By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: छत्रपति शिवाजीमहाराज: – व्यक्तित्वं कृतित्वं च(जयंतीविशेष:)
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > छत्रपति शिवाजीमहाराज: – व्यक्तित्वं कृतित्वं च(जयंतीविशेष:)
दिवसविशेषः

छत्रपति शिवाजीमहाराज: – व्यक्तित्वं कृतित्वं च(जयंतीविशेष:)

डॉ.अमनदीप शर्मा
Last updated: 2026/02/20 at 6:51 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

छत्रपति शिवाजीमहाराज: – व्यक्तित्वं कृतित्वं च(जयंतीविशेष:)

डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी भागलपुर बिहारम्

भारतीयेतिहासे यदा-यदा धर्मसंरक्षणस्य, स्वराज्यस्थापनाया:, राष्ट्राभिमानस्य च आवश्यकता अभवत्, तदा-तदा महापुरुषाः अवतीर्णाः अभवन्। तेषु महनीयतमः, अद्वितीयवीरः, कुशलराजनीतिज्ञः, धर्मनिष्ठः, प्रजावत्सलः च छत्रपति शिवाजी महाराजः आसीत्। सः केवलं एकः क्षत्रियवीरः नासीत्, अपि तु राष्ट्रचेतनायाः प्राणदाता, हिन्दवीस्वराज्यस्य संस्थापकः, लोकनायकः च आसीत्। तस्य जीवनम् आदर्शपूर्णं, प्रेरणादायकं, राष्ट्रोत्थानाय मार्गदर्शकं च आसीत्। शिवाजीमहाराजः 1630 तमे वर्षे फरवरीमासस्य ऊनविंशतिदिनांके शिवनेरीदुर्गे महाराष्ट्रप्रदेशे जन्म अलभत। तस्य पिता शाहजीराजेभोसले नामकः पराक्रमी सेनानायकः आसीत्, माता च जीजाबाईमहोदया धर्मपरायणा, वीरप्रेरणायुक्ता च आसीत्। बाल्यकालादेव जीजाबाईमातुः संस्काराः तस्मिन् राष्ट्रभक्तिं, धर्मनिष्ठां, स्वाभिमानं च आरोपितवन्तः।
रामायणमहाभारतादीनां आख्यानानि श्रुत्वा सः धर्मसंरक्षणाय, अन्यायविनाशाय च संकल्पं कृतवान्। दादाजी कोंडदेवः तस्य शिक्षादीक्षायाः प्रमुखः मार्गदर्शकः आसीत्। अस्त्रशस्त्रविद्या, अश्वारोहणं, युद्धनीति:, दुर्गरचना, प्रशासनकौशलं च बाल्यादेव अधीतवान्।
तस्य जीवनस्य प्रधानलक्ष्यम् “हिन्दवी स्वराज्यम्” इति आसीत्। परकीयशासनस्य अत्याचारात् पीडितानां जनानां उद्धाराय, धर्मसंरक्षणाय च सः स्वराज्यस्थापनाय उद्यतः अभवत्।स:1645 तमे वर्षे रायरेश्वरमन्दिरे स्वराज्यस्थापनस्य शपथं स्वसहचरै: सह कृतवान्। एषः संकल्पः केवलं राजकीयक्रिया नासीत्, अपि तु एकः सांस्कृतिकक्रान्तिः आसीत्।
शिवाजी महाराजस्य सैन्यनीतिः अद्भुता आसीत्। सः “गनिमी कावा” इति नाम्ना प्रसिद्धां छापामारिदतियुद्धनीतिं अवलम्बितवान्। तस्य लघुसैन्येन अपि महत्सैन्यानि पराजितानि। तोरणदुर्गस्य विजयः तस्य प्रथमः महत्त्वपूर्णः विजयः आसीत्। ततः सिंहगड, पुरन्दर, प्रतापगडादीनां दुर्गाणाम् उपरि विजयं प्राप्तवान्। प्रतापगडयुद्धे अफजलखानस्य वधः तस्य साहसस्य प्रतीकः आसीत्। तस्य रणनीतिः सूक्ष्मा, दूरदर्शिता च प्रशंसनीया आसीत्। मुगलसम्राट् औरंगजेब: शिवाजीं स्वबलस्य बाधकरूपेण अपश्यत्। तयोः मध्ये अनेकानि युद्धानि अभवन्।
1666 तमे वर्षे आगरानगरे शिवाजी महाराजः बन्धनं प्राप्य अपि अद्भुतकौशलस्य साहसस्य च प्रदर्शनं कृतवान्। सः फलपेटिकायां लुप्त्वा स्वकीयैः सह निर्गत्य स्वराज्यं पुनः प्रत्यागच्छत्। एषा घटना तस्य धैर्यस्य बुद्धिमत्तायाः च अद्वितीया कथा अस्ति।1674 तमे वर्षे रायगडदुर्गे शिवाजी महाराजस्य भव्यः राज्याभिषेकः अभवत्। सः “छत्रपति” इति उपाधिं प्राप्तवान्। एषः समारोहः केवलं एकस्य राज्ञः अभिषेकः नासीत्, अपि तु हिन्दू-स्वराज्यस्य पुनर्स्थापनाया: प्रतीकः आसीत्।स:
तदा स्वकीयमुद्रां प्रचलितवान्, प्रशासनव्यवस्थां सुदृढीकृतवान्, अष्टप्रधानमण्डलं च संस्थापितवान् ।
शिवाजीमहाराजः कुशलप्रशासकः आसीत्। तेन अष्टप्रधानमण्डलं संस्थाप्य शासनव्यवस्था व्यवस्थितीकृता। तत्र पेशवा (प्रधानमन्त्री), अमात्य (अर्थमन्त्री), सुमन्त (विदेशमन्त्री), सेनापति, सचिव, न्यायाधीश, पण्डितराव, मन्त्रिण: च आसन् । यस्मिन् राज्ये राजस्वव्यवस्था न्यायसंगता आसीत्। तेन कृषकाणां संरक्षणं कृतम्। तेन स्त्रीसम्मानः विशेषतया पालितः। युद्धेषु अपि शत्रुपक्षस्य स्त्रीबालानां संरक्षणं तेन सुनिश्चितं कृतम्।
यद्यपि सः हिन्दुधर्मसंरक्षकः आसीत्, तथापि सः सर्वधर्मसमभावं आचरितवान्। स: मुस्लिमजनानामपि मस्जिदादीनां रक्षणं कृतवान्। तस्य सेनायां विभिन्नधर्मावलम्बिनः आसन्। तस्य दृष्ट्या धर्मः लोककल्याणाय साधनम् आसीत्, न तु वैमनस्यस्य कारणम्।
भारतीयइतिहासे प्रथमवारं सुदृढनौसैन्यं शिवाजीमहाराजेन संस्थापितम्। समुद्रतटे दुर्गाणि निर्मितानि—सिंधुदुर्ग, विजयदुर्गादयः। एतेन विदेशीशक्तीनां प्रभावः न्यूनः कृतः।
व्यक्तित्वस्य वैशिष्ट्यम्
क. अदम्यसाहसम्
ख. धर्मनिष्ठा
ग. राष्ट्रभक्तिः
घ. न्यायप्रियता
ङ. स्त्रीसम्मानपालनम्
च. कुशलराजनीतिः
छ. प्रजावत्सलता
सः न केवलं शस्त्रबलस्य, अपि तु शास्त्रबलस्य अपि सम्मानकर्ता आसीत्। बहव:विद्वांसः, कवयः, साधव: च तेन सम्मानिताः अभवन्। तस्य राज्ये संस्कृतभाषा, मराठीभाषा च उन्नतिम् अगच्छताम्।तेन काव्यसाहित्यस्य, कीर्तनपरम्परायाः च प्रोत्साहनं दत्तम्। अपि च तेन धर्मग्रन्थानां संरक्षणं कृतम्। तेन 1680 तमे वर्षे अप्रैलमासस्य तृतीयदिनांके रायगडदुर्गे तस्य देहावसानम् अभवत्। किन्तु तस्य आदर्शाः, स्वराज्यसंकल्पः, राष्ट्रचेतना च अद्यापि जीवति।
छत्रपति शिवाजीमहाराजःभारतीयेतिहासस्य अमरपुरुषः अस्ति। तस्य जीवनं दर्शयति यत् दृढसंकल्पेन, साहसेन, धर्मनिष्ठया च असम्भवम् अपि सम्भवम् भवति।
तस्य व्यक्तित्वं तेजस्वि, कृतित्वं गौरवपूर्णम्, आदर्शः प्रेरणादायकः च अस्ति। यदा यदा भारतवर्षे स्वाभिमानस्य चर्चा भवति, तदा तदा छत्रपति शिवाजीमहाराजस्य नाम आदरपूर्वकं जना:स्मरिष्यन्ति। अतः वयं सर्वे तस्य आदर्शान् अनुसृत्य राष्ट्ररक्षायै सदैव तत्परा: भविष्याम:। इत्यलम्।

You Might Also Like

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

आधुनिकभारतदेशस्य निर्माणे स्वामीदयानन्दस्य योगदानम्

सरोजिनीनायडूमहोदयाया: व्यक्तित्वं कृतित्वं च (जयंतीविशेष:)

‘Valentine’s Day’ प्रेमदिवसः- डॉ. वर्षा प्रकाश टोणगांवकर

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article भारत-कीनिया देशयोः मध्ये ‘डिजी-लॉकर’ सन्धिः
Next Article प्रधानमन्त्री नैतिक-समावेशी-ए. आई. इत्यस्य कृते ‘मानव’ दूरदृष्टिम् उद्घाटितवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?