संस्कृत-महाविद्यालय: क्यार्टू इत्यत्र वार्षिक-पारितोषिक-वितरण-समारोहः सोत्साहं सम्पन्नः
राजकीय-संस्कृत-महाविद्यल: क्यार्टू इत्यत्र महता उत्साहेन वार्षिकपारितोषिकवितरण-समारोहः आयोजितः। अस्मिन् कार्यक्रमे हिमाचल-प्रदेश-संस्कृत-अकादमी इत्यस्या: पूर्व-सचिवाः डॉ. केशवानन्दकौशलमहोदयाः मुख्यातिथिरूपेण तथा च पूर्व-प्राचार्याः डॉ. लीलाधरवात्स्यायनमहोदयाः विशिष्टातिथिरूपेण उपस्थिताः आसन्। कार्यक्रमस्य अध्यक्षताम् अस्यैव महाविद्यालयस्य पूर्व-साहित्याचार्याः आचार्या: कलीरामशर्ममहोदयाः अकुर्वन्।

समारोहस्य शुभारम्भः पारम्परिकरीत्या दीपप्रज्ज्वालनेन सरस्वतीवन्दनया च अभवत्। महाविद्यालयस्य प्राचार्याः डॉ. राकेशकुमारशर्ममहोदयाः सर्वेषामभ्यागतानां स्वागतं कृतवन्तः वार्षिकप्रतिवेदनं च प्रस्तुतवन्तः। अवसरेऽस्मिन् महाविद्यालयस्य छात्रैः अनेकाः मनोमोहक-सांस्कृतिक-प्रस्तुतयः प्रदर्शिताः। मुख्यातिथिभिः समग्रेऽपि वर्षे आयोजित-शैक्षिक-सांस्कृतिक-क्रीडा-गतिविधिषूत्कृष्ठ-प्रदर्शनं कृतवन्तः मेधाविनः छात्राः पुरस्कृता:। अस्य सत्रस्य सर्वेश्रेष्ठच्छात्रपुरस्कारम् अक्षय: सर्वश्रेष्ठच्छात्रापुरस्कारं च रीतिका प्राप्नुताम् ।महाविद्यालयस्य पूर्व-व्याकरणाचार्याणां स्वर्गीयानां श्रीमतां जीवनलाल-शर्म-महोदयानां धर्मपत्नी श्रीमती हेमलता-शर्मा महोदया प्रतिवर्षमिव वार्षिक-परीक्षासु प्रथम-द्वितीय-स्थानं प्राप्तवद्भ्यः छात्रेभ्यः छात्रवृत्तिं प्रदत्तवती। मुख्यातिथयः डॉ. केशवानन्दकौशलमहोदयाः अपि आगामि-परीक्षासु प्रथम-स्थानभाग्भ्य: छात्रेभ्यः पुरस्कार-राशिं प्रदातुं घोषणां कृतवन्तः। कार्यक्रमस्य कुशल-सञ्चालनं डॉ. गिरीशकुमारशर्मा डॉ. भावना चेत्येताभ्यां कृतम्। डॉ.सन्तोषकुमार: सर्वेषामागतानां अतिथीनां धन्यवादं ज्ञापितवान्।
समारोहेऽस्मिन् डॉ.ऋतेश कुमारः, डॉ.मोहनलाल आजादः, श्रीकेदारसिंहः, डॉ. वेदप्रकाशपाण्डेयः, डॉ. लोकपालशर्मा, डॉ.इतिशर्मा, सुश्री: ममता, डॉ.सुनीलदत्तः, आचार्य: लेखराजशर्मा, श्रीरमेशशर्मा, श्रीमतीसीमा, श्रीमती मीना, श्रीमती मीरा, श्रीनवलकिशोरः, श्रीसुरेशकुमारः, श्रीखेमचन्दः, श्रीदिवाकरदत्तशर्मा चेत्यादयः गणमान्याः प्रबुद्धजनाः उपस्थिताः आसन्।
वार्ता प्रेषक:-डॉ.सन्तोषकुमार:
