मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च
एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:
अद्य वयं तस्य पावनकालस्य साक्षिणः स्मः, यं भारतीयमनीषिणः ‘पर्व’ इति कथयन्ति। ‘संक्रांति’ शब्दस्य व्युत्पत्तिलभ्यः अर्थः अस्ति— ‘सम्यक् क्रान्तिः’ अर्थात् श्रेष्ठा प्रगतिः। यदा भगवान् भास्करः धनुराशिं परित्यज्य मकरराशिं प्रविशति, तदा एषा घटना न केवलं खगोलीया, अपि तु जड़जगत्तः चेतनजगत् प्रति संक्रमणस्य उत्सवः वर्तते।
१. वैदिक-आधारः (सूर्यस्य महिमा)-
वेदेषु सूर्यः जगतः आत्मा इति उद्घोषितः “सूर्य आत्मा जगतस्तस्थुषश्च” (ऋग्वेद १.११५.१)
अर्थात् यत् किञ्चित् गतिशीलम् अस्ति, यच्च स्थिरम् अस्ति, तस्य सर्वस्य आत्मा सूर्यः एव। मकर संक्रांतिः अस्याः ‘वैश्विक-आत्मन:’ पुनरुत्थानस्य पर्व अस्ति।
२. उत्तरायणस्य शास्त्रीय-महत्त्वम् –
अस्मात् दिनात् सूर्यः ‘उत्तरायणः’ भवति। शास्त्रेषु अयं ‘देवयान मार्गः’ इति कथितः। श्रीमद्भगवद्गीतायां श्रीकृष्णः अस्य कालस्य महिमां वर्णयति:
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ (गीता ८.२४)
अस्य अर्थः अस्ति यत् उत्तरायणस्य प्रकाशमये काले शरीरत्यागं कृत्वा ब्रह्मज्ञानिनः मोक्षं प्राप्नुवन्ति। अत एव पितामह भीष्मः शरशय्यायां स्थित्वा अपि अस्य पावनकालस्य प्रतीक्षां कृतवान्।
३. दानस्य त्यागस्य च दर्शनम्-
अस्मिन् दिने दानस्य अक्षयपुण्यं वर्णितम् अस्ति। पद्मपुराणे उक्तम्:
“माघे मासे महादेव यो दास्यति घृतकम्बलम्।
स भुक्त्वा सकलान् भोगान् अन्ते मोक्षं च विन्दति॥”
अस्मिन् दिने ‘तिल-दानस्य’ विशेषं महत्त्वम् अस्ति, यतः तिलाः पापहारकाः उष्णताप्रदायकाः च भवन्ति।
४. जीवनोपयोगिता (व्यावहारिकः सन्देशः) –
मकर संक्रांतिः अस्मान् जीवनकलां शिक्षयति:
समरसता (खिचड़ी): – यथा तण्डुलाः माषाः (दाल) च मिलित्वा शक्तिप्रदं भोजनं भवन्ति, तथैव समाजस्य सर्वे वर्गाः मिलित्वा राष्ट्रं सुदृढं कुर्वन्ति।
माधुर्यम् (तिल-गुडम्): – “तिलगुडवत् स्नेहं वर्धयन्तु” इति उक्तिः अस्मान् शिक्षयति यत् अस्माकं वाणी गुडवत् मधुरा, जीवनं च तिलवत् स्नेहपूर्णं (स्निग्धम्) भवेत्।
लक्ष्यप्राप्तिः (पतङ्गः): – गगने उड्डयमानः पतङ्गः सन्देशं ददाति यत् ऊर्ध्वगतये (प्रगतये) संघर्षणं तु करणीयमेव, परन्तु स्वसंस्काराणां ‘सूत्रं’ (डोर) कदापि न त्याज्यम्।
अस्य पर्वणः त्रयः मुख्याः आधाराः सन्ति:
१. संकल्पः परिवर्तनं च (आध्यात्मिकः पक्षः):
मकरसंक्रांतिः ‘उत्तरायणस्य’ प्रारम्भकालः अस्ति। शास्त्रेषु उद्घोषितम् अस्ति— ‘तमसो मा ज्योतिर्गमय’ इति। अर्थात् वयं अन्धकारात प्रकाशं प्रति गच्छेम। यथा सूर्यः स्वदिशं परिवर्तितुं उत्तरदिशं प्रति अग्रसरः भवति, तथैव वयं अपि स्वजीवनस्य दिशां नकारात्मकतायाः सकारात्मकतां प्रति परिवर्तयेम। एषः दिवसः आत्ममन्थनस्य नूतनप्रारम्भस्य च अस्ति।
२. स्वास्थ्यं विज्ञानं च (वैज्ञानिकः पक्षः):
अस्माकं परम्पराणां पृष्ठे गभीरं विज्ञानं निहितम् अस्ति। शीतकाले तिल-गुडयोः सेवनं न केवलं रसास्वादाय, अपि तु शरीराय ऊष्मां ऊर्जां च प्रदातुं क्रियते। पतङ्गोड्डयनव्याजेन सूर्यकिरणेषु समययापनं अस्माकं स्वास्थ्याय ‘विटामिन-D’ इत्यस्य प्राकृतिकः स्रोतः भवति।
३. एकता माधुर्यं च (सामाजिकः पक्षः):
भारतस्य विविधां संस्कृतिं पश्यन्तु— कुत्रचित् एतत् ‘पोंगल’ अस्ति, कुत्रचित् ‘बिहू’, कुत्रचित् ‘लोहड़ी’ तत्रैव कुत्रचित् ‘खिचड़ी’ इति। नामानि अनेकानि सन्ति, परन्तु भावना एका एव। यथा तिल-गुडौ परस्परं मिलित्वा अविभाज्याः भवन्ति, तथैव वयमपि समाजे मिलित्वा वसेम। अस्मिन् दिने वयं पुरातन-द्वेषं विस्मृत्य तिल-गुडवत् सम्बन्धेष्म माधुर्यं स्थापयितुं संकल्पं कुर्याम।
निष्कर्ष:
अतः इयं संक्रांतिः अस्मान् ‘तमसो मा ज्योतिर्गमय’ इति वैदिकमार्गे प्रेरयति। आगच्छन्तु, वयं सर्वे स्वजीवनस्य अज्ञानं दूरीकृत्य सूर्यवत् तेजस्विनः भवेम।
