भारतं ‘महिला-नेतृत्व-विकासः’ इति मन्त्रेण सह अग्रे वर्धते-: राष्ट्रपतिः द्रौपदी मुर्मुः
राष्ट्रपतिः द्रौपदी मुर्मु उक्तवती यत् भारतं ‘महिला-नेतृत्व-विकासः’ इति मन्त्रेण सह अग्रे सरति। नवदिल्ल्यां आयोजिते ‘नारी तू नारायणी – महिला-चिन्तकानां राष्ट्रिय-सम्मेलनम्’ इत्यस्य समापनसत्रे सम्बोधनं कुर्वती राष्ट्रपति-मुर्मु महोदया नारीशक्तेः प्रत्येकं पक्षम् अनुकरणीयं कर्तुम् आग्रहं कृतवती। राष्ट्रपति-मुर्मु महिलानां प्रति रूढिवादं असमानतां च दूरीकर्तुम् अपि आह्वानं कृतवती। राष्ट्रपति-मुर्मु महोदया अवदत् यत् सर्वकारः महिलानां शैक्षिक-आर्थिक-सशक्तीकरणाय अनेकानि पदानि गृह्णाति। सा समाजात् महिलानां प्रति रूढिवादं असमानतां च दूरीकर्तुम् अपि आह्वानं कृतवती। राष्ट्रपतिः उक्तवती यत् भारते महिलाः स्वरोजगारात् आरभ्य सशस्त्रबलेषु च विभिन्नक्षेत्रेषु महत्त्वपूर्णं योगदानं यच्छन्ति, क्रीडाजगति अपि नूतनान् वैश्विक-मानकान् स्थापयन्ति। सा अवदत् यत् समर्पणं, सेवा, राष्ट्रवादः, शौर्यं, धैर्यं, प्रतिभा च इत्यादिषु गुणेषु महिलाः पुरुषैः समानाः सन्ति।सा एतदपि उल्लिखितवती यत् उच्चशिक्षणसंस्थानां दीक्षान्तसमारोहेषु उत्कृष्टप्रदर्शनाय पदकं प्राप्नुवतीनां छात्राणां संख्या प्रायः छात्रेभ्यः अधिका भवति।अस्य द्विदिवसीय-सम्मेलनस्य उद्देश्यं भारते महिलानां परिवर्तमानायाः भूमिकायाः उत्सवम् आचरितुं तस्मिन् विचारं कर्तुं च आसीत्। अस्मिन् नार्याः सामाजिकभागिन्याः सकाशात् ज्ञान-नेतृत्व-करुणा-शक्ति-प्रतीकत्वं प्रति यात्रां प्रकाशितम् अस्ति।
भारतं ‘महिला-नेतृत्व-विकासः’ इति मन्त्रेण सह अग्रे वर्धते-: राष्ट्रपतिः द्रौपदी मुर्मुः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
