूस्खलनकारणात् सम्पर्कमार्गाः पूर्णतया भग्नाः सन्ति। राज्ये एकः राष्ट्रियमार्गः द्वौ राज्यमार्गौ (स्टेट हाईवे) च सम्मिलितं कृत्य कुलं ९१ प्रमुखाः मार्गाः अवरुद्धाः सन्ति, येन आवागमनं बाधितं जातम्।
सर्वाधिकप्रभावितानि मण्डलानि
लोकनिर्माणविभागः (लोनिवि) मार्गान् उद्घाटयितुं प्रयतते, परन्तु निरन्तरं पतता मलातिशय-कारणात् विघ्नः जायते। सर्वतः दुरवस्था पौड़ीगढ़वाले (२१ मार्गाः रुद्धाः) चमोलीमण्डले (१९ मार्गाः रुद्धाः) च वर्तते। एतदतिरिच्य टिहरीक्षेत्रे १७ पिथौरागढ़े च १० मार्गाः पिहिताः सन्ति।
नदीनां वर्धमानः जलस्तरः
राज्यस्य ११ जलाशयेषु सेतुषु च जलस्तरः सङ्कटबिन्दोः (खतरे के निशान) अत्यन्तं समीपम् सम्प्राप्तः। उत्तरकाश्यां भागीरथी नदी, कोटेश्वर-रुद्रप्रयागे अलकनन्दा (बदरीनाथसमीपे) इत्यस्याः जलस्तरः वेगेन प्रवृद्धः, यद्यपि पश्चात् अस्मिन् स्वल्पा न्यूनता अङ्किता। ऋषिकेशे हरिद्वारे च गङ्गायाः जलस्तरः सम्प्रति घटते, परन्तु सङ्कटः अद्यापि न टलितः।
हिमाचलप्रदेशः – आगामि-पञ्चदिनानि यावत् प्रचण्डवृष्टेः सचेतना
हिमाचलप्रदेशे अपि मानसूनस्य सक्रियता परमोत्कर्षे वर्तते। ऋतुविज्ञानकेन्द्र-शिमलायाः अनुसारम्, आगामिषु कतिपयेषु दिनेषु प्रदेशे साहाय्यस्य आशा नास्ति।
१२ तः १६ जुलाई पर्यन्तं पूर्वानुमानम्
ऋतुविज्ञानविभागेन १२ तः १६ जुलाई पर्यन्तं राज्यस्य अधिकांशभागेषु मन्दतः मध्यमा वृष्टिः तथा च मण्डी, कुल्लू, काङ्गड़ा, चम्बा सदृशेषु मण्डलेषु केषुचित् स्थानेषु अधिकतः अत्यधिकवृष्टेः सचेतना प्रसारिता।
विशेषरूपेण स्तनित-विद्युत्पातेन (गरज-चमक) सह ३० तः ४० किलोमीटर प्रतिघण्टा वेगेन तीव्रवायूनां चलनस्य अनुमानं वर्तते। किन्नौर-लाहौलस्पीति सदृशेषु उच्चपर्वतीयक्षेत्रेषु अपि सचेतना अस्ति।
विगत-२४ घण्टानां स्थितिः
राज्यस्य जोगिन्द्रनगरे सर्वाधिक ६ सेन्टीमीटर, मनाल्यां ५ सेन्टीमीटर, सराहनक्षेत्रे च ४ सेन्टीमीटर वृष्टिः अङ्किता। सुन्दरनगरे अधिकतमं तापमानं ३३ डिग्री तत्रैव कुकमुसेरीक्षेत्रे न्यूनतमं तापमानं १०.१ डिग्री सेल्सियस अभवत्।
प्रशासनस्य आह्वानम् अनावश्यकयात्रां वर्जयेयुः
१. ऋतुविज्ञानविभागेन त्रयाणां राज्यानां स्थानीयप्रशासनेन च अतिवृष्टियुक्तेषु क्षेत्रेषु स्थानीयभूस्खलनं, जलमग्नता (जलभराव), पिच्छिलमार्गाः, न्यूनदृश्यता च प्रति सचेतितम् अस्ति।
२. सर्वसामान्याः पर्यटकाश्च दृढतया आग्रहिताः यत् ते नदी-उपनदीभ्यः सङ्कटपूर्ण-पर्वतीयप्रवणेभ्यश्च दूरे तिष्ठेयुः।
३. अतीव आवश्यकतां विना पर्वतीयक्षेत्राणां यात्रां न कुर्युः।
४. कस्यामपि आपत्स्थितौ रक्षणाय स्थानीयप्रशासनेन प्रसारितानां दिशानिर्देशानां दृढतया अनुपालनं कुर्युः।
