युव-चिकित्सक-सम्मानः-: स्वास्थ्यक्षेत्रे नूतन-ऊर्जायाः सञ्चारः
नूतनदेहली-: विज्ञान-प्रौद्योगिकी-मन्त्री डॉ. जितेन्द्रसिंहः नूतनदेहल्यां २६ युव-चिकित्सा-व्यवसायिनः पुरस्कारैः सम्मानितवान्।
अस्मिन् अवसरे सम्बोधयन् डॉ. जितेन्द्रसिंहः अवदत् यत् देशे स्वास्थ्यसेवाः सुदृढाः कर्तुं युव-चिकित्सकान् तेषां वृत्तिजीवनस्य (Career) प्रारम्भिकचरणे एव सम्मानितं करणं अतीव महत्त्वपूर्णं वर्तते। तेन प्रतिपादितं यत् प्रारम्भिकवर्षेषु चिकित्साक्षेत्रस्य जनानां प्रोत्साहनं तेभ्यः उत्कृष्टतां प्राप्तुं तथा च तीव्रगत्या विकसन्त्यां चिकित्साव्यवस्थायां स्वज्ञानस्य निरन्तरं वृद्धये प्रेरणां दास्यति।
चिकित्सापद्धतेः परिवर्तमानं स्वरूपं अधिकृत्य सः उक्तवान् यत् नूतन-तन्त्रांशानां तथा च कृत्रिम-प्रज्ञायाः (Artificial Intelligence) आगमनेन स्वास्थ्यसेवाक्षेत्रे क्रान्तिकारि-परिवर्तनं जायमानं अस्ति।डॉ. जितेन्द्रसिंहः स्पष्टीकृतवान् यत् यद्यपि प्रौद्योगिक्याः कारणतः रोगनिदाने (Diagnosis) उपचारे च महती उन्नतिः अभवत्, तथापि चिकित्साक्षेत्रे भिषजः (चिकित्सकस्य) भूमिका अपरिहार्या एव अस्ति।
युव-चिकित्सक-सम्मानः-: स्वास्थ्यक्षेत्रे नूतन-ऊर्जायाः सञ्चारः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
