By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता
प्रादेशिकवार्ताहिमाचलवार्ता

MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता

डॉ मनोज शैल
Last updated: 2026/07/13 at 7:19 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता

 

हिमसंस्कृतवार्ता: — कार्यालयीय: प्रतिनिधि:।

उत्तरभारतस्य पर्वतीयाः प्रदेशा: अस्मिन् काले मानसून-प्राकृतिक-आपद्भ्यां दोलायमानाः सन्ति। हिमाचलप्रदेशे, उत्तराखण्डे, जम्मू-काश्मीरे (घाटी) च प्रचण्डवृष्टेः, भूस्खलनस्य, मेघविस्फोटस्य च घटनाभिः जनजीवनं पूर्णतया विपर्यस्तं संजातम्। नद्यः उद्वेगे वहन्ति, प्रमुखाः राष्ट्रियमार्गाः आरभ्य शतशः सम्पर्कमार्गाः पिहिताः सन्ति, जनाश्च निरन्तरं मलिनावशेष भूस्खलनस्य च भयच्छायायां जीवनं यापयितुं विवशाः सन्ति। बिन्दन्तीं स्थितिं दृष्ट्वा ऋतुविज्ञानविभागेन स्थानीयप्रशासनेन च उच्चसतर्कता (हाई अलर्ट) प्रसारिता।

 

काश्मीरम्: अनन्तनाग-पहलगामक्षेत्रयोः मेघविस्फोटेन विनाशः, प्रशासनं सर्तकमुद्रायाम्

दक्षिणकाश्मीरे प्रकृतेः रौद्ररूपं दृष्टं, यत्र द्वयोः भिन्नयोः प्रसिद्धक्षेत्रयोः अकस्मात् मेघविस्फोटात् नदी-उपनदेषु भयङ्करः जलप्रवाहः (सैलाब) आगतः।

 

अकस्मात् आगतः जलप्रवाहः

प्रथमा घटना अनन्तनागमण्डलस्य ‘चित्रगुल’ इत्यस्य उच्चपर्वतीयक्षेत्रेषु अभवत्, येन ‘नाला आरपत चित्रगुल शाङ्गस’ इत्यस्मिन् अकस्मात् जलोप्लव: (बाढ़) आगतः। तस्य सद्यः परमेव पर्यटनस्थले पहलगामस्य ‘नाला आवूरा’ इत्यस्मिन् अपि मेघविस्फोटः जातः, येन जलस्तरः भयानकवेगेन प्रवृद्धः।

 

भोजनशालासु (होटल) पर्यटकेषु च कोलाहलः

मलिनातिशयेन जलस्य तीव्रप्रवाहं दृष्ट्वा निम्नक्षेत्रेषु तटेषु च कश्चित् कालार्थं भयपूर्णं वातावरणं निर्मितम्। सौभाग्थेन पहलगामतटे स्थितासु प्रमुखासु भोजनशालासु तिष्ठन्तः देश-विदेशस्य सर्वे पर्यटकाः सुरक्षितरूपेण सन्ति।

 

प्रशासनिकसज्जता:

आपदाप्रबन्धन-आरक्षि-राजस्वविभागाः पूर्णतया सतर्कमुद्रायां स्थापिताः सन्ति। सङ्कटपूर्णेषु निम्नक्षेत्रेषु च रक्षण-निरीक्षणदलानि नियुक्तानि ।

 

उत्तराखण्ड: – ९१ मार्गाः रुद्धाः, ११ सेतवः जलाशयाश्च सङ्कटबिन्दोः अन्तिके

उत्तराखण्डे भूस्खलनकारणात् सम्पर्कमार्गाः पूर्णतया भग्नाः सन्ति। राज्ये एकः राष्ट्रियमार्गः द्वौ राज्यमार्गौ (स्टेट हाईवे) च सम्मिलितं कृत्य कुलं ९१ प्रमुखाः मार्गाः अवरुद्धाः सन्ति, येन आवागमनं बाधितं जातम्।

 

सर्वाधिकप्रभावितानि मण्डलानि

लोकनिर्माणविभागः (लोनिवि) मार्गान् उद्घाटयितुं प्रयतते, परन्तु निरन्तरं पतता मलातिशय-कारणात् विघ्नः जायते। सर्वतः दुरवस्था पौड़ीगढ़वाले (२१ मार्गाः रुद्धाः) चमोलीमण्डले (१९ मार्गाः रुद्धाः) च वर्तते। एतदतिरिच्य टिहरीक्षेत्रे १७ पिथौरागढ़े च १० मार्गाः पिहिताः सन्ति।

 

नदीनां वर्धमानः जलस्तरः

राज्यस्य ११ जलाशयेषु सेतुषु च जलस्तरः सङ्कटबिन्दोः (खतरे के निशान) अत्यन्तं समीपम् सम्प्राप्तः। उत्तरकाश्यां भागीरथी नदी, कोटेश्वर-रुद्रप्रयागे अलकनन्दा (बदरीनाथसमीपे) इत्यस्याः जलस्तरः वेगेन प्रवृद्धः, यद्यपि पश्चात् अस्मिन् स्वल्पा न्यूनता अङ्किता। ऋषिकेशे हरिद्वारे च गङ्गायाः जलस्तरः सम्प्रति घटते, परन्तु सङ्कटः अद्यापि न टलितः।

 

हिमाचलप्रदेशः – आगामि-पञ्चदिनानि यावत् प्रचण्डवृष्टेः सचेतना

हिमाचलप्रदेशे अपि मानसूनस्य सक्रियता परमोत्कर्षे वर्तते। ऋतुविज्ञानकेन्द्र-शिमलायाः अनुसारम्, आगामिषु कतिपयेषु दिनेषु प्रदेशे साहाय्यस्य आशा नास्ति।

१२ तः १६ जुलाई पर्यन्तं पूर्वानुमानम्

ऋतुविज्ञानविभागेन १२ तः १६ जुलाई पर्यन्तं राज्यस्य अधिकांशभागेषु मन्दतः मध्यमा वृष्टिः तथा च मण्डी, कुल्लू, काङ्गड़ा, चम्बा सदृशेषु मण्डलेषु केषुचित् स्थानेषु अधिकतः अत्यधिकवृष्टेः सचेतना प्रसारिता।

विशेषरूपेण स्तनित-विद्युत्पातेन (गरज-चमक) सह ३० तः ४० किलोमीटर प्रतिघण्टा वेगेन तीव्रवायूनां चलनस्य अनुमानं वर्तते। किन्नौर-लाहौलस्पीति सदृशेषु उच्चपर्वतीयक्षेत्रेषु अपि सचेतना अस्ति।

 

विगत-२४ घण्टानां स्थितिः

राज्यस्य जोगिन्द्रनगरे सर्वाधिक ६ सेन्टीमीटर, मनाल्यां ५ सेन्टीमीटर, सराहनक्षेत्रे च ४ सेन्टीमीटर वृष्टिः अङ्किता। सुन्दरनगरे अधिकतमं तापमानं ३३ डिग्री तत्रैव कुकमुसेरीक्षेत्रे न्यूनतमं तापमानं १०.१ डिग्री सेल्सियस अभवत्।

 

प्रशासनस्य आह्वानम् अनावश्यकयात्रां वर्जयेयुः

१. ऋतुविज्ञानविभागेन त्रयाणां राज्यानां स्थानीयप्रशासनेन च अतिवृष्टियुक्तेषु क्षेत्रेषु स्थानीयभूस्खलनं, जलमग्नता (जलभराव), पिच्छिलमार्गाः, न्यूनदृश्यता च प्रति सचेतितम् अस्ति।

२. सर्वसामान्याः पर्यटकाश्च दृढतया आग्रहिताः यत् ते नदी-उपनदीभ्यः सङ्कटपूर्ण-पर्वतीयप्रवणेभ्यश्च दूरे तिष्ठेयुः।

३. अतीव आवश्यकतां विना पर्वतीयक्षेत्राणां यात्रां न कुर्युः।

४. कस्यामपि आपत्स्थितौ रक्षणाय स्थानीयप्रशासनेन प्रसारितानां दिशानिर्देशानां दृढतया अनुपालनं कुर्युः।

You Might Also Like

हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः

‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा

अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः

SHRIKHAND YATRA – श्रीखण्डयात्रां प्रति पूर्णप्रतिबन्धः, धारा १६३ (163) प्रवृत्ता इति सूचना

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal Monsoon, Himachal news, himachal update, Himsanskritam, Himsanskritnews, HP NEWS, monsoon Update, मानसून, मौसम विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article कतर-देशस्य पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधने भारते राष्ट्रीयशोकः घोषितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?