प्रधानमन्त्री मोदी भारतस्य दीर्घतमावधिं यावत् सेवां कृतवान् निर्वाचितः प्रधानमन्त्री जातः
प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतस्य इतिहासे दीर्घतमावधिं यावत् सेवां कृतवान् निर्वाचितः प्रधानमन्त्री अभवत्। श्रीमोदी २०१४ तमस्य वर्षस्य मई-मासस्य २६ दिनाङ्के प्रधानमन्त्रिणः पदस्य शपथं गृहीतवान् आसीत्। सः पण्डितजवाहरलालनेहरूवर्यस्य कीर्तिमानं (रेकॉर्ड) भङ्क्तवान्, येन प्रथमवारं १९५२ तमस्य वर्षस्य मई-मासस्य १३ दिनाङ्के निर्वाचितप्रधानमन्त्रिरूपेण शपथः गृहीतः आसीत्, स च १९६४ तमस्य वर्षस्य मई-मासस्य २७ दिनाङ्कं यावत् पदे आसीत्। निर्वाचितप्रधानमन्त्रिरूपेण पण्डितनेहरूवर्यस्य कार्यकालः ४३९८ दिनानां आसीत्। २०१४ तमस्य वर्षस्य मई-मासस्य २६ दिनाङ्कतः अद्य २०२६ तमस्य वर्षस्य जून-मासस्य १० दिनाङ्कं यावत्, प्रधानमन्त्री मोदीवर्यस्य निरन्तरः कार्यकालः अधुना ४३९९ दिनानां जातः, येन सः भारतस्य इतिहासे दीर्घतमावधिं यावत् सेवां कृतवान् निर्वाचितः प्रधानमन्त्री अभवत्।
प्रधानमन्त्री मोदी भारतस्य दीर्घतमावधिं यावत् सेवां कृतवान् निर्वाचितः प्रधानमन्त्री जातः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
