विदेशी-न्यायालयेन प्रदत्तः विवाह-विच्छेदः भारते स्वयमेव मान्यः न भविष्यति; भारतीय-विधि-नियमानां पालनम् अनिवार्यम् इति सर्वोच्च-न्यायालयस्य निर्णयः
नवदेहली। विदेशी-न्यायालयेन प्रदत्तः विवाह-विच्छेदः (तलाक) भारते स्वयमेव वैधः न भविष्यति। सर्वोच्च-न्यायालयेन स्पष्टीकृतं यत् एतदर्थं भारतीय-विधि-नियमानां शर्तानां पूरणम् अनिवार्यम् अस्ति। यदि एवम् न क्रियते, तर्हि द्वितीय-विवाहं कुर्वाणस्य जनस्य उपरि द्विविवाहस्य (बिगैमी) अभियोगः प्रचलितुं शक्नोति।सर्वोच्च-न्यायालयस्य न्यायमूर्तेः प्रशान्त-कुमार-मिश्रस्य न्यायमूर्तेः चन्द्रशेखरस्य च पीठेन स्पष्टं कृतं यत् भारतीय-विधिनुसारं सम्पन्नं विवाहं समापयितुं विदेशी-न्यायालयस्य निर्णयः अपि भारतस्य वैधानिक-नियमेषु उपयुक्तः भवेत्। एतदर्थं ‘सिविल-प्रक्रिया-संहितायाः’ (सी.पी.सी.) त्रयोदश-धारायाम् (धारा १३) उल्लिखितानां शर्तानां पूरणम् अपि आवश्यकम् अस्ति। न्यायालयेन कथितं यत् यदि विवाहः ‘हिन्दू-विवाह-अधिनियमः, १९५५’ इत्यस्य अन्तर्गतं सम्पन्नः अस्ति, तर्हि विदेशी-न्यायालयेन केवलम् अनेन आधारेण प्रदत्तः विवाह-विच्छेदः भारते मान्यः न भविष्यति यत् विवाहः पूर्णतया भग्नः अस्ति। भारतीय-विधौ एतत् विवाह-विच्छेदस्य वैधः आधारः न स्वीकृतः अस्ति।अस्य तात्पर्यम् इदम् अस्ति यत् कोऽपि जनः विदेशी-न्यायालयात् विवाह-विच्छेदं प्राप्य इदं न चिन्तयेत् यत् भारते अपि तस्य प्रथमः विवाहः समाप्तः अभवत्। तेन इदं द्रष्टव्यं भविष्यति यत् यस्मिन् आधारे विवाह-विच्छेदः प्राप्तः, सः आधारः भारतीय-विधौ अपि मान्यः अस्ति अथवा न। सर्वोच्च-न्यायालयेन इदमपि स्पष्टीकृतं यत् विदेशी-विवाह-विच्छेदस्य आज्ञप्तिः (डिक्री) द्विविवाहस्य प्रकरणे रक्षणस्य मार्गः भवितुं न शक्नोति। यदि कोऽपि जनः भारते सम्पन्नं प्रथमं विवाहं भारतीय-विध्यानुसारम् असमाप्य विदेशी-विवाह-विच्छेदस्य आधारेण द्वितीयं विवाहं करोति, तर्हि तस्य विरुद्धम् आपराधिकः अभियोगः प्रचलितुं शक्नोति। अयं नियमः तस्याम् अवस्थायाम् अपि प्रवर्तितुं शक्नोति, यदा कोऽपि जनः विवाहात् परं विदेशस्य नागरिकतां स्वीकृतवान् स्यात्। तत्र विवाह-विच्छेदं कृत्वा द्वितीय-विवाह-करणेन भारते प्रथमः विवाहः स्वयमेव समाप्तः न भविष्यति, अपितु भारतीय-विधिनुसारं सः विवाहः वैधः एव तिष्ठति।
विदेशी-न्यायालयेन प्रदत्तः विवाह-विच्छेदः भारते स्वयमेव मान्यः न भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
