‘Valentine’s Day’ “प्रेमदिवसः”
एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विन:।।
जयत्येकः स्मरो धन्वी द्वैतमेकीकरोति यः।।
अर्थ:- बहवः धनुर्धरा: एकस्य भञ्जनं कृत्वा तस्य द्वौ खण्डौ विभज्यति, किन्तु द्वैतस्य [द्वौ] अद्वैत [एक] यः क्रियते तद् धनुर्धरः केवलं मदनैव अस्ति। तस्य विजय भवतु।
अद्य तु भारतीयसंस्कृत्याः प्रेम्णदिवसः नास्ति। किन्तु सम्पुर्णजगति अद्य प्रेम्णदिवसस्य रुपेण जनाः उत्सवं कुर्वन्ति। भारतेऽपि जनाः प्रेम्णदिवसस्य उत्सव क्रियन्ते किन्तु कदा? तु अस्माकं प्रेम्णदिवसः अस्ति वसन्तपञ्चमी। भारतीयसंस्कृत्या प्रेम्णदिवसः कश्चित् सन्त अथवा देवता न निश्चिता। तत् तु निश्चितम् अस्माकं निसर्गेण। अस्माकमपि प्रेमदेवताऽस्ति तयोः नाम्नी रतिमदनौ। भारतीयजनाः निसर्गं स्वस्यसमीपे अवगम्यते [बुध्यते]। मनुष्ययोन्या जन्मप्राप्तीनन्तरं अस्माकं संस्कृत्या बौद्धीक उन्नतिऽव महत्वपूर्णं मन्यन्ते। माघमासेऽव वसन्तर्तौ पदचिह्नानि वयं द्रष्टुं शक्नुमः। पर्णपातानन्तरं/ मेघान्तानन्तरं वृक्षेषु नूतनानि पर्णानि आगच्छन्ति। एतस्याः सर्वस्याः नवनिर्मित्याः पदरवः अस्ति। एषा नवनिर्मित्या चैतन्यः, नूतनपल्लवः एव प्रेम्ण: प्रतीकोऽस्ति। अस्माकं संस्कृति प्रेमोऽपि देवस्वरूपं मन्यन्ते। प्रेम्ण: देवताऽस्ति मदनः, मदनस्य सम्बन्ध कामेन सह वर्तते। वसन्तपञ्चम्या तः फ़ाल्गुन- शुद्धपौर्णिमापर्यन्तं [कामदेवस्य] एषोऽत्सवः प्रचलते। कामदेवमदनस्य जन्मदिनं वसन्तपञ्चमी। अस्मिन दिने जनाः रतिमदनयो पूजा कुर्वन्ति। प्रेम्णसम्बन्ध रसेणसह अस्ति। रसः आनन्दस्वरूपम् अस्ति। कस्यापि वस्तुनि यदि प्रेम जायते तर्हि तत्र रुच्याः निर्माणं भवति। तत्रैव आनन्दं प्राप्तं भवति। प्रेमरसौ द्वयोऽपि समान्तरकल्पनाऽस्ति। कस्यापि सह यदि प्रेम अभवत् तर्हि जगत् सुन्दरं दृश्यते। रसः आनन्ददायकः एव। आनन्द: सदैव आवश्यकः। केवलं शुद्धानन्द: मनश्शान्तिं प्रदास्यति। क्रोधेऽपि केचित् जनाः आनन्दं प्राप्नुवन्ति, केचित् मदोन्मत्तः भूत्वाऽपि आनन्दं प्राप्नुवन्ति। किन्तु एषानन्दः दीर्घकालिकः न भवति। अनेन कारणेन आनन्दं सदैव शुद्धः, संयमितः बौद्धिकः आवश्यकः। व्यवहारे किमपि प्रेम अशाश्वतेव। प्रेम्ण सम्बन्धः शरीरेण सह युज्यते। सातत्येन प्रेमीव्यक्त्याः [प्रेयसी/ प्रियकर] विचार: मनसि आगच्छति। असौप्रेम्णः प्रक्रिया सम्यक् जानातु। अत्र रुख्मिणी- श्रीकृष्णौ प्रेम्णः उल्लेखम् अत्यावश्यकम्। रुख्मिणी- श्रीकृष्णौ पूर्वाऽयुषि परस्परौ कदापि न दृष्टवन्तौ किन्तु गुणवर्णंनं श्रुत्वा तौ परस्परौ अनुरक्तौ। एतत् प्रेमः शारीरिकं नास्ति तु आत्मिकम् अस्ति। उभौ परस्परौ विवाहितौ। प्रेमजगति सर्वस्वी अयं भिन्नउदाहरणम् इति मे मतम्। केवलं एकस्मिन् दिने ये जनाः प्रेमदिवसं मन्यन्ते, तेषां कृते इदम् उदाहरणं संस्मरणीयम्। भारतीयसंस्कृतौ प्रेम्णस्थानं उच्च: अस्ति। प्रेम एकवारम् अभवत् तत्रैव स्थिताः एतादृशी स्थिती नास्ति। प्रेम्णप्रक्रिया सातत्येन तथा च नैरन्तर्येण प्रचलन अस्ति। अतैव अस्माकं कुटुम्बव्यवस्था श्रेष्ठाऽस्ति।
प्रेमीयुगल यदा विवाहं कुरुतः तदा तयोः प्रेम दम्पत्यजीवने परिवर्तते तदा तयो: प्रेम्णि गभीरताः आगच्छति। तदनन्तरं पुत्रादयः जायन्ते तदा प्रेम्णकेन्द्रबिन्दु: परिवर्तते, पुनश्च अनन्तरं पौत्रादि जायन्ते तदा केन्द्रबिन्दोः परिवर्तनं भवति। एष एव भारतीयसंस्कृतौ प्रेम्णः प्रवासम् अस्ति। अस्माकं भारतदेश: ब्रह्मचारीवात्सायनेन ‘कामसूत्रग्रन्थम्’ लिखित्वा शारीरिकप्रेम्णः महत्वं जनाः बोधितवान्। कामसूत्रस्य श्लोकः पश्यतु-
रक्षन् धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम्।
अस्य शास्त्रस्य तत्वज्ञः भवत्येव जितेन्द्रियः।।
{७.२.५६ }
अस्मानसंस्कृति: धर्मे अर्थे सादृश्यं कामपि पुरुषार्थरुपेण मन्यते। कामस्य परिणति वैवाहिक सुखप्राप्ती अस्ति। खजुराहो मध्ये उत्कीर्णानि पाषाणशिल्पानि अस्मान् शारीरिकप्रेम्णः महात्म्यं कथयति। इयं तु नास्ति कि भारतीयसंस्कृतिं शारीरिकप्रेम्णः महत्त्वं न जानाति किन्तु पाश्च्यातजनाः सादृशं केवलं शारीरिकं प्रेमेव श्रेष्ठः मत्वा एकस्मिन् दिने “प्रेमदिवसस्य’’ समारम्भः न आयोज्यते इति। अस्माकं कृते valentine’s day न आवश्यकम्।
भारतीय जनानां प्रेम वात्सायनस्य कामसूत्रतः प्रारभ्यते। अनन्तरं भगवतः श्रीकृष्णस्य भगवद्गीतायां गत्वा तत्र स्थीयते, स्थित्वा चिन्तयते तदनन्तरं तस्य प्रवासः अनन्तप्रति प्रारप्स्यते। द्वयोः सम्मतिविना प्रेम कदापि न भवति। प्रेम्णप्रवासं शरीरतः अग्रे मनसपर्यन्तं इतोऽपि अग्रे सुबुद्धिपर्यन्तं यदि भवति तर्हि वयं प्रेम्णि शाश्वतानन्दं तथा च रसानुभूति प्राप्नुम् शक्नोति। सद्सदविवेकबुद्ध्या प्राप्तः प्रेम्णानन्द शुद्धं शाश्वतं च। एकस्मिन् समये यदा बहव: जना: आनन्दं लभते तदा असौ आनन्द: दैवी भवति। मित्राणि अहं लेखं कथं लिखितवती? निश्चयेन सूचयतु। अद्य ये जनाः प्रेमदिवस मन्यन्ते तेषां सर्वेषाम् शुभेच्छा:।
डॉ. वर्षा प्रकाश टोणगांवकर
पुणे/ महारष्ट्रम्
