By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: असम-राज्ये विधानसभा-निर्वाचनस्य सज्जता-: कांग्रेस-दलेन द्विचत्वारिंशत् (42) अभ्यर्थिनां प्रथमा सूची निर्गता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > असमवार्ता: > असम-राज्ये विधानसभा-निर्वाचनस्य सज्जता-: कांग्रेस-दलेन द्विचत्वारिंशत् (42) अभ्यर्थिनां प्रथमा सूची निर्गता
असमवार्ता:राजनैतिकवार्ता

असम-राज्ये विधानसभा-निर्वाचनस्य सज्जता-: कांग्रेस-दलेन द्विचत्वारिंशत् (42) अभ्यर्थिनां प्रथमा सूची निर्गता

डॉ.अमनदीप शर्मा
Last updated: 2026/03/04 at 7:54 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

असम-राज्ये विधानसभा-निर्वाचनस्य सज्जता-: कांग्रेस-दलेन द्विचत्वारिंशत् (42) अभ्यर्थिनां प्रथम-सूची प्रकटीकृता
प्रियंका गान्धी इत्यस्या: नेतृत्वे पुनः सत्ताप्राप्तये कांग्रेस-दलस्य प्रयास:; गौरव गोगोई जोरहाट-क्षेत्रतः निर्वाचने स्पर्धिष्यते
दिसपुरम्/गुवाहाटी। असम-राज्ये विधानसभा-निर्वाचनस्य कोलाहल: तीव्र: जातः। अत्रत्यासु १२६ (षड्विंशत्यधिक-एकशतम्) सीट-स्थानेषु मार्च-मासस्य अन्ते वा अप्रैल-मासे मतदानं भवितुं शक्नोति। यद्यपि एतद्विषये अधुना पर्यन्तं कापि आधिकारिकी घोषणा न कृता, तथापि तस्मात् पूर्वमेव मङ्गलवासरे कांग्रेस-दलेन द्विचत्वारिंशत् (४२) अभ्यर्थिनां प्रथमा सूची निर्गता। अस्यां सूच्यां पञ्च महिला: अपि सम्मिलिता: सन्ति। प्रख्यातः सांसद: गौरव गोगोई अपि निर्वाचनार्थं नामाङ्कनं प्राप्तवान्; स: ‘जोरहाट’ क्षेत्रतः निर्वाचने स्पर्धिष्यते। तथैव विपक्षी नेता देबब्रत सैकिया ‘नजीरा’ क्षेत्रतः रणक्षेत्रे अवतरिष्यति। अपि च, पूर्व-प्रदेशाध्यक्ष: रिपुन बोरा ‘बारचल्ला’ निर्वाचनक्षेत्रतः स्पर्धाम् अकरोत्।

दशवर्षेभ्य: एनडीए (NDA) सर्वकार:
सम्प्रति असम-राज्ये भारतीय जनता पार्टी (भाजपा) इत्यस्य सर्वकार: अस्ति, हिमन्त बिस्वा सरमा च मुख्यमन्त्री पदे आसीन: अस्ति। विधानसभायां भाजपा-दलस्य ६४ (चतु:षष्टि) विधायका: सन्ति। सहयोगीदलैः सह मिलित्वा एनडीए-पक्षे स्पष्टं बहुमतम् अस्ति। अपरपक्षे, मुख्य-विपक्षी दलस्य कांग्रेस-पक्षस्य पार्श्वे २६ (षड्विंशति) विधायका: सन्ति।
उल्लेखनीयं वर्तते यत् २०२१ तमे वर्षे विधानसभा-निर्वाचने भाजपा-गठबन्धनेन ७५ (पञ्चसप्तति) स्थानानि जित्वा इतिहास: रचित:। एतत् प्रथमवारम् आसीत् यदा असम-राज्ये कश्चन अ-कांग्रेसी गठबन्धन: सन्ततं द्वितीयवारं सर्वकारं निर्मितवान्। राज्ये विगत-दशवर्षेभ्य: भाजपा-शासनं प्रचलति। सत्ताया: बहि: स्थिता कांग्रेस-पार्टी अस्मिन् वारे प्रत्यागमनाय पूर्णशक्तिं प्रयुङ्क्ते। विशेषतः, अस्मिन् पर्याये निर्वाचनस्य दायित्वं स्वयं प्रियंका गान्धी महोदया हस्ते गृहीतवती अस्ति।

You Might Also Like

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः

HP Vidhansabha Session – पुनः सम्मुखं सत्तापक्ष-विपक्षौ, विधानसभा-परिसरे परस्परं विरुद्धं कृतं प्रदर्शनम्

HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः

मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article भारत-वेस्ट इंडीज क्रिकेटस्पर्धा भारतस्य विजयः
Next Article सी.बी.एस.ई. – पश्चिम-एशिया-क्षेत्रे १०वीं तथा १२वीं कक्षायाः परीक्षाः स्थगिताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?