जन-औषधि-परियोजना ‘विकसित-भारतस्य’ निर्माणे सहायिका-: जगत-प्रकाश-नड्डा
केन्द्रीय-रसायन-उर्वरक-मन्त्री जगत-प्रकाश-नड्डा उक्तवान् यत् ‘प्रधानमन्त्री-भारतीय-जन-औषधि-परियोजना’ जन-औषधि-केन्द्राणां माध्यमेन स्वरोजगारस्य अवसरान् प्रदाय २०४७ पर्यन्तं ‘विकसित-भारतस्य’ परिकल्पनायां योगदानं ददाति। नवदिल्ल्याम् अष्टम-जन-औषधि-दिवसस्य अवसरे श्री नड्डा महोदयः एतं कार्यक्रमं सुदृढं कर्तुं बलं दत्तवान्। सः अवदत् यत् उच्च-गुणवत्तायुक्त-जेनेरिक्-औषधीनां सुनिश्चितता, जनेषु जागरूकतां वर्धयित्वा, सर्वेषु केन्द्रेषु औषधीनां निरन्तर-उपलब्धये आपूर्ति-शृङ्खलायाम् (Supply Chain) परिष्कारं कृत्वा, चालकानां कृते स्थिर-लाभांशस्य प्रतिभूतिं (Guarantee) दत्त्वा च एषा परियोजना सुदृढा कर्तुं शक्यते। अनेन देशव्यापीनां उद्यमिनां कृते एषः उपक्रमः सफलः तिष्ठेत्। श्री नड्डा महोदयः सूचितवान् यत् अष्ट-सहस्राधिकानि (८०००+) जन-औषधि-केन्द्राणि महिलाभिः सञ्चाल्यन्ते। एतत् दर्शयति यत् इयं योजना महिलाः सफलाः उद्यमिन्यः कर्तुं कथं समर्थाः अकरोत्। केन्द्रीय-रसायन-उर्वरक-राज्यमन्त्री अनुप्रिया पटेल अपि देशे महिला-उद्यमिनां सबलीकरणाय अस्याः परियोजनायाः महत्त्वपूर्णां भूमिकां प्रतिपादितवती। सा उक्तवती यत् जन-औषधि-परियोजना न केवलं सुलभानां औषधीनां प्राप्यतां सुनिश्चितं करोति, अपितु महिलानां कृते जीविकायाः मुख्यान् अवसरान् अपि सृजति।
जन-औषधि-परियोजना ‘विकसित-भारतस्य’ निर्माणे सहायिका-: जगत-प्रकाश-नड्डा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
