प्रधानमन्त्रिणा नवदिल्ल्यां विकासकार्याणां शिलान्यासः उद्घाटनं च कृतम्
प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां विविधानां विकासकार्याणां शिलान्यासं उद्घाटनं च कृतवान्। अस्मिन् कार्यक्रमे केन्द्रीय-ऊर्जामन्त्री मनोहरलालः, दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता च उपस्थिताः आसन्। स्वकीये सम्बोधने मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना मेट्रो-योजनायाः विविधानां वीथीनां (Corridors) लोकार्पणं शिलान्यासः च दिल्ल्याः प्रगतये नवीनां गतिं शक्तिं च प्रदास्यति। श्रीमती गुप्ता सूचितवती यत् अस्याः परियोजनायाः अन्तर्गतं विशेषतः ‘पिङ्क-लाईन्’ इत्यस्याः पूर्त्या सह दिल्ल्या अधुना देशस्य प्रथमं पूर्णतः सञ्चालितं ‘रिंग मेट्रो’ तन्त्रं (Network) प्राप्तम्।तया सहैव सा अवदत् यत् ‘मजेन्टा-लाईन्’ इत्यस्याः विस्तारः तथा ‘फेज्-५ए’ अन्तर्गतं ‘सेन्ट्रल विस्टा’ वीथिकायाः ‘गोल्डन-लाईन्’ इत्यस्याः च विस्तारः भविष्यस्य आवश्यकताः दृष्ट्वा उत्थापितं एकं दूरगामि पदम् अस्ति।श्रीमती गुप्ता अवदत् यत् मेट्रो-तन्त्रस्य एषः अभूतपूर्वः विस्तारः यातायातस्य भारं न्यूनीकरिष्यति तथा च प्रदूषणमुक्त-हरित-दिल्ल्याः सङ्कल्पं सुदृढं करिष्यति। मुख्यमन्त्री उक्तवती यत् एताः विकासपरियोजनाः नगरं एकस्याः आधुनिक-वैश्विक-राजधान्याः रूपेण स्थापयितुं मार्गं प्रशस्तं कुर्वन्ति।
प्रधानमन्त्रिणा नवदिल्ल्यां विकासकार्याणां शिलान्यासः उद्घाटनं च कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
