महर्षि-महेश-योगी-वैदिकविश्वविद्यालये द्वादशतम-अन्तर्राष्ट्रीय-योग-दिवसस्य भव्यः कार्यक्रमः सुसम्पन्नः
हिमसंस्कृतवार्ता – डॉ आलोकः कटनी। महर्षि-महेश-योगी-वैदिकविश्वविद्यालयः महर्षि-वेद-विज्ञान-विद्यापीठम् इत्यनयोः संयुक्ततत्त्वावधाने द्वादशतमान्ताराष्ट्रिय-योग-दिवसस्य शुभावसरे विश्वविद्यालयस्य कुलाधिपतिः ब्रह्मचारी डॉ.गिरीशचन्द्रवर्ममहोदयस्य संरक्षणेझ कुलगुरोः प्रो.(डॉ.) नरेशकुमारतिवारीमहोदयस्य च मार्गदर्शने दिनाङ्के 21 जून 2026 प्रातः 8:00 वादने बृहद्ध्यानमण्डपे भव्यः गरिमामयश्च कार्यक्रमः सुसम्पन्नः।
अस्य कार्यक्रमस्य अध्यक्षता कुलगुरुणा प्रो.(डॉ.) नरेशकुमारतिवारीमहोदयेन कृता।

मुख्यतिथिरूपेण बड़वाराक्षेत्रस्य विधायकः श्रीधीरेन्द्रबहादुरसिंहमहोदयः समुपस्थितः आसीत्। विशिष्टातिथिषु श्रीपद्मेशगौतममहोदयः (सांसद-प्रतिनिधिः), श्रीमती सुनीतासन्तोषदुबेमहोदया (जनपद-पञ्चायत-अध्यक्षा, ढीमरखेड़ा), श्रीराजेशव्योहारमहोदयः, श्रीसन्तोषदुबेवर्यः, श्रीअरविन्दसिंहमहोदयः (महर्षिवेदविज्ञानविद्यापीठस्य प्रभारी), श्रीआशीषचौरसियामहोदयः (मण्डलाध्यक्षः) तथा अन्ये बहवः गणमान्यजनाः समुपस्थिता आसन्। अस्मिन् अवसरे विश्वविद्यालयविद्यापीठयोः अधिकारीणः, आचार्याः, कर्मचारीगणः, छात्राश्च उत्साहपूर्वकं सहभागं कृतवन्तः।
कार्यक्रमस्य शुभारम्भः गुरुपूजनं वैदिकमन्त्रपाठं च कृत्वा अभवत्। ततः सर्वे अतिथयः, छात्राः, नागरिकाश्च सामूहिकरूपेण योगाभ्यासं भावातीतध्यानस्य (Transcendental Meditation) अभ्यासं च अकुर्वन्। विश्वविद्यालयस्य योगविभागाध्यक्षः कार्यक्रमसंयोजकश्च डॉ.नित्येश्वरचतुर्वेदीमहोदयः,विद्यापीठस्य ध्यानशिक्षकः श्रीसुशीलमिश्रमहोदयः च आयुष-मन्त्रालयस्य प्रोटोकॉल-अनुसारेण विविधयोगासनानि, प्राणायामान् तथा भावातीतध्यानस्य प्रक्रियाः अभ्यासितवन्तौ। सम्पूर्णे वातावरणे स्वास्थ्यस्य, शान्तेः, आध्यात्मिकचेतनायाश्च भावना दरीदृश्यते स्म।
स्वीये अध्यक्षीयोद्बोधने प्रो.(डॉ.)नरेशकुमारतिवारीमहोदयः उक्तवान् यत् योगः भारतस्य सनातनज्ञानपरम्परायाः अमूल्या धरोहरः अस्ति। सः शारीरिक-मानसिक-आध्यात्मिक-विकासस्य प्रमुखः आधारः अस्ति। अद्यतनस्य अवसादपूर्णस्य प्रतिस्पर्धात्मकस्य च युगस्य सन्दर्भे योगः तथा भावातीतध्यानं मानवजीवने सन्तुलनं, शान्तिं, सृजनशीलतां सकारात्मकशक्तिं च जनयतः। तेन उक्तं यत् महर्षिमहेशयोगिना विश्वप्रदत्तं भावातीतध्यानज्ञानं मानवजीवनस्य उन्नतये वैज्ञानिकं प्रभावी च साधनम् अस्ति। तेन सर्वेभ्यः नागरिकेभ्यः युवकेभ्यश्च योगं नित्यजीवनस्य अभिन्नाङ्गरूपेण स्वीकर्तुम् आह्वानं कृतम्।
मुख्यतिथिः विधायकः श्रीधीरेन्द्रबहादुरसिंहमहोदयः स्वीये भाषणे अवदत् यत् भारतस्य माननीयप्रधानमन्त्रिणः श्रीनरेन्द्रमोदीमहोदयस्य प्रयत्नैः अद्य अन्ताराष्ट्रिय-योग-दिवसः वैश्विकजनान्दोलनस्य रूपं प्राप्तवान् अस्ति। तेन युवजनान् भारतीयसंस्कृतेः, योगस्य, आध्यात्मिकमूल्यानां च अनुसरणेन राष्ट्रनिर्माणे सक्रियभूमिकां निर्वोढुम् आहूतम्।
कार्यक्रमे उपस्थितैः अन्यैः अतिथिभिः अपि स्वविचाराः प्रस्तुताः। तैः योगः ध्यानं च स्वस्थसमाजस्य, सशक्तराष्ट्रस्य, विश्वशान्तेः च महत्त्वपूर्णं साधनम् इति प्रतिपादितम्। सर्वैः वक्तृभिः योगस्य जन-
जनपर्यन्तं प्रसारणस्य आवश्यकता प्रतिपादिता। तदनन्तरं ज्योतिषविभागाध्यक्षः कार्यक्रमसमन्वयकश्च प्रो.मानवेन्द्रपाण्डेयमहोदयः धन्यवादज्ञापनम् अकरोत्।

कार्यक्रमस्य संयोजकः योगविभागाध्यक्षः डॉ.नित्येश्वरचतुर्वेदीमहोदयः आसीत्। सहसंयोजकौ डॉ.आलोकचन्द्रपरिडामहोदयः (सहायक-प्राध्यापकः एवं वेदविभागाध्यक्षः) , डॉ.श्यामबाबूखरेमहोदयः (सह-प्राध्यापकः) आस्ताम्।
योगदिवसस्य आयोजनस्य पूर्वम् आयुषमन्त्रालयेन निर्दिष्टस्य “स्वस्थ-सक्रियवृद्धावस्थायै योगः” इति विषयस्य आधारेण विश्वविद्यालयस्य कुलसचिवस्य श्रीसन्दीपशर्मामहोदयस्य मार्गदर्शने योगविभागाध्यक्षः डॉ.-नित्येश्वर-चतुर्वेदी-महोदयः, ध्यान-सिद्धि-शिक्षकः श्रीगिरिजाशङ्करचौधरीमहोदयः तथा योगविभागस्य सहायकप्राध्यापकः श्रीदीपकपाण्डेयमहोदयः च संयुक्तरूपेण दिनाङ्कात् 14 जूनतः 18 जून 2026 पर्यन्तं प्रातः 06:00–07:00 वादनपर्यन्तं पान-उमरिया इति स्थाने पञ्चदिवसीयं योग-प्रशिक्षण-शिविरम् आयोजितवन्तः। पुनः दिनाङ्कात् 18 जूनतः 20 जून 2026 पर्यन्तं सायं 06:00–07:00 वादनपर्यन्तं महर्षि-वेद-विज्ञान-विद्यापीठे त्रिदिवसीयं योग-प्रशिक्षण-शिविरम् अपि सञ्चालितवन्तः, यत्र अनेकाः जनाः योग-प्रशिक्षणं प्राप्तवन्तः।
अन्ते राष्ट्रगानस्य गायनेन कार्यक्रमस्य सफलतापूर्वकं समापनम् अभवत् इति शम्।
महर्षि-महेश-योगी-वैदिकविश्वविद्यालये द्वादशतम-अन्तर्राष्ट्रीय-योग-दिवसस्य भव्यः कार्यक्रमः सुसम्पन्नः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
