रायसीना-संवादः-: भारतस्य वैश्विकभूमिका च
नूतनदेहल्यां प्रधानमंत्री नरेन्द्रमोदी गतदिने रायसीना-संवादस्य एकादशतमं संस्करणम् आरब्धवान्। मुख्यभाषणे फिनलैंड-देशस्य राष्ट्रपतिना आलेक्सांदर-स्तूब महोदयेन उक्तं यत् विकासशीलाः अल्पविकसिताः च देशाः एव भविष्यस्य विश्वव्यवस्थां निश्चितं करिष्यन्ति, अस्मिन् च भारतस्य भूमिका महत्त्वपूर्णा भविष्यति।तेन प्रतिपादितं यत् वैश्विक-शक्ति-सन्तुलनं परिवर्तितम् अस्ति। विकसनशीलानाम् अल्पविकसितानां च देशानां पार्श्वे अर्थव्यवस्था जनसङ्ख्या च इति द्वौ अपि पक्षौ सुदृढौ स्तः। राष्ट्रपतिना उक्तं यत् “पाश्चात्य-प्रभुत्वस्य युगः समाप्तः”, किन्तु पाश्चात्यदेशाः एतद् अवगन्तुं किञ्चित् समयं नेष्यन्ति। सः अङ्गीकृतवान् यत् अद्यतन-विश्वराजनीतौ बहवः प्रबलाः आव्हानाः सन्ति।तेन उक्तं यत् यदि राष्ट्राणि अन्तर्राष्ट्रिय-नियमानां पालनं त्यजन्ति, तर्हि वर्तमान-विश्वव्यवस्था विनष्टा भविष्यति। पाश्चात्यदेशैः एषः प्रयासः करणीयः यत् एकस्मिन् अपूर्ण-विश्वे शक्तेः नियन्त्रणस्य सर्वोत्तमः मार्गः कः अस्ति।राष्ट्रपतिना स्तूब महोदयेन प्रशंसितं यत् भारतं कदापि भ्रमे न अतिष्ठत्, अपितु स्वकीयां विदेशनीतिं व्यावहारिक-विश्वदृष्टिकोणेन आधृतवान्। भारतं स्वं पृथक् न करोति, अस्य शक्तिः च सक्रिय-सहभागितायाम् अस्ति।नूतन-विश्वव्यवस्थायाः निर्माणविषये डॉ. स्तूब महोदयेन उक्तं यत् फिनलैंड-देशस्य नीतिः ‘मूल्याधारित-यथार्थवादे’ स्थिता अस्ति। भारतं तु सहस्रवर्षेभ्यः अस्याः नीतेः पालनं करोति। संयुक्तराष्ट्रसङ्घस्य एकस्य रचनात्मक-सदस्यस्य रूपेण भारतस्य कार्यशैलीतः एतत् स्पष्टं भवति।तेन बलपूर्वकं उक्तं यत् संयुक्तराष्ट्र-सुरक्षापरिषदि भारतं स्थायी-स्थानं प्राप्तुं योग्यम् अस्ति। व्यापारस्य उपयोगः सम्प्रति भू-राजनैतिक-अस्त्ररूपेण क्रियते, अतः अस्मिन् युगे भारतस्य नेतृत्वस्य आवश्यकता वर्तते। सः अवदत् यत् नूतन-तन्त्रज्ञानेन विकसित-विकसनशीलदेशानां मध्ये भेदः न वर्धनीयः।अस्मिन् अवसरे विदेशमन्त्री डॉ. एस. जयशंकरः अवदत् यत् भारतीयाः वैश्विक-जागरूकतां अधिकं विकसयेयुः। आगामि-दिनेषु आयोजिताः चर्चाः नूतन-क्षमतासु, प्रौद्योगिक्याम्, कत्रिम-प्रज्ञायाम् (AI), नूतन-चिन्तने च केन्द्रिताः भविष्यन्ति।
रायसीना-संवादः-: भारतस्य वैश्विकभूमिका च
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
