सर्वकारेण गृहेभ्यः, चिकित्सालयेभ्यः, शैक्षणिकसंस्थाभ्यः अन्याभ्यः अत्यावश्यकसेवाभ्यश्व अबाधितरूपेण तैलेन्धनस्य आपूर्तेः आश्वासनं दत्तम् ।
हिमसंस्कृतवार्ता: – सर्वकारेण गृहेभ्यः, चिकित्सालयेभ्यः, शैक्षणिकसंस्थाभ्यः अन्याभ्यः अत्यावश्यकसेवाभ्यश्व अबाधितरूपेण तैलेन्धनस्य आपूर्तेः आश्वासनं दत्तम् अस्ति। तैलशोधन-निगमेषु गार्हस्थ्य-एलपीजी इत्यस्य उत्पादनं त्रिंशत्प्रतिशतात् अधिकं वर्धितम्। पेट्रोलियम-प्राकृतिक-वायवेन्धन-मन्त्रालयस्य संयुक्त-सचिवा सुजाता शर्मा नवदेहल्याम् आयोजितायां पश्चिम-एशियायाः साम्प्रतिक-घटनाक्रमाणाम् अन्तर्मन्त्रालयीय-वार्तायाम् इमां सूचनां दत्तवती । सा उक्तवती यत् उपभोक्तृभ्यः प्राथमिकतया वितरणार्थं राज्यसर्वकारेभ्यः वाणिज्यिक-वायवेन्धन-पात्राणि उपलब्धानि कृतानि सन्ति। सा सूचितवती यत् वाहनेभ्यः लोकोपयोगाय पीएनजी तथा सीएनजी इत्यनयोः आपूर्तिः न्यूनतया विना सुनिश्चिता क्रियते। सर्वान् अल्पशो-विक्रेतून् अपि ईधन-वितरण-समये दिशा-निर्देशानां कठोरतया पालनं कर्तुं निर्देशितम् अस्ति तथा च नियमानाम् उल्लङ्घने सति दृढ-कार्याचरणं भविष्यति। सा एतदपि असूचयत् यत् नियमित-आपूर्तेः उपरि अष्ट-चत्वारिंशत्-सहस्र किलोलीटर-मितस्य केरोसिन इति मृत्तिका-तैलस्य अतिरिक्तम् आवंटनं सर्वेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च प्रदत्तम् अस्ति। मृत्तिका-तैलस्य वितरणं सुकरं कर्तुं जनपद-स्तरीयानि स्थानानि चिह्नीकर्तुं राज्यानि केन्द्रशासितप्रदेशाश्व निवेदिताः सन्ति।
सर्वकारेण गृहेभ्यः, चिकित्सालयेभ्यः, शैक्षणिकसंस्थाभ्यः अन्याभ्यः अत्यावश्यकसेवाभ्यश्व अबाधितरूपेण तैलेन्धनस्य आपूर्तेः आश्वासनं दत्तम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
