सी.बी.एस.ई. – पश्चिम-एशिया-क्षेत्रे १०वीं तथा १२वीं कक्षायाः परीक्षाः स्थगिताः
संशोधित-तिथीनां घोषणा शीघ्रमेव भविष्यति; आगामी-परीक्षाणां निर्णयः श्वः समीक्षायाः पश्चात्
नवदेहली-: केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड (C.B.S.E.) इत्यस्य पश्चिम-एशिया-क्षेत्रे मार्च-मासस्य ५ तथा ६ दिनाङ्कयोः आयोज्यमानाः १०वीं (दशमी) एवं १२वीं (द्वादशी) कक्षायाः परीक्षाः स्थगिताः कृताः सन्ति। एतासां परीक्षाणां संशोधिताः तिथयः उत्तरकाले घोषयिष्यन्ते।
बोर्ड-प्रशासनेन उक्तं यत् ७ मार्च-दिनाङ्कात् परं भविष्यन्तीनां परीक्षाणां सन्दर्भे श्वः (आगामि-दिने) स्थितेः समीक्षां कृत्वा उचितः निर्णयः स्वीकरिष्यते। एतेन निर्णयेन खाड़ी-देशेषु (Gulf Countries) स्थिताः छात्राः प्रभाविताः भविष्यन्ति।
सी.बी.एस.ई. – पश्चिम-एशिया-क्षेत्रे १०वीं तथा १२वीं कक्षायाः परीक्षाः स्थगिताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
