बिहारस्य मुख्यमन्त्री नितीशकुमारः राज्यसभानिर्वाचनार्थं नामाङ्कनं कृतवान्।
हिमसंस्कृतवार्ता: – बिहारस्य मुख्यमन्त्री अथ च जे.डी.यू अध्यक्षः नितीशकुमारः राज्यसभानिर्वाचनार्थ नामाङ्कनं कृतवान्। नामाङ्कनमिदं पटनायां बिहार-विधानसभायां सचिवस्य समक्षं कृतम् । केन्द्रीय-गृह-मन्त्री अमितशाहः, भाजपेतिदलस्य राष्ट्रिय अध्यक्षः नितिन नबीनः, बिहारस्य उपमुख्यमन्त्री सम्राट् चौधरी, विजय सिन्हा इत्यादयः वयोवृद्ध-नेतारः उपस्थिताः आसन्। श्री-कुमारः पूर्वमेव अघोषयत् यत् सः आगामि राज्यसभायाः निर्वाचने भागं ग्रहीष्यति, येन बिहारस्य प्रमुखः राजनीतिको विकासो भवेत्। सामाजिकान्तर्जालीय माध्यमे श्री-कुमारः अवदत् यत् बिहार-विधानमण्डलस्य उभयसदनानां अपि च संसदः उभयसदनानां सदस्यः भवितुम् तस्य अभिलाषा आसीत् । विहारस्य जनैः सह तस्य सम्बन्धः इत्थमेव भविष्यति, नूतनसर्वकारस्य पूर्णसमर्थनं मार्गनिर्देशं च करिष्यति इति सः आश्वासितवान् ।
बिहारस्य मुख्यमन्त्री नितीशकुमारः राज्यसभानिर्वाचनार्थं नामाङ्कनं कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
