विश्वयुद्धं पर्यावरणक्षतिः च : एकम् चिन्तनम्
आधुनिकयुगे युद्धं केवलं सीमाविवादाः न सन्ति, अपितु सम्पूर्णं जीवमण्डलं प्रति महान्तं सङ्कटं जनयन्ति। यदा गोलकक्षेपाः (Missiles), विस्फोटकाः, रसायनानि च उपयुज्यन्ते, तदा तस्य मूल्यं केवलं सैनिकाः न, अपितु एषा धरित्री अपि निर्वहति।
१. वायुप्रदूषणं जलवायुपरिवर्तनं च-: युद्धकाले प्रयुक्ताः विस्फोटकाः अनन्तां विषाक्तवायुं (यथा- कार्बन-डाइ-ऑक्साइड्, सल्फर-डाइ-ऑक्साइड्) मुञ्चन्ति। अग्निना दग्धाः वृक्षाः भवनानि च वायुमण्डले ‘ग्रीनहाउस’-वायूनां वृद्धिं कुर्वन्ति, येन ‘ग्लोबल-वार्मिंग्’ (वैश्विक-तापवृद्धिः) तीव्रा भवति।
२. मृदायाः जलस्य च विषाक्तीकरणम्-:युद्धक्षेत्रे प्रयुक्तानि शस्त्राणि, तैलागारेषु प्रहाराः, रासायनिक-आयुधानि च भूमेः उर्वरतां नाशयन्ति। एतानि रसायनानि भूजलमपि दूषयन्ति, यस्य दुष्परिणामः आगामि-दशकेभ्यः प्रकृतौ तिष्ठति।
३. जैवविविधतायाः विनाशः-:युद्धं वन्यजीवानां आवासं छिनत्ति। युक्रेन-रशिया अथवा मध्यपूर्व-युद्धेषु सहस्रशः पशवः-पक्षिणः च मृताः। पारिस्थितिकी तन्त्रस्य (Ecosystem) एषः विनाशः अपूरणीयः अस्ति।
४. नाभीय-विकिरणस्य भयम्-:यदि युद्धे परमाणु-शस्त्राणां प्रयोगः भवति, तर्हि तस्य विकिरणम् (Radiation) न केवलं वर्तमान-पीढिम्, अपितु सहस्रवर्षेभ्यः पृथिवीं निर्जीवां कर्तुं शक्नोति।
५. तैल-भण्डार-विनाशः जलप्रदूषणं च
यदि युद्धे तैल-क्षेत्रेषु (Oil Fields) प्रहाराः भवन्ति, तर्हि तैलस्य प्रज्वालनेन कृष्णवर्णस्य विशालः धूमः आकाशं व्याप्नोति। अनेन सह समुद्रजले तैलस्य प्रसारेण समुद्री-जीवानां विनाशः निश्चितः अस्ति। मध्यपूर्वस्य समुद्री-पारिस्थितिकी (Marine Ecosystem) अनेन अतीव दूषिता भवति।
निष्कर्षः-अतः अद्यतनस्य आवश्यकता अस्ति यत् विश्वसमुदायः ‘पर्यावरण-न्यायस्य’ (Environmental Justice) विचारं कुर्यात्। युद्धस्य व्ययः केवलं वित्तेन न, अपितु प्रकृत्याः विनाशेनापि गणनीयः। शान्तिः एव एकमात्रः मार्गः अस्ति येन वयं स्वस्य उत्तराधिकारिभ्यः एकं सुरक्षितं हरितं च विश्वं दातुं शक्नुमः।”प्रकृतिः रक्षितव्या चेत्, युद्धं त्याज्यम्।”
