केन्द्रीय-आयव्ययके शिक्षायाः सशक्तोऽधारः: भारतीयज्ञानपरम्परायाः उच्चशिक्षायाः विश्वविद्यालय-उपनगराणां च भविष्यति नूतनविस्तारः – प्रो. श्रीनिवास वरखेड़ी
नवदेहली।
केन्द्रीयवित्तमन्त्रिण्या श्रीमत्या निर्मलासीतारमणमहोदयया संसदि प्रस्तुते केन्द्रीय-आयव्ययके-२०२६ मध्ये शिक्षाक्षेत्राय विशेषप्राथमिकता प्रदत्ता अस्ति। शिक्षाक्षेत्रेण सह सम्बद्धानां विविधानां दूरगामिनीनां घोषणानां केन्द्रीयसंस्कृतविश्वविद्यालयेन स्वागतं कृतम्। विश्वविद्यालयेन एताः घोषणाः उच्चशिक्षायाः, भारतीयज्ञानपरम्परायाः, राष्ट्रनिर्माणस्य च दिशि सक्षमाः समन्विताः च उपक्रमाः इति वर्णिताः।
आयव्ययके-२०२६ मध्ये शिक्षा-सशक्तिकरण-उद्यमिताविकासार्थं उच्चस्तरीयसमित्याः गठनं, भारतीयज्ञानपरम्परायाः सुदृढीकरणं, विश्वविद्यालय-आधारित-समग्र-शैक्षणिकविकासः तथा ‘विश्वविद्यालय-उपनगर’ (University Township) इति अवधारणा उच्चशिक्षाक्षेत्रे दूरगामि राष्ट्रोन्मुखं च पदमिति केन्द्रीयसंस्कृतविश्वविद्यालयेन अभिहितम्।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिना प्रो. श्रीनिवास वरखेड़ी महोदयेन उक्तं यत्—
> “यशस्विनः प्रधानमन्त्रिणः श्रीनरेन्द्रमोदीमहोदयस्य मार्गदर्शने तथा केन्द्रीयशिक्षामन्त्रिणः श्रीधर्मेन्द्रप्रधानस्य कुशलनेतृत्वे, अस्मिन् आयव्ययके शिक्षां ज्ञान-कौशल-नवाचार-उद्यमिताभिः सह संयोज्य राष्ट्रनिर्माणस्य प्रभावी माध्यमं कर्तुं स्पष्टा दृष्टिः दृश्यते।”
>
प्रो. वरखेड़ी महोदयेन प्रतिपादितं यत् भारतीयज्ञानपरम्परां राष्ट्रियशिक्षाव्यवस्थायाः केन्द्रे स्थापयितुं निर्णयः भारतस्य प्राचीनायाः समृद्धायाश्च बौद्धिकविरासत्याः संरक्षणाय, संवर्धनाय, वैश्विकप्रतिष्ठायै च ऐतिहासिकं पदमस्ति। अनेन संस्कृत-योग-आयुर्वेद-दर्शन-गणित-खगोलविज्ञानादीनां भारतीयभाषाणां च ज्ञानं समकालीन-अनुसन्धान-नवाचारैः सह संयोज्य जागतिकस्तरे प्रतिष्ठितं भविष्यति।
केन्द्रीय-आयव्ययके शिक्षायाः सशक्तोऽधारः- प्रो. श्रीनिवास वरखेड़ी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
