केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्वादशस्यान्तर्राष्ट्रिययोगमहोत्सवस्यायोजनम्
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोजपालपरिसरे आयोजिते द्वादशेऽन्तर्राष्ट्रिययोगमहोत्सवे एकादशपरिसराणां तथा च सप्तादर्शसंस्कृतमहाविद्यालयानां प्रतिभागिनो भागग्रहणमकुर्वन्। तस्मिन् महोत्सवे झारखण्डराज्यान्तर्गतस्य देवघरनगरस्थस्य लक्ष्मीदेवीशराफादर्शसंस्कृतमहाविद्यालयस्य पञ्चच्छात्रा भागमगृह्णन्। ते च पञ्चच्छात्राः पाण्डेयाशुतोषः पाण्डेयगोपालः पाण्डेयकुन्दनकुमारः पाण्डेयनिशुकान्तस्तथा च तिवारिसुबलकुमारश्चात्र प्रतिभागिनोऽभवन्।
षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे षष्ठमासस्य विंशतितमे दिनाङ्के सम्पन्नायामेकलयोगप्रतियोगितायां लक्ष्मीदेवीशराफादर्शसंस्कृतमहाविद्यालयादागतेषु पञ्चसु छात्रेषु छात्रः पाण्डेयनिशुकान्त उत्तमं प्रदर्शनमकरोत्। योगप्रतियोगिताया अनन्तरं रङ्गवल्लीप्रतियोगिता योगसूत्रकण्ठपाठप्रतियोगिता तथा च सामूहिकयोगप्रतियोगिता चेत्यन्याः प्रतियोगिता अप्यभवन्।
तदनन्तरमेकविंशतितमे दिनाङ्के सर्वे प्रतिभागिनोऽन्तर्जालमाध्यमेन केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतेःश्रीनिवासवरखेडीवर्यस्ययाशीर्वचनमशृण्वन्। आशीर्वचनानन्तरं योगाभ्यासो वाद्यवृन्दप्रस्तुतिश्चाभवताम्। तत्र हरिप्रसादपौडियालस्य वंशीवादनं श्रुत्वा सर्वे जना मन्त्रमुग्धा अभवन्। ततः परं डॉ द्विवेदिसञ्जयस्तस्य सहयोगिनश्च मधुरां सङ्गीतप्रस्तुतिमकुर्वन्। महोत्सवस्य समापनकार्यक्रमे बहवोऽतिथय आचार्या आचार्याश्च निर्देशकाः संयोजकाः कार्यकर्तारः कार्यकर्त्यश्च भागमगृह्णन्॥
आशुतोष पाण्डेयः, देवघरः
