By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्
संस्कृतगतिविधयः

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/03/11 at 8:29 AM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्

नलबारी, असम:

अद्य असमप्रदेशस्य प्रतिष्ठितस्य कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालयस्य सर्वदर्शनविभागे एका नूतना उपलब्धिः पञ्जीकृता। विभागे ‘कैवल्यमञ्जरी’ इति नाम्नः भित्तिपत्रिकायाः (Wall Magazine) समुद्घाटनं सोत्साहं सम्पन्नम्।

अस्याः पत्रिकायाः उद्घाटनं विश्वविद्यालयस्य माननीयैः कुलगुरुभिः आचार्यैः प्रह्लाद रा.जोशीमहोदयैः स्वकरकमलैः कृतम्। अस्मिन् अवसरे कुलगुरुमहोदयाः पत्रिकायाः प्रशंसां कुर्वन्तः उक्तवन्तः यत् ईदृशाः प्रयासाः छात्राणां बौद्धिकविकासाय अत्यन्तं आवश्यकाः सन्ति। अस्याः भित्तिपत्रिकायाः मुख्यविषयः ‘जन्म-जन्मान्तरवादः’ अस्ति ।पत्रिकायाम् श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन प्रतिपादितस्य जन्मान्तरवादस्य गम्भीरं विवेचनं कृतम् अस्ति। तत्रैव सर्वेषाम् आस्तिक-नास्तिक-दर्शनानां मतानुसारं जन्मान्तरवादस्य स्वरूपं स्पष्टीकृतम्। तत्र सांख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्त-चार्वाक-बौद्ध-जैनदर्शनानुसारं जन्मान्तरप्राप्तेः विषये प्रतिपादितम्।अपि च, उपनिषत्सु वर्णितस्य जन्मान्तरविषयस्य अपि अत्र सुन्दरं प्रतिपादनं दृश्यते। इतोपि पुण्यपापकर्मणां तत्फलभोगविषये च अपि प्रतिपादितमासीत्।

अस्य दार्शनिकविषयस्य उपरि प्रकाशनं विभागस्य विद्यार्थिभिः कृतम्। तैः अतीव सम्यक्तया विषयस्य समुस्थापनं कृत्वा दर्शनस्य गम्भीरतत्त्वावबोधः अपि विस्तरेण कारितः। तत्र निर्णायकमण्डल्या अपि बहवः प्रश्नाः कृताः येषां सम्यक् समाधानं छात्रैः विधत्तम्।

अस्मिन् उद्घाटनावसरे सर्वदर्शनविभागस्य अध्यक्षः आचार्य: रणजीतकुमारतिवारी महोदयः, विभागीयाध्यापिका आचार्या उमामाहेश्वरी बी, सुश्रीलोपामुद्रागोस्वामी तथा अन्ये अतिथ्यध्यापकाः, शोधछात्राः अन्ये छात्राः च बहुसंख्यया उपस्थिताः आसन्। सर्वे छात्राः अस्याः पत्रिकायाः माध्यमेन दार्शनिकविषयान् पठित्वा लाभान्विताः भविष्यन्ति। अयं कार्यक्रमः विश्वविद्यालयस्य शैक्षणिकवातावरणं अधिकं सुदृढं करोति।

You Might Also Like

राधाकृष्णन-दर्शनम्: शाश्वतम् समसामयिकं च – अन्ताराष्ट्रिय-संगोष्ठी आयोजिता

काञ्चीधाम्नि अखिलभारतीयशास्त्रोत्सवस्य भव्योद्घाटनम्: देशस्य कोणात् शतशः छात्राणां प्रतिभागिता

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये नूतने “सम-उपाचार्या” पदे आचार्यमल्लिकाकलितायाः नियुक्तिः: सर्वैः विभागैः अभिनन्दनम्”

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये ग्रन्थोन्मोचनम्

पी.एम.जी.एस.वाई. (PMGSY): ग्रामीणमार्गाणां कृते अप्रैल-मासस्य १५ दिनाङ्कात् पूर्वं निविदाः (Tenders) आवश्यकाः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये नूतने “सम-उपाचार्या” पदे आचार्यमल्लिकाकलितायाः नियुक्तिः: सर्वैः विभागैः अभिनन्दनम्”
Next Article काञ्चीधाम्नि अखिलभारतीयशास्त्रोत्सवस्य भव्योद्घाटनम्: देशस्य कोणात् शतशः छात्राणां प्रतिभागिता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?