By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता* 
संस्कृतगतिविधयः

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/01/14 at 11:17 AM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता* 

 

सोमवासरे स्वामीविवेकानन्दस्य जन्मदिवसावसरे १२/०१/२०२६ इत्यस्मिन् पुण्यतमे शुभदिने कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागे आचार्या उमामहेश्वरी बी इति नामधेया प्रख्यातसंस्कृतविदुषी आचार्यपदेन नियुक्ता जाता । इदं विभागस्य विश्वविद्यालयस्य च परमं सौभाग्यमेव।

सा तिरुपतिसंस्कृतविश्वविद्यालयात् संस्कृतवाङ्मये उच्चशिक्षां सम्यगवाप्य ततः काशीहिन्दूविश्वविद्यालयतः न्यायशास्त्रे विद्यावारिध्युपाधिं (Ph.D.) प्राप्तवती। अध्ययन–अनुसन्धान–अध्यापनक्षेत्रेषु तस्याः प्रौढा प्रतिभा गाम्भीर्यपूर्णा दृष्टिः शास्त्रीयपरम्परायाः आधुनिकपरिप्रेक्ष्ये विवेचनकौशलं च सर्वत्र प्रशंसनीयं विद्यते।

अनन्तरं सा श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य दर्शनविभागे द्वादशवर्षाणि यावत् निरन्तरं समर्पणभावेन अध्यापनकार्यं कृतवती। तस्याः अध्यापनशैली छात्रहितैषिणी विचारोत्तेजकव्याख्यानानि अनुसन्धानप्रेरकदृष्टिकोणश्च विद्यार्थिनां सहकर्मिणां च मध्ये विशेषरूपेण आदृतः अभवत्।

अधुना सा कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागे आचार्यपदं भूषयन्ती स्वस्य गौरवपूर्णस्य अध्यापनजीवनस्य नूतनाध्यायं प्रारब्धवती। अस्माकं दृढा श्रद्धा वर्तते यत् तस्याः आगमनेन विभागे शास्त्रीयाध्ययनस्य दर्शनचिन्तनस्य अनुसन्धानपरम्परायाश्च नूतनं तेजः समुत्पत्स्यते तथा च विद्यार्थीणां बौद्धिकविकासः अधिकं सुदृढीभविष्यति।

अतः विभागपक्षतः विश्वविद्यालयपक्षतः च तस्यै हार्दाः शुभाशयाः, मंगलकामनाः, अभिनन्दनानि च सादरं समर्प्यन्ते। भवत्याः अध्यापनानुसन्धानयात्रा दीर्घा सफलतापूर्णा ज्ञानदीपप्रज्वलिता च भवतु इति वयं कामयामहे।शुभं भूयात्। एषा वार्ता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागस्य सर्वदर्शनमन्थनपरिषदः प्राप्ता।

You Might Also Like

KKSU – अगस्त-मासस्य २ दिनाङ्के रत्नागिरि-संस्कृत-उपकेन्द्रस्य पञ्चमः स्थापना-दिवस-समारोहः

कविकुलगुरु-कालिदाससंस्कृतविश्वविद्यालये “शास्त्रदीपिका-व्याख्यानमाला” आयोजिता

त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः

त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी

भारतीयज्ञानपरम्परायां संवादस्य भूमिका महत्त्वपूर्णा : विद्वज्जनानां मतम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:
Next Article ।।भारतदेशे संस्कृतभाषायाः महत्त्वम्।।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?