प्रधानमन्त्रिणा नरेन्द्रमोदिना असमे कोलकातायां च विविधाः विकास-परियोजनाः शुभारम्भिताः।
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना कोलकातायां आहत्य अशीत्युत्तर-षडधिक-अष्टादश-सहस्रकोट्यधिक-विविधाः विकास परियोजनाः लोकाय समर्पिताः, शिलान्यसिताः च । अवसरे अस्मिन् प्रवदन् प्रधानमन्त्री प्रोक्तवान् यत् एताः परियोजनाः, पश्चिमबंगाय, पश्चिमीय-भारताय च बहु-लाभप्रदाः भविष्यन्ति। बराक-उपत्यकायाः विकासाय सततं प्रयत्नं करोति तथा च एताभिः परियोजनाभिः व्यापारः यातायातः, वृत्यवसराणि च वर्धिष्यन्ते। तेन सबलं प्रतिपादितं यत् पश्चिम बंगालस्य बहुषु क्षेत्रेषु खडगपुर-मोरेग्राम-एक्सप्रेस-मार्गस्य पूर्णतया आर्थिक गतिविधयः अग्रे सरिष्यन्ति। तेन भणितं यत् केन्द्र-प्रशासनं पश्चिम बंगालस्य रेलवे संसाधन विकासं प्रसृतुं द्रुततया स्वीय-प्रयासाः करोति। इतः प्राक् अस्मिन् एव दिवसे प्रधानमन्त्रिणा नरेन्द्रमोदिना असमे सिल्चरे पञ्चशदोत्तर-पञ्चाशदधिक-त्रयोविंशतिः कोट्यधिक-विविधाः विकास-परियोजनाः शुभारम्भिताः। तेन सिल्वरे अम्बिकापुरे तिसृणां परियोजनानां भूमि-पूजनमपि कृतम्। अस्मिन् अवसरे प्रधानमन्त्री उक्तवान् यत् पूर्वोत्तर-भारतः भारतस्य ‘एक्ट ईस्ट-नीतिः’ इत्यस्य प्रमुखः भागः वर्तते। बराक-उपत्यका-पूर्व-एशियायाः प्रवेश द्वार रूपेण विकसितं भवति। तेन एतदपि उक्तं यत् सर्वकारः बराक उपत्यकायां-द्वि-गति विषये श्रीमोदिना भणितं यत् कांग्रेस-शासनावधौ एताः विकास-परियोजनाः परोक्षि यूताः। अधुना उत्तर-पश्चिमीय एशियायां प्रशासनं द्रुतगत्या कार्यमाचरति। प्रधानमन्त्रिणा भणितं यत् राष्ट्रिय-नागरिकोपरि युद्ध-सम्बद्ध-दुष्प्रभावं अपाकर्तुं प्रशासनं बहु प्रयासरतो विद्यते।
प्रधानमन्त्रिणा नरेन्द्रमोदिना असमे कोलकातायां च विविधाः विकास-परियोजनाः शुभारम्भिताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
