भक्तिकालचिन्तकः सन्तरविदासः : एकं समालोचनात्मकम् अध्ययनम्(जयंतीविशेष:)
लेखक:-डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी, भागलपुर,बिहार
भारतीयभक्तिसम्प्रदायः मध्ययुगे सामाजिकधार्मिकचेतनयो: महान् आन्दोलनरूपेण विकसितः। अस्मिन् भक्तिकाले अनेके महापुरुषाः जाताः, ये समाजे व्याप्तान् आडम्बरान्, जातिभेदं, स्पृश्यास्पृश्यं, धार्मिककठोरतां च तीव्रतया प्रतिपाद्य विरोधं कृतवन्तः। तेषु सन्तेषु सन्तरविदासः (रैदासः इत्यपि प्रसिद्धः) विशिष्टस्थानं धारयति।एष:न केवलं भक्तिकालस्य कविः , अपि तु महान् समाजचिन्तकः, मानवतावादी दार्शनिकः, निर्गुणभक्तेः प्रभावशाली प्रवर्तकः च आसीत्।सन्तरविदासः स्वभक्तिकाव्येन, तत्त्वचिन्तनेन, सामाजिकसमानतायाः उद्घोषेण च भारतीयसमाजे नवचेतनां प्रसारितवान्। एतस्य विचाराः अद्यापि समाजसुधारस्य मार्गदर्शकाः सन्ति।
सन्तरविदासः उत्तरभारतस्य काशीक्षेत्रे (वाराणसी) जन्म प्राप्तवान् इति परम्परया स्वीक्रियते। एष: चर्मकारकुले जातः, एतस्मात् कारणात् तस्मिन् काले समाजे निम्नजातिरूपेण एतस्य गणना आसीत्। तथापि सन्तरविदासः जातिभेदस्य बन्धनं न स्वीकारोति स्म। बाल्यावस्थायामेव एतस्य हृदये भक्ति:, करुणा, सत्यनिष्ठा च दृढतया प्रतिष्ठिताः। एष: आजीवनं स्वचर्मकारकार्यं न त्यक्तवान्, यतः हि एतस्य मतम् आसीत् यत् कर्मण: त्यागः न आवश्यकः, अपि तु कर्मे भगवद्भावना एव मुख्यं साधनं भवेत्। भक्तिकाले द्वौ मुख्यौ प्रवाहौ दृश्येते—
सगुणभक्तिः,निर्गुणभक्तिः।सन्तरविदासः निर्गुणभक्तिपरम्परायाः प्रमुखः स्तम्भः आसीत्। एतस्य भक्ति: निराकारब्रह्मणि केन्द्रिता आसीत्। एष: रामं, हरिं, ईश्वरं च न मूर्तिरूपे, अपि तु सर्वव्यापकचैतन्यरूपेण अनुभवति स्म।
रविदासस्य भक्ति: सरलभावप्रधानाः , आडम्बरवर्जिता , मानवमात्रे समदृष्टिसम्पन्ना च आसीत्। सन्तरविदास:
निर्गुणब्रह्मणः उपासकः आसीत्।एतस्य मतानुसारम् ईश्वरः न जात्या सीमितः,न रूपे बद्धः, न कर्मकाण्डेन प्राप्तव्यः वर्तते। ईश्वरः सर्वत्र विद्यमानः, सर्वेषां हृदयेषु वसति। अतः भक्ति: आत्मनः शुद्ध्या एव सम्भवति। सन्तरविदासस्य चिन्तनस्य केन्द्रीयबिन्दुः जातिभेदविरोधः अस्ति। एष: स्पष्टतया घोषयति स्म यत् यदि ईश्वरः सर्वेषु समानः, तर्हि मनुष्येषु भेदः कुतः?
एतस्य दृष्टौ मानवमात्रं समानम्, कर्मणा एव मानवस्य मूल्यांकनं करणीयम्, न जन्मना। एष: कर्मयोगस्य समर्थकः आसीत्। एष: न संन्यासमार्गं, न वनवासं श्रेष्ठं मन्यते स्म। एतस्य मतम् आसीत् यत् स्वकर्मणि स्थित्वा भगवद्भावनया कर्म कुर्वन्
मनुष्यः मोक्षं प्राप्नोति। अयं विचारः गीतादर्शनस्य समीपवर्ती अस्ति।सामाजिकचिन्तने अपि सन्तरविदासस्य चिन्तनों विशिष्टं वर्तते।एतस्य समाजदर्शनं समतामूलकम् आसीत्। एष: वर्णव्यवस्थायाः विकृतस्वरूपस्य विरोधं कृत्वा समाजे समरसतां स्थापयितुं प्रयत्नम् अकरोत्। एष: ईश्वरभक्तिं मानवसेवया एव भवति इति मन्यते स्म। एतस्य दृष्टौ दरिद्रसेवा, दुःखितोपकारः,
दीनरक्षणं एतानि कार्याणि एव ईश्वरभक्तेः लक्षणानि सन्ति।
एतस्य चिन्तनस्य सर्वाधिकं प्रसिद्धं स्वरूपं “बेगमपुरा” इति अवधारणा अस्ति। बेगमपुरा नाम—दुःखरहितं नगरम्,भयशून्यं समाजम्, शोषणजातिभेदवर्जितं राष्ट्रम् इति।अत्र न कोऽपि उच्चः, न नीचः,सर्वे स्वतन्त्राः,सर्वे सुखिनः इति एषा कल्पना आधुनिकलोकतन्त्रस्य, समाजवादस्य च पूर्वरूपा इव दृश्यते।
कार्यक्षेत्र अपि एतस्य योगदानं विशिष्टतमं विद्यते।
एतस्य पदानि सरलभाषया रचितानि, ये सामान्यजनानामपि हृदयंगमानि आसन्। एतस्य काव्ये अलंकारानां प्रदर्शनं न्यूनम्, भावस्य प्राधान्यं अधिकं दृश्यते। एतस्य प्रत्येकं पद्यं केवलं भक्तिगीतं न, अपि तु समाजसुधारस्य घोषणापत्रमिव अस्ति।
अत्रेदं वयं वक्तुं शक्नुमो यत् सन्तरविदासः केवलं स्वयुगस्य चिन्तकः न आसीत्, अपि तु उत्तरकालीनभक्तपरम्परायामपि एतस्य गभीरः प्रभावः दृश्यते। मीराबाईमहोदया एतस्य भक्तिचिन्तनेन प्रभाविताभवत् । उत्तरभारते निर्गुणभक्तेः प्रसारः अभवत् । दलितचेतनायाः आद्यप्रेरक:अपि एष: एव इति विद्वांस: स्वीकुर्वन्ति। आधुनिकपरिप्रेक्ष्ये सन्तरविदासस्य विचारणां प्रासंगिकता विद्यते। आधुनिकभारते जातिभेदः, सामाजिकविषमता, धार्मिकआडम्बरः अद्यापि विद्यमानाः सन्ति। एतादृशे समये सन्तरविदासस्य विचाराः अत्यन्तं महत्त्वपूर्णा: सन्ति।एते विचारा:अस्मान् शिक्षयति यत् मानवता एव सर्वश्रेष्ठ:धर्मो विद्यते । समताभाव: एव समाजस्य आधारःअस्ति। भक्ति: कर्मणि, करुणायां, सत्ये च निहिता अस्ति। अत्र वयं वक्तुं शक्नुम: यत् सन्तरविदासः भक्तिकालस्य न केवलं कविः , अपि तु महान् समाजचिन्तकः, दार्शनिकः, मानवतावादी सुधारकः च आसीत्। एतस्य चिन्तनं आडम्बरमुक्तधर्मं मानवसेवायाः मार्गे स्थापयति।
एष: मानवान् स्मारयति यत् ईश्वरः मन्दिरे न सीमितः,सः मानवहृदये वसति। अतः सन्तरविदासस्य विचाराणां प्रासंगिकता सर्वदा स्थास्यति एव। वयं एतेभ्य: महापुरुषेभ्य: प्रणामांजलिं समर्पयाम:। इत्यलम्।
