“प्रेम्णः मधुरता”
प्रातःकाले स्नात्वा प्रथमं त्वं किं करोषि? अकस्मात् सा माम् अपृच्छत्। अहम् उत्तरं दत्तवान्- प्रथमम् अहं ईश्वरस्य समक्षं दीपं प्रज्वालयामि। सा अपृच्छत्- ‘किमर्थम्?’ अस्माकं गृहे विद्युत् अस्ति। इदानीं स्वच्छसूर्यप्रकाशोऽपि अस्ति तर्हि ईश्वरस्य समीपे पृथक् दीपः किमर्थम्? मम समीपे अस्य प्रश्नस्य उत्तरं नासीत्।
किञ्चित् चिन्तयित्वा अहम् अवदम्- “यदा अहम् ईश्वरस्य पुरतः स्थितः सन् दीपं प्रज्वालयामि नीराजनं च करोमि तदा मम मनश्शान्तिं लभते”। सा अग्रे अवदत्- इदानीम् अहं यत्किमपि वदामि तत्प्रायः विसङ्गतिपूर्णंम् इति त्वं चिन्तयसि किन्तु सम्यक् अवबोधयतु। प्रत्येकं मनुष्यस्य प्रकृतिर्भिन्ना भिन्ना। वयं यदा कञ्चित् मनुष्यं पश्यामः तदा तस्याऽऽचरणं दृष्ट्वा मनसि किमपि अनुमानं कुर्मः। कश्चन् जनः अस्मभ्यं तत्क्षणमेव रोचते कश्चन च दीर्घकालिकसाहचर्येणापि आकर्षणात् परे भवति प्रत्येकं जनस्य मनः एकम् अद्भुतं रसायनम् अस्ति। केवलं सौन्दर्यं प्रेम्णः कृते पर्याप्तं नास्ति। सौन्दर्यपूर्णः व्यक्तिः यदि दुराग्रही, अहङ्कारी, आत्मश्लाघायुक्तः अस्ति तर्हि अस्य जनस्य साहचर्यं कालान्तरेण जामितापूर्णं निरुत्साहपूर्णञ्च भविष्यति। अन्ततः वयं मनुष्यस्य स्वभावेन सह तिष्ठामः शरीरं तु केवलं निमित्त्तमात्रम्। यदि मनुष्यस्य स्वभावे मृदुता,विनयशीलता, शालीनता च सन्ति तर्हि तस्य साहचर्यम् अतीवमोदकरम् आनंददायकञ्च भासते। त्वं वदसि यदा ईश्वरस्य पुरतः दीपं ज्वालयामि तदा मनः शान्तं भवति। गृहे विद्युद्दीपाः सन्ति तर्हि नीराजनात् [घृतादियुक्तात्] प्रसृतः सात्त्विकः प्रकाशः अस्मान् मोदयति। व्यक्तेः साहचर्योऽपि तथैव। कस्यचित् सौंदर्यं अल्पकालपर्यन्तं दीप्यते? सौंन्दर्यं कतिचननिमिषाणां क्रीड़ाऽस्ति। किन्तु सत्यम् एतत् अस्ति किम् आत्मिकसन्तुष्टिः केवलं देवदीपस्य लघुतेजसा एव लभते। आयुषिऽपि नैके जनाः आगच्छन्ति गच्छन्ति च। केचन जनाः युष्मान् दीपयन्ति, केचन युष्माकं जीवनस्य अन्धकारं दर्शयन्ति। एतेषु सर्वेषु ऋतं प्रेम देवदीपस्य ज्योतिः सदृशं तिष्ठति। नीरवतया प्रज्वलति, मनश्शान्तिं च दास्यति। जगति किमपि शाश्वतं निरन्तरं च नास्ति। किन्तु सात्त्विकं प्रेम निरन्तरम् अस्माभिः सह वर्तते तथा च जीवनं उत्साहपूर्णं करोति। प्रेमविश्वासयोः आधारितः सम्बन्धः चिरस्थायी भविष्यति। व्यवहारस्य नीतिनियमाः यदा प्रेम्णः कृते युज्यन्ते तस्मादेव क्षणात् तस्य सम्बन्धस्य पराभवः निश्चितरूपेण भवति। तमसा आवृत्त्ते प्रकोष्ठे यदा दीपं प्रज्वाल्यते तदा दशसु दिक्षु प्रकाशो भवति तथैव ऋतं प्रेम अपि युष्माभि: सह सदैव तिष्ठति। प्रेम भक्त्याऽपररूपमेव। प्रेम्णि आर्तता अस्ति किन्तु याचना नास्ति। अस्मान् परितः विद्युत्प्रकाशः अस्ति तर्हि वयं देवदीपस्य तेजः नमस्कुर्मः। अस्य किं कारणम्? देवदीपस्य तेजः सात्त्विकम् आत्मीयतापूर्णञ्च अस्ति। एतादृशं निष्पापं, पवित्रं, भावनापूर्णं प्रेम जीवने अमूल्यनिधिरस्ति इति मे चिन्तनम्। किन्तु अद्यत्वे ईदृशं प्रेम अशक्यमेव इति अहं जानामि। अद्य प्रेम्णः भिन्नाः व्याख्याः अहं श्रुतवती। अहं प्रसन्नो भूत्वा हसितवान्।
डॉ. वर्षा प्रकाश टोणगांवकर
पुणे / महाराष्ट्रम्
