Fifa world Cup- मोरक्को-ब्राजील देशयोः क्रीडाद्वन्द्वं समं (ड्रॉ) समाप्तम्, स्कॉटलैंड-कतर देशौ विजयी-सफलौ च
हिमसंस्कृतवार्ता। विश्वस्य सप्तमक्रमाङ्कस्य दलेन मोरक्को-देशेन रविवासरे पादकन्दुक-विश्वस्पर्धायां (फुटबॉल वर्ल्ड कप) पञ्चवारं विजेतारं ब्राजील-देशं समपदे (ड्रॉ) रोधितम्। ब्राजील-दलं १९३४ तः स्वस्य उद्घाटन-प्रतियोगितायां (ओपनिंग मैच) न पराजितम् अस्ति। ‘ग्रुप-सी’ इत्यस्य द्वन्द्व-क्रीडायाम् २०२२ वर्षस्य उपांत्यविजेता (सेमीफाइनलिस्ट) मोरक्को-दलम् ‘इस्माइल साइबारी’ इत्यस्य गोलेन अग्रे अभवत्। तथापि, प्रख्यात-अग्रपंक्ति-क्रीडकेन (स्टार फॉरवर्ड) ‘विनिसियस जूनियर’ इत्यनेन कृतेन सुन्दरेण गोलेन ब्राजील-दलेन पुनरागमनं कृत्वा एकः अङ्कः प्राप्तः।
मोरक्को-दलेन आक्रामक-आरम्भः कृतः तथा च २१तमे निमेषे (minute) अग्रता प्राप्ता। ‘नुसैर मजराउई’ इत्यनेन ब्राजील-दलस्य मध्यपंक्ति-क्रीडकात् (मिडफील्डर) ‘लुकास पाकेटा’ इत्यस्मात् कन्दुकं (ball) छित्त्वा ‘ब्राहिम डियाज’ महोदयाय दत्तम्। ततः डियाज इत्यस्य उत्कृष्ट-पासेन (थ्रू बॉल) ‘इस्माइल साइबारी’ त्वरितं धावित्वा गोलरक्षकस्य (गोलकीपर) ‘एलिसन बेकर’ इत्यस्य उपरिष्टात् कन्दुकं प्रक्षिप्य गोलं कृतवान्।
ब्राजील-दलेन ११ निमेषानन्तरं प्रत्युत्तरं दत्तम्। ३२तमे निमेषे ‘विनिसियस जूनियर’ इत्यनेन ‘ब्रूनो गिमारेस’ इत्यनेन सह उत्तमं तालमेलं प्रदर्शितम्। वामभागात् (बाएं फ्लैंक से) अन्तः प्रविश्य तेन दक्षिणपादेन (right foot) तीव्रः प्रहारः कृतः, यः मोरक्को-दलस्य गोलरक्षकं ‘यासीन बूनू’ इत्यं वञ्चयित्वा गोले प्रविष्टः। एषः विनिसियस इत्यस्य अन्तर्राष्ट्रीय-क्रीडाजीवनस्य (international career) दशमः गोलः अस्ति। ब्राजील-दलं अस्मिन् विश्वप्रतिस्पर्धायां २००२ वर्षानन्तरं प्रथमं उपाधिं (खिताब) प्राप्तुं क्रीडति, तथापि दले स्वस्य प्रमुखक्रीडकस्य ‘नेमार’ इत्यस्य अभावः अनुभूतः, यः जङ्घायाः (पिंडली) क्षतात् सुस्थः भवन् अस्ति तथा च अस्यां स्पर्धायां न क्रीडितवान्।

स्कॉटलैंड देशस्य हैती देशोपरि विजयः
पादकन्दुक-विश्वस्पर्धायां अन्यस्मिन् द्वन्द्वे स्कॉटलैंड-दलेन हैती-दलं १-० इत्यनेन पराजितम्। बूस्टन-क्रीडाङ्गणे २८तमे निमेषे ‘जॉन मैक्गिन’ इत्यनेन गोलः कृतः। एषः एव निर्णायकः गोलः सिद्धः अभवत्। स्कॉटलैंड-दलेन ४४ वर्षानन्तरं पादकन्दुकविश्वचषके विजयेन सह आरम्भः कृतः अस्ति। स्कॉटलैंड-दलस्य ‘स्कॉट मैकटॉमिने’ इत्यनेन आरम्भिकेषु निमेषेषु एकः ‘हेडर’ (शिरसा प्रहारः) बहिः क्षिप्तः, ततः तस्य प्रहारः गोल-स्तम्भात् (पोस्ट) ताडयित्वा प्रत्यागतः। २९तमे निमेषे ‘चे एडम्स’ इत्यनेन ‘बेन गैनन-डोक’ महोदयाय पासः दत्तः। तस्य प्रहारं हैती-दलस्य रक्षकेभिः (डिफेंडर्स) रोधितम्, परन्तु कन्दुकः बॉक्स-बहिः स्थिताय ‘जॉन मैक्गिन’ महोदयाय प्राप्तः। मैक्गिन इत्यनेन तीव्रः प्रहारः कृतः, यः प्रतिहतः (डिफ्लेक्ट) भूत्वा गोले प्रविष्टः।
गोल-प्राप्त्यनन्तरं हैती-दलेन पुनरागमनस्य प्रयासः कृतः। ‘रूबेन प्रोविडेंस’ इत्यनेन सुन्दर्ः अवसरः निर्मितः, परन्तु स्कॉटलैंड-दलस्य गोलरक्षकेण ‘एंगस गन’ इत्यनेन सङ्कटः निवारितः। द्वितीयार्धे (second half) अपि मुकाबला तीव्रगत्या अभवत्, तथापि द्वाभ्याम् अपि दलाभ्यां स्पष्टाः अवसराः न प्राप्ताः। मैक्गिन महोदयाय द्वितीयं गोलं कर्तुम् अवसरः आसीत्, परन्तु तस्य प्रहारः लक्ष्यात् (target) च्युतः। क्रीडायाः अन्तिमचरणे हैती-दलेन समपदाय पूर्णः प्रयत्नः कृतः, परन्तु स्कॉटलैंड-दलेन स्वस्य अग्रता रक्षिता तथा च १-० इत्यनेन विजयः प्राप्ता।
कतर देशेन स्विट्जरलैंड दलं समपदे (ड्रॉ) रोधितम्
सांता क्लारा। अन्तिमक्षणेषु ‘बौआलेम खौखी’ इत्यस्य गोलेन कतर-देशेन फुटबॉल-विश्वकप-क्रीडायां स्विट्जरलैंड-दलं १-१ इति समपदे (ड्रॉ) रोधितम्। इंजरी-समयस्य (injury time) चतुर्थे निमेषे ‘हेडर’ माध्यमेन कृतेन अनेन गोलेन कतर-दलं पराजयात् रक्षितम्, स्विट्जरलैंड-दलात् च विजयः छिन्नः। अतः पूर्वं ९० निमेषाणां क्रीडायां स्विट्जरलैंड-दलस्य प्राधान्यम् आसीत्, परन्तु दलं विजयं प्राप्तुं न शक्नोत्। स्विट्जरलैंड-दलाय १७तमे निमेषे अग्रता प्राप्ता। कतर-दलस्य गोलरक्षकेण ‘महमुद अबुनादा’ इत्यनेन ‘ब्रेल एंबोलो’ महोदयः बॉक्स-अन्तः बाधितः (फाउल कृतः), येन निर्णयकेन (रेफरी) दण्डशुल्कं दत्म्। एंबोलो महोदेन अवसरः न त्यक्तः तथा च कन्दुकः गोलपोस्टस्य उपरिभागे प्रक्षिप्य दलं १-० इत्यनेन अग्रे कृतम्। क्रीडायां स्विट्जरलैंड-दलेन कन्दुके उपरि अधिकं नियन्त्रणम् धारितं तथा च बहुवारं गोल-अवसराः निर्मिताः। तथापि कतर-दलस्य रक्षापंक्त्या गोलरक्षकेन च बहवः आक्रमणाः निष्फलाः कृत्वा दलं क्रीडायां रक्षितम्।
Fifa world Cup- मोरक्को-ब्राजील देशयोः क्रीडाद्वन्द्वं समं (ड्रॉ) समाप्तम्, स्कॉटलैंड-कतर देशौ विजयी-सफलौ च
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
