शिक्षाक्षेत्रे अनुसंधानस्य विकासः
शिक्षा-राज्यमन्त्री डॉ. सुकान्त मजूमदारः सूचितवान् यत् गतेषु कतिपयेषु वर्षेषु देशे अनुसन्धान-विकासयोः (R&D) उपरि सकल-व्ययः निरन्तरं वर्धते। एषः व्ययः वर्ष २०१०-११ तमे ६० सहस्र-कोटि-रूप्यकेभ्यः वर्धित्वा वर्ष २०२०-२१ तमे १ लक्ष २७ सहस्र-कोटि (1.27 Lakh Crore) रूप्यकेभ्यः अपि अधिकः जातः।
राज्यसभायां एतां सूचनां ददता श्री मजूमदारः उक्तवान् यत् सर्वकारेण गतेषु पञ्चसु वर्षेषु शिक्षण-अनुसन्धान-नवाचाराणां (Innovation) कृते देशस्य प्रमुख-तान्त्रिक-शिक्षणसंस्थाभ्यः ९९ सहस्र-कोटि (99,000 Crore) रूप्यकेभ्यः अधिका राशिः स्वीकृता। एतासु संस्थासु आईआईटी (IIT) तथा एनआईटी (NIT) सदृशाः प्रमुखाः शिक्षणसंस्थाः सम्मिलिताः सन्ति।
शिक्षाक्षेत्रे अनुसंधानस्य विकासः-शिक्षा-राज्यमन्त्री डॉ. सुकान्त मजूमदारः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
