By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आधुनिक-युद्धप्रौद्योगिक्याः नूतन-संकटानां च मध्ये सशस्त्र-बलानाम् आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः : रक्षामन्त्री राजनाथ सिंहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > आधुनिक-युद्धप्रौद्योगिक्याः नूतन-संकटानां च मध्ये सशस्त्र-बलानाम् आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः : रक्षामन्त्री राजनाथ सिंहः
राष्ट्रीयवार्ताः

आधुनिक-युद्धप्रौद्योगिक्याः नूतन-संकटानां च मध्ये सशस्त्र-बलानाम् आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः : रक्षामन्त्री राजनाथ सिंहः

डॉ.अमनदीप शर्मा
Last updated: 2026/11/13 at 7:49 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

आधुनिक-युद्धप्रौद्योगिक्याः नूतन-संकटानां च मध्ये सशस्त्र-बलानाम् आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः : रक्षामन्त्री राजनाथ सिंहः
नवदेहली। रक्षामन्त्री राजनाथ सिंहः गुरुवासरे उक्तवान् यत् तीव्रगत्या परिवर्तमानायाः युद्ध-प्रौद्योगिक्याः नूतनानां सुरक्षा-सङ्कटानां च मध्ये भारतीय-सशस्त्र-बलैः स्वकीयाः आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः। अत्र वायुसेनायाः शीर्ष-सेनानायकानां (कमांडराणां) सम्मेलनं सम्बोधयन् रक्षामन्त्री अवदत् यत् भविष्यस्य युद्धे शत्रवे प्रत्युत्तर-आक्रमणस्य समयः न दातव्यः तथा च स्वयम् अपि प्रत्येकम् अप्रत्याशितम् आक्रमणं सम्मुखीकर्तुं सज्जं भवितव्यम् इति अतीव आवश्यकम् अस्ति।एतदर्थं सः गुप्तचर-निरीक्षणे, प्रौद्योगिकी-श्रेष्ठतायां, त्रिषु सेनासु (थल-जल-वायुसेनासु) च उत्तम-समन्वये बलं दत्तवान्। सः उक्तवान् यत् आधुनिकं युद्धम् अधुना पारम्परिक-युद्धक्षेत्राणि यावत् सीमितं नास्ति। प्रक्षेपणास्त्राणि (मिसाइल), मानवरहित-विमानानि (ड्रोन) उन्नत-शस्त्र-प्रणाल्यः च युद्धस्य दिशां परिवर्तयन्ति। तेन ‘कामिकेज-ड्रोन’, निरीक्षणं तथा च ड्रोन-निरोधक-अभियानानि इत्यादीनां आव्हानानां कृते सज्जैः भवितुं निर्देशः दत्तः।रक्षामन्त्री सिंहः वायुसेनायै इलेक्ट्रॉनिक, साइबर, अन्तरिक्ष-क्षेत्रेषु च युद्धस्य नूतनां रणनीतिम व्यवस्थां च विकसितुम् आवश्यकतां प्रतिपादितवान्। सः अवदत् यत् भविष्यस्य विजयः केवलं विमानानां सङ्ख्यया न निर्धारयिष्यते, अपितु तकनीकी-क्षमता, प्रतिक्रियायाः गतिः, सटीक-सज्जता च निर्णायिकाः भविष्यन्ति। प्रत्येकस्यां परिस्थितौ योद्धुं वायुसेना पूर्णतया सज्जा अस्ति इति तेन कथितम्।अस्मिन् अवसरे रक्षामन्त्रिणा सैनिकानां नूतन-प्रौद्योगिक्याः प्रशिक्षणे युवानाम् ‘अग्निवीराणां’ तकनीकी-ज्ञानस्य च उत्तम-उपयोगे अपि बलं दत्तम्। सः सूचितवान् यत् सशस्त्र-बलेभ्यः प्राप्तानां परामर्शानाम् आधारेण अग्निवीराणां कृते ‘द्वितीय-सेवा-अवधेः’ (सेकंड टूर ऑफ ड्यूटी) निर्णयः स्वीकृतः अस्ति।

You Might Also Like

जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्

आतङ्कवादं त्यक्त्वा समस्यायाः समाधानाय वार्तायाः मार्गम् अवलम्बताम् पाकिस्तानम्; कश्मीरः भारतस्य अङ्गम् आसीत्, अस्ति, सर्वदा च भविष्यति : डॉ. फारूख अब्दुल्ला

विदेशी-न्यायालयेन प्रदत्तः विवाह-विच्छेदः भारते स्वयमेव मान्यः न भविष्यति

परिसीमन-विधेयकं (डिलिमिटेशन बिल) पारयितुं शीघ्रमेव संसदि विशेष-सत्रम् आह्वयितुं शक्नोति मोदी-सर्वकारः

देशं २०४७ तमवर्षं यावत् विकसितराष्ट्रं निर्मातुं लक्ष्यम् : प्रधानमन्त्री नरेन्द्रमोदी

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article विदेशी-न्यायालयेन प्रदत्तः विवाह-विच्छेदः भारते स्वयमेव मान्यः न भविष्यति
Next Article आतङ्कवादं त्यक्त्वा समस्यायाः समाधानाय वार्तायाः मार्गम् अवलम्बताम् पाकिस्तानम्; कश्मीरः भारतस्य अङ्गम् आसीत्, अस्ति, सर्वदा च भविष्यति : डॉ. फारूख अब्दुल्ला
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?