सर्वकारेण तैलशोधनशालाः एलपीजी-उत्पादनं वर्धयितुं निर्दिष्टाः-; सिलिण्डर-आरक्षणस्य अन्तरालं पञ्चविंशति (२५) दिनानि कृतम्
सर्वकारेण तैलशोधनशालाभ्यः एलपीजी (LPG) उत्पादनं वर्धयितुं तथा अतिरिक्तम् उत्पादनं गृह-उपयोगाय उपलब्धं कारयितुं निर्देशाः दत्ताः। एतत् पदं वर्तमान-भू-राजनैतिक-तनावस्य तथा इन्धन-आपूर्तौ प्रतिबन्धानां दृष्ट्या उत्थापितम्। पेट्रोलियम-प्राकृतिकगैस-मन्त्रालयेन सामाजिक-माध्यमेषु सूचितं यत् सर्वकारेण घरेलु-उपभोक्तृभ्यः एलपीजी-आपूर्तिः प्राथमिकतायाम् स्थापिता। अपि च, सञ्चयकरणं (Hoarding) कृष्णविपणनं (Black marketing) च रोद्धुं द्वयोः सिलिण्डर-आरक्षणयोः मध्ये अन्तरालं वर्धयित्वा पञ्चविंशति (२५) दिनानि कृतम्।
सर्वकारेण तैलशोधनशालाः एलपीजी-उत्पादनं वर्धयितुं निर्दिष्टाः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
