पी.एम.जी.एस.वाई. (PMGSY): ग्रामीणमार्गाणां कृते अप्रैल-मासस्य १५ दिनाङ्कात् पूर्वं निविदाः (Tenders) आवश्यकाः; लोकनिर्माणविभागेन निर्दिष्टाः निर्देशाः
हिमाचलप्रदेशे ‘प्रधानमन्त्री-ग्राम-सडक-योजनायाः’ चतुर्थचरणे निर्मीयमाणानां ग्रामीणमार्गाणां समयसीमा (Deadline) निश्चिता कृता। लोकनिर्माणविभागेन (PWD) अप्रैल-मासस्य १५ दिनाङ्कात् पूर्वं सर्वेषां मार्गाणां निविदाः निर्गन्तुं आदेशाः दत्ताः। अप्रैल-मासतः योजनायाः चतुर्थचरणः आरप्स्यते। अतः कार्यं समये आरब्धुं शक्येत, इति विचार्य लोकनिर्माणविभागस्य प्रमुख-अभियन्तृ-कार्यालयेन एते आदेशाः निर्गताः। उल्लेखनीयं यत् अस्याः योजनायाः चतुर्थचरणे प्रदेशे २९४ मार्गाणां निर्माणं भविष्यति। एतेषु बिलासतपुरे ०४, चम्बामण्डले ६५, हमीरपुरे ०२, काङ्गड़ामण्डले १२, किन्नौरे ०८, कुल्लूमण्डले ६५, लाहौल-स्फीतौ ०२, मण्ड्यामं २३, शिमलामण्डले ९७, सिरमौरे ११, सोलने ०३ तथा ऊनामण्डले मार्गद्वयं (०२) निर्मीयन्ते। केन्द्रस्य ग्रामीणविकासमन्त्रालयेन मार्गनिर्माणाय २२४७.२४ कोटिरूप्यकाणां राशिः स्वीकृता, येन १५३८ किलोमीटर् दीर्घाणां मार्गाणां निर्माणं भविष्यति। अपरपक्षे, लोकनिर्माणविभागेन राज्ये ‘पी.एम.जी.एस.वाई.’ अन्तर्गतं नूतनमार्गाणां कृते मार्च-मासे एव निविदा-प्रक्रिया आरब्धा। प्रमुख-अभियन्तृ-कार्यालयेन मुख्य-अभियन्तारः १५ अप्रैल-पर्यन्तं एतत् कार्यं पूर्णं कर्तुं आदिष्टाः। ज्ञातमस्ति यत् अस्मिन्नेव सप्ताहे दिल्ल्यां ग्रामीणविकासमन्त्रालये एकम् उपवेशनं (Meeting) भविष्यति, यत्र मन्त्रालयेन चतुर्थचरणस्य निर्माणकार्याणां प्रतिपुष्टिः (Feedback) स्वीकरिष्यते। अतः समये निविदाः निर्गन्तुं विभागः अतीव गम्भीरतया कार्यं करोति।
पी.एम.जी.एस.वाई. (PMGSY): ग्रामीणमार्गाणां कृते अप्रैल-मासस्य १५ दिनाङ्कात् पूर्वं निविदाः (Tenders) आवश्यकाः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
