उच्चन्यायालयपरिसरे गङ्गानाथझापरिसरनिदेशकस्यप्रो. ललितकुमारत्रिपाठिनः सम्माननम्
वार्ताहरौ-डॉ. मूलचन्द्रशुक्ल: डॉ. अभिषेकपाण्डेय:
प्रयागराज:।
उच्चन्यायालयपरिसरे आयोजिते गरिमामये विशेषकार्यक्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य गङ्गानाथझापरिसरस्य कर्मठः, दूरदर्शी,यशस्वी च निदेशकः प्रो. ललितकुमारत्रिपाठी अपरमहाधिवक्ता श्री अशोकमेहता-महाभागस्य अध्यक्षतायां विशिष्टतया सम्मानितः।
अस्मिन् शुभावसरे उच्चन्यायालयस्य अधिवक्तृभिः प्रो. ललितकुमारत्रिपाठिवर्या: अधिष्ठाता शैक्षणिकपदे नियुक्तिप्रसङ्गे हर्षोल्लासपूर्वकमभिनन्दिताः।
संस्कृतभाषाया: संवर्धनं, भारतीयपरम्परायाः संरक्षणं तथा च सांस्कृतिकमूल्यानां पुनरुत्थानं प्रति प्रो. ललितकुमारत्रिपाठि-महोदयेन सततं समर्पणेन कृतानां कार्याणां मुक्तकण्ठेन प्रशंसां कुर्वन् अपरमहाधिवक्ता अशोकमेहतामहोदयः तं भारतीयसंस्कृतेः परम्परायाश्च सशक्तम् उन्नायकमिति निरूप्य संस्कृतभाषां जनमानसे लोकप्रियां कर्तुं तस्य अभिनवप्रयत्नानां विशेषं गौरवं प्रकटितवान्।
तथैव करप्रबन्धनस्य, श्रमशक्तिसमायोजनस्य च क्षेत्रयोः अनुसन्धानकार्येषु छात्रान् माननीय-उच्चन्यायालयस्य अधिवक्तृंश्च प्रेरयितुं प्रो. ललितकुमारत्रिपाठि-वर्याणां यत् योगदानं वर्तते, तत् विशेषतया प्रशंसनीयम् इति तेन प्रतिपादितम्।
असौ आगामिकाले शिक्षा, चिकित्सा तथा न्यायादिक्षेत्रेषु मानवसंसाधनानां यथोचितसमायोजनस्य अत्यावश्यकतां सूचयन्, तदर्थं समन्वितप्रयत्नानामपेक्षां व्यक्तवान्।
कार्यक्रमं सम्बोधयन् प्रो. ललितकुमारत्रिपाठिवर्यः केन्द्रीयसंस्कृतविश्वविद्यालयस्य गङ्गानाथझापरिसरं निरन्तरं ज्ञानयज्ञे प्रवृत्तां संस्थां निरूप्य संस्कृतभाषाया: प्रचार-प्रसाराय, उच्चकोटिशोधकार्याणां सम्पादनाय च निरन्तरं प्रयत्नशील: इति विशदतया वर्णितवान्।
सः शोधकार्येषु सजगता, प्रामाणिकता तथा सामाजिकोपयोगिता इति विषयं प्रतिपादयन् सार्थकं शोधकर्म महान् ज्ञानयज्ञः इति निरूपितवान्।
केन्द्रीयसंस्कृतविश्वविद्यालयेन संस्कृताध्ययनक्षेत्रे क्रियमाणानां विविधप्रयत्नानां परिचयं दत्त्वा, प्राचीनभारतीयन्यायप्रणालीसम्बद्धेषु विषयेषु कार्यं कर्तुं रुचिं वहद्भ्यः अधिवक्तृभ्यः विशेषरूपेण आह्वानं कृतवान्।

कार्यक्रमस्य संयोजकः श्री अजयकुमारमिश्रः, भारतीयभाषा-अभियान–काशीप्रान्तस्य संयोजकः तथा उच्चन्यायालयस्य अधिवक्ता, प्रो. ललितकुमारत्रिपाठी-महोदयस्य शिक्षाविद्यायाः, नेतृत्वक्षमतायाः संस्कृतसेवायाश्च मुक्तकण्ठेन प्रशंसां कृत्वा तं शिक्षाविदं त्रिपाठिमहोदयं संस्कृतभाषायाः प्रबलप्रचारकं च इति वर्णितवान्।
न्यायविदाम् अधिवक्तृणां च मध्ये संस्कृतभाषाया: लोकप्रियतायै तेन कृतानां प्रयासानां भूरि-भूरि प्रशंसां स अकरोत्।
कार्यक्रमात् पूर्वं उच्चन्यायालयपरिसरे उपस्थितैः अधिवक्तृभिः माल्यार्पणेन श्रीफलप्रदानेन च प्रो. ललितकुमारत्रिपाठि-महोदयस्य भव्यं स्वागतं कृतम्।
अस्मिन्नवसरे उच्चन्यायालयस्य अधिवक्तृभिः सह गङ्गानाथझापरिसरस्य सहनिदेशकः प्रो. देवदत्तसरोदे, राजेशकान्ततिवारी तथा च अन्ये अनेके प्रतिष्ठिताः गणमान्यनागरिकाश्च उपस्थिताः आसन्।
