प्रधानमन्त्री नरेन्द्रमोदीः फ्रान्सदेशस्य राष्ट्रपतिना इमैनुअल मैक्रोनेन सह नीस्-नगरे प्रतिनिधिमण्डलस्तरीयां वार्ता कृतवान्
हिमसंस्कृतवार्ता। प्रधानमन्त्री नरेन्द्रमोदी, फ्रान्स्-देशस्य राष्ट्रपतिः इमैनुएल मैक्रो च गतदिने नीस-नगरस्य पालेस्-दे-एक्स्पोशिन्स् इत्यत्र भारत-इनोवेट्स इति कार्यक्रमस्य संयुक्तरूपेण उद्धानटम् अकुरुताम्। सः प्रतिनिधिमण्डलस्तरीयां वार्तां कृतवान्। भारत-फ्रान्स्-नवान्वेषणवर्षान्तर्गतं आयोजितः अयं प्रमुखः कार्यक्रमः, उभयोः देशयोः शीर्ष-नवान्वेषण-आरम्भान्, वेञ्चर-कैपिटलप्रति-निधित्वं इत्येतञ्च समाकलयति। कार्यक्रमेऽस्मिन् उन्नत-गणनम्, सेमिकण्डक, कृत्रिम बुद्धिमत्ता, क्वाण्टम्-प्रौद्योगिकी, अन्तरिक्ष-प्रौद्योगिकी, स्वच्छ-ऊर्जा,प्रौद्योगिकीत्यादिषु त्रयोदश प्रमुखेषु क्षेत्रेषु नवान्वेषणानि सन्ति। अस्मिन् अवसरे प्रधानमन्त्रिणा मोदीवर्येण भारत -फ्रान्स्-देशयोः सम्बन्धस्य बलविषये अवधानं दत्तम्। सः अवदत् यत्, यद्यपि बहवः देशाः व्यापारे सामरिकसहयोगे च निमग्नाः सन्ति, तथापि केवलं कतिपयाः सम्बन्धाः एव समानदृष्ट्या समानहितैः च मार्गदर्शिताः भवन्ति। सः भारत-फ्रान्स्-सहभागित्वम् एतादृशम् एकम् चिरस्थायी सम्बन्धम् अस्ति यस्य मूलाधारः परस्परविश्वासः, सहभागीमूल्यानि, भविष्यत्कालाय सामान्यदृष्टिः च वर्णितवान्। सः अवदत् यत्, नवान्वेषणम्, प्रौद्योगिकी, भारतस्य यूनां आकांक्षाः देशस्य परिवर्तनस्य, भविष्यनिर्माणस्य च चालकभूताः सन्ति।सभाम् अभिसंबोधयन् फ्रान्स्-देशस्य राष्ट्रपतिः मैंक्रो-वर्यः, भारतात् बहिः अस्य उपक्रमस्य प्रथमसंस्करणस्य आतिथेयत्वं फ्रान्स्-देशाय सम्मानः अस्तीति अवोचत्। सः वैश्विक नवोन्मेषशक्तिरूपेण भारतस्य उदयस्य प्रशंसां कृतवान्। सः अवदत् यत् गतदिने प्रश्नः नास्ति यत् भारतम् नवोन्मेषं करोति वा न वा, अपितु प्रश्नः अयम् अस्ति यत् भारतेन सह नवोन्मेषकार्ये कः सहभागी भविष्यति। अस्य वर्षस्य आरम्भे मुम्बई-नगरे प्रारब्धस्य भारत-फ्रान्स्-नवान्वेषणवर्षस्य उल्लेखं कुर्वन्, श्रीमैक्रोंवर्यः अवदत् यत्, भारतस्य प्रमुखाणां नवोद्योग-संस्थानां नवान्वेषकाणां च प्रदर्शनार्थं, निवेशकैः, उद्यमपतिभिः, सह सहयोगं प्रवर्धयितुं सहभागी-देशत्वेन चितः इति फ्रान्स्-देशः गौरवान्वितः अस्ति इति।अस्मिन् अवसरे विदेश-कार्यमन्त्री डा. एस्. अशङ्करः, वाणिज्योद्योग मन्त्री पीयूष गोयलः, राष्ट्रिय सुरक्षा-परामर्शकः डोभालः, प्रधान-वैज्ञानिक परामर्शकः अग्रकुमारसूदः, इन्फोसिस् संस्थापकः नारायणमूर्तिः, अनेके व्यापार-प्रमुखाः च उपस्थिताः आसन्। दिनानन्तरं, प्रधानमन्त्री मोदी राष्ट्रपतिः मैक्रों च भारत-क्लान्स् विशेष-वैश्विक सामरिक सहभागित्वस्य प्रगतिं समीक्षितुं, प्रमुख-क्षेत्रीय-वैश्विक-विषयान् चर्चयितुञ्च वार्तालापं करिष्यतः।
प्रधानमन्त्री नरेन्द्रमोदीः फ्रान्सदेशस्य राष्ट्रपतिना इमैनुअल मैक्रोनेन सह नीस्-नगरे प्रतिनिधिमण्डलस्तरीयां वार्ता कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
